गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्

4-2-39 गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजात् वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः

Sampurna sutra

Up

तस्य समूहः (इति) गोत्र-उक्षन्-उष्ट्र-उरभ्र-राजन्-राजन्य-राजपुत्र-वत्स-मनुष्य-अजात् वुञ्

Neelesh Sanskrit Brief

Up

गोत्रवाचिनः शब्दाः, तथा उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज - एतेभ्यः शब्देभ्यः 'तस्य समूहः' अस्मिन् अर्थे वुञ्-प्रत्ययः भवति ।

Neelesh English Brief

Up

For the words that indicate a गोत्र, and for the words in this list - उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज - The वुञ् प्रत्यय is added to indicate the meaning of तस्य समूहः.

Kashika

Up

गोत्रादिभ्यो वुञ् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। अपत्याधिकारादन्यत्र लौकिकं गोत्रं गृह्यतेऽपत्यमात्रम्, न तु पौत्रप्रभृत्येव। औपगवानां समूह औपगवकम्। कापटवकम्। उक्षन् — औक्षकम्। उष्ट्र — औष्ट्रकम्। उरभ्र — औरभ्रकम्। राजन् — राजकम्। राजन्य — राजन्यकम्। राजपुत्र — राजपुत्रकम्। वत्स — वात्सकम्। मनुष्य — मानुष्यकम्। अज — आजकम्। <<प्रकृत्याके राजन्यमनुष्ययुवानः>> (वा० ६.४.१६३) इति यलोपो न भवति <<आपत्यस्य च तद्धितेऽनाति>> ६.४.१५१ इति॥ वृद्धाच्चेति वक्तव्यम्॥ वृद्धानां समूहो वार्धकम्॥

Siddhanta Kaumudi

Up

एभ्यः समूहे वुञ् स्यात् । लौकिकमिह गोत्रं तच्चापत्यमात्रम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अत्र निर्दिष्टानां शब्दानां विषये <<तस्य समूहः>> 4.2.37 अस्मिन् अर्थे वुञ्-प्रत्ययः विधीयते । यथा - 1. गोत्रवाची-शब्दाः - औपगवानां समूहः औपगवकम् । कापटवानां समूहः कापटवकम् । (औपगव, कापटव - एतौ गोत्रवाचिनौ शब्दौ) । 2. उक्ष्णां (वृषभानाम्) समूहः = उक्षन् + वुञ् → औक्षकम् । अत्र <<नस्तद्धिते>> 6.4.144 इति 'अन्' इत्यस्य लोपः भवति । 3. उष्ट्राणां समूहः औष्ट्रकम् । 4. उरभ्राणां (मेषानाम्) समूहः औरभ्रकम् । 5. राज्ञां समूहः राजकम् । अत्र <<नस्तद्धिते>> 6.4.144 इति 'अन्' इत्यस्य लोपः भवति । 6. राजन्यानाम् समूहः राजन्यकम् । 7. राजपुत्राणां समूहः राजपुत्रकम् । 8. वत्सानां समूहः वात्सकम् । 9. अजानां समूहः आजकम् । एतेषु सर्वेषु <<युवोरनाकौ>> 7.1.1 इत्यनेन 'वु' इत्यस्य 'अक' आदेशः भवति । प्रत्ययस्य ञित्वात् <<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन आदिवृद्धिः अपि विधीयते । अत्र काशिकाकारः एकं वार्त्तिकं पाठयति - <!वृद्धात् चेति वक्तव्यम्!> । इत्युक्ते, 'वृद्ध' शब्दस्य विषये अपि समूहार्थे वुञ्-प्रत्ययः भवति । वृद्धानां समूहः वार्द्धकम् । ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'गोत्र'शब्दः लौकिकगोत्रस्य निर्देशं करोति, न हि <<अपत्यं पौत्रप्रभृतिषु गोत्रम्>> 4.1.162 इत्यनेन निर्दिष्टस्य अपत्यवाचिनः अर्थस्य ।

Balamanorama

Up

<<गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्स- मनुष्याजाद्वुञ्>> - गोत्रोक्षोष्ट्रो । एभ्य इति । गोत्र, उक्षन्, उष्ट्र, उरभ्र, राजन्, राजन्य, राजपुत्र, वत्स, मनुष्य, अज-एतेब्य इत्यर्थः लौकिकमिह गोत्रमिति । नतु पारिभाषिकमित्यर्थः । अत्र लौकिकं गोत्रं किमित्यत आह — तच्चापत्यमात्रमिति । प्रवराध्याये परिगणितं पुत्रपौत्रादि कृत्स्नापत्यमित्यर्थः ।अपत्याधिकारादन्यत्र लौकिकमेव गोत्रं गृह्रते, नतु पारिभाषिकं गोत्रमिष्यते॑ इतिस्त्रीपुंसाभ्या॑मित्यादिसूत्रबाष्ये सिद्धान्तितत्वादिति भावः ।

Padamanjari

Up

अपत्याधिकारादन्यत्रेति । यद्येवम्, राजन्यमनुष्ययोरुपादानमनर्थकम्, गोत्र इत्येवसिद्धम् । न तावपत्यप्रत्ययान्तौ; जातेः प्रत्ययार्थत्वात् । उक्तं हि - राज्ञोऽपत्ये जातिग्रहणम्, मनोर्जातावञ्यतौ षुक्चेति । किंतर्ह्युच्यते'प्रकृत्या' के राजन्यमनुष्ययुवानःऽ इति यलोपो न भवतीति, यावताऽनापत्ययकारत्वेनैव न भविष्यति ? सत्यम् ; अपत्यार्थत्वमभ्युपेत्यैतदुच्यते । यद्यपत्यार्थत्वमभ्युपेयते, राजन्यमनुष्ययोर्ग्रहणमनर्थकम् ? नानर्थकम्; ज्ञापनार्थत्वात्, एतज् ज्ञापयति - नैतयोरपत्यकृतं भवतीति, तेन यलोपो न भवति, सर्वथा'प्रकृत्या' के राजन्यमनुष्ययुवानःऽ इति न वक्तव्यम् । औपगवकमिति । यथात्र परोऽप्यनुदातादेरञ् न भवति, तथा'खण्डिकादिभ्यश्च' इत्यत्र वक्ष्यते ॥