द्वन्द्वमनोज्ञादिभ्यश्च

5-1-133 द्वन्द्वमनोज्ञादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तस्य भावः स्त्वतलौ आ च त्वात् कर्मणि वुञ्

Sampurna sutra

Up

'तस्य भावः, कर्मणि च' (इति) द्वन्द्व-मनोज्ञादिभ्यः वुञ्

Neelesh Sanskrit Brief

Up

द्वन्द्वसमासेन निर्मितेभ्यः प्रातिपदिकेभ्यः तथा च मनोज्ञादिगणस्य शब्देभ्यः षष्ठीसमर्थेभ्यः 'भावः' तथा 'कर्म' एतयोः अर्थयोः वुञ्-प्रत्ययः भवति ।

Kashika

Up

द्वन्द्वसंज्ञकेभ्यो मनोज्ञादिभ्यश्च वुञ् प्रत्ययो भवति भावकर्मणोः। गोपालपशुपालानां भावः कर्म वा गौपालपशुपालिका। शैष्योपाध्यायिका। कौत्सकुशिकिका। मनोज्ञादिभ्यः — मानोज्ञकम्। काल्याणकम्॥ मनोज्ञ। कल्याण। प्रियरूप। छान्दस। छात्र। मेधाविन्। अभिरूप। आढ्य। कुलपुत्र। श्रोत्रिय। चोर। धूर्त। वैश्वदेव। युवन्। ग्रामपुत्र। ग्रामखण्ड। ग्रामकुमार। अमुष्यपुत्र। अमुष्यकुल। शतपुत्र। कुशल। मनोज्ञादिः॥

Siddhanta Kaumudi

Up

शैष्योपाध्यायिका । मानोज्ञकम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

यः शब्दः द्वन्द्वसमासेन सिद्ध्यति, तस्मात् शब्दात् , तथा च मनोज्ञादिगणस्य शब्दात् 'भावः' तथा 'कर्म' एतयोः अर्थयोः 'वुञ्' प्रत्ययः भवति । उदाहरणानि एतानि - [अ] द्वन्द-समासनिर्मितानि प्रातिपदिकानि - एतानि प्रातिपदकानि 'वुञ्'प्रत्ययं स्वीकृत्य प्रायः स्त्रीत्वे एव प्रयुज्यन्ते, अतः एतेभ्यः <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्ययः अपि भवति । 1. गोपालाः च पशुपालाः च गोपालपशुपालाः । तेषाम् भावः - = गोपालपशुपाल + वुञ् + टाप् → गोपालपशुपाल + वु + आ [इत्संज्ञालोपः] → गोपालपशुपाल + अक + आ[<<युवोरनाकौ>> 7.1.1 इत्यनेन 'वु' इत्यस्य अक-आदेशः भवति।] → गौपालपशुपाल + अक + आ[<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → गौपालपशुपाल् + अक + आ [<<यस्येति च>> 6.4.148 इति अकारलोपः] → गौपालपशुपालक + आ → गौपालपशुपालिक + आ [<<प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः>> 7.3.4 इति इत्वम्] → गौपालपशुपालिका [<<अकः सवर्णे दीर्घः>> 6.1.101 इति सवर्णदीर्घः] 2. शिष्यश्च उपाध्यायश्च शिष्योपाध्यायौ, तयोः भावः = शिष्योपाध्याय + वुञ् + टाप् → शैष्योपाध्यायिका । विशेषः - वस्तुतः 'शिष्योपाध्याय' शब्दः यकारोपधः गुरूपोत्तमः अस्ति, अतः <<योपधाद्गुरूपोत्तमाद्वुञ्>> 5.1.132 इत्यनेन अपि तस्मात् वुञ्-प्रत्ययः भवितुमर्हति । प्रयोगे तु स्त्रीप्रत्ययान्तः शब्दः एव दृश्यते, अतः वुञ्-प्रत्ययात् परम् टाप्-प्रत्ययः अपि विधीयते । [आ] मनोज्ञादिगणः अयम् - मनोज्ञ, कल्याण, प्रियरूप, छान्दस, छात्र, मेधाविन्, अभिरूप, आढ्य, कुलपुत्र, श्रोत्रिय, चोर, धूर्त, वैश्वदेव, युवन्, ग्रामपुत्र, ग्रामखण्ड, ग्रामकुमार, अमुष्यपुत्र, अमुष्यकुल, शतपत्र, कुशल । यथा - 1. मनोज्ञस्य भावः कर्म वा मानोज्ञकम् । 2. प्रियरूपस्य भावः कर्म वा प्रैयरूपकम् । 3. छान्दसः भावः कर्म वा छान्दसकम् । 4. छात्रस्य भावः कर्म वा छात्रकम् । 5. कल्याणस्य भावः कर्म वा काल्याणकम् । 6. श्रोत्रियस्य भावः कर्म वा श्रौत्रियकम् । विशेषः - 'श्रोत्रिय'शब्दः <<हायनान्तयुवादिभ्योऽण्>> 5.1.130 इत्यत्र निर्दिष्टे युवादिगणे अपि गृह्यते । 7. आढ्यस्य भावः आढ्यकम् । विशेषः - वस्तुतः अस्मात् शब्दात् <<योपधाद्गुरूपोत्तमाद्वुञ्>> 5.1.132 इत्यनेन अपि वुञ्-प्रत्ययः भवति । 8. यूनः भावः यौवनकम् । प्रक्रिया इयम् - युवन् + वुञ् → युवन् + अक [<<युवोरनाकौ>> 7.1.1 इत्यनेन 'वु' इत्यस्य अक-आदेशः भवति।] → यौवन् + अक [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → यौवनक [<<नस्तद्धिते>> 6.4.144 इति टिलोपे प्राप्ते <<प्रकृत्यैकाच्>> 6.4.163 इत्यत्र पाठितेन <! प्रकृत्या ऽके राजन्यमनुष्ययुवानः!> अनेन वार्त्तिकेन प्रकृतिभावः विधीयते । ] ज्ञातव्यम् - अस्मिन् सूत्रे निर्दिष्टेभ्यः शब्देभ्यः <<आ च त्वात्>> 5.1.120 इत्यनेन पक्षे त्व-तल्-प्रत्ययौ अपि भवतः । यथा - गोपालपशुपालानाम् भावः कर्म वा गोपालपशुपालत्वम् / गोपालपशुपालता । मनोज्ञस्य भावः कर्म वा मनोज्ञकत्वम् / मनोज्ञता ।

Balamanorama

Up

<<द्वन्द्वमनोज्ञादिभ्यश्च>> - द्वन्द्वमनोज्ञादिभ्यश्च । द्वन्द्वान्मनोज्ञादिभ्यश्च षष्ठन्तेभ्यो वुञित्यर्थः । शैष्योपाध्यायिकेति । शिष्यश्च उपाध्यायश्चेति द्वन्द्वाद्वुञ् । स्त्रीत्वं लोकात् । यद्यपियोपधा॑दित्येव सिध्यति तथापि गौपालपशुपालिकेत्युदाहरणं बोध्यम् ।

Padamanjari

Up

गोत्रवाचिन इति। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यते, अपत्यवाचिन इत्यर्थः। अपत्यप्रत्ययान्तादिति यावत्। अपर आह - ग्रवराध्याये पठितानां गोत्राणामिह ग्रहणमिति। चरणवाचिनश्चेति। चरणशब्दः शाखाध्यायिषु पुरुषेषु रूढः, अनयोश्च गोत्रं च चरणैः सहेति जातित्वात्'प्राणभृज्जाति' इत्यञ्प्राप्तः। प्रत्येक भावकर्मणोरर्थयोरिति।'यथासंख्यं तु सर्वत्रैवात्र प्रकरणे नेष्यते' इति पूर्वमेवोक्तम्। स्लाघादिषु विषयभूतेष्विति। प्रत्ययार्थत्वं श्लाघादीनां न भवति, भावकर्मणोः प्रत्ययार्थयोरधिकृतत्वात् नापि प्रत्ययार्थविशेषणम् - ये ते भावकर्मणी श्लाघादयश्चेते भवत इति; अस्म्भवता। शब्दस्य प्रवृत्तिनिमितं हि भावः, न च गोत्रचरणशब्दानां श्लाघादयः प्रवृत्तिनिमितम्, नापि गोत्रचरणशब्दानां श्लाघादिकर्मत्वेन प्रसिद्धिः। तस्मात् श्लाघादिषु भावकर्मणोः साध्यतया विषयभूतेष्वित्येवार्थः। तदवेतस्तत्प्राप्त इति। इणः प्राप्त्यर्थत्वात्। तज्ज्ञो वेति। अवपूर्वस्येणो ज्ञाने प्रसिद्धत्वात्। तच्छब्देन चेह गोत्रचरणयोर्भाकवर्मणी प्रतिनिर्द्दिश्यते। गार्गिकयेति। ठापत्यस्य चऽ इति यलोपः ॥ होत्राब्यश्च्छः ॥ होत्राशब्द ऋत्विजां वाचक इति। जुहोतेश्त्रन्, स्वभावतश्चायमृत्विक्ष्वपि स्त्रीलिङ्गः। अच्छावाकीयम् ब्राह्मणाच्छ्ंअसीयमिति। वेदे स्त्रीलिङ्गतापि दृश्यते'सो' स्याच्छावाकीयां कुर्यात्ऽ इति ॥