6-4-151 आपत्यस्य च तद्धिते अनाति असिद्धवत् अत्र आभात् भस्य लोपः यः हलः
आपत्ययकारस्य हल उत्तरस्य तद्धितेऽनाकारादौ लोपो भवति। गर्गाणां समूहो गार्गकम्। वात्सकम्। आपत्यस्येति किम्? सांकाश्यकः। काम्पिल्यकः। तद्धितग्रहणमीत्यनापत्यस्यापि लोपार्थम्। सौमी इष्टिः। अनातीति किम्? गार्ग्यायणः। वात्स्यायनः। हल इत्येव — कारिकेयस्यापत्यं कारिकेयिः॥
हलः परस्यापत्ययकारस्य लोपः स्यात्तद्धिते परे न त्वाकारे । गार्गीयाः । प्राग्दीव्यतीये किम् ? गर्गेभ्यो हितं गार्गीयम् । अचि किम् ? गर्गेभ्य आगतं गर्गरूप्यम् ॥
<<आपत्यस्य च तद्धितेऽनाति>> - तथाच गाग्र्य-ईय इति स्थितेयस्येति चे॑ति यञोऽकारस्य लोपे गाग्र्य-ईय इति स्थिते परिशिष्टस्य यञो यकारस्य लोपमाह — आपत्यस्य च ।अनाती॑ति च्छेदः । 'ढे लोपोऽकद्व्राः' इत्यतो लोप इत्यनुवर्तते ।सूर्यतिष्ये॑त्यतो 'य' इति षष्ठन्तमनुवर्तते ।हलस्तद्धितस्येत्यतो हल इति पञ्चम्यन्तमनुवर्तते । तदाह — हलः परस्यापत्ययकारस्येति । अपत्यार्थकयकारस्येत्यर्थः । यञो लुकि तु आदिवृद्धिर्न स्यादिति भावः । अल्लोपस्याभीयत्वेऽपि नाऽसिद्धत्वम्, आरम्भसामर्थ्यात् ।हलस्तद्धितस्ये॑ति यलोपस्यात्र प्रसक्तावपि न्याय्यत्वादिदमेव भवति । गर्गीयमिति ।तस्मै हित॑मिति गाग्र्यशब्दाच्छः । तस्य प्राग्दीव्यतीयत्वाऽभावात् तस्मिन्परेयञञोश्चे॑ति यञो लुग्भवत्येवेति नादिवृद्दिरिति भावः । गर्गरूप्यमिति । 'हेतुमनुष्येभ्यः' इति रूप्यप्रत्ययः । तस्य प्राग्दीव्यतीयत्वेप्यजादित्वाऽभावात्तस्मिन्परे यञोऽलुङ्न । यदि तुअजादौ प्राग्दीव्यतीये परे॑ इति व्याख्यायेत, तर्हि गाग्र्यशब्दाच्छे तस्य ईयादेशे कृतेऽलुग्विधिः प्रवर्तेत, नतु ततः प्राक् । एवंच छप्रवृत्तेः प्रागेव यञि अलुग्विधेः प्रवृत्तौ, यञन्तस्य वृद्धत्वाच्छो निर्बाधः । यलोपविधौ — आपत्यस्येति किम् । गार्ग्ये । गाग्र्ययोः । अनातीति किम् गाग्र्यायणः ।
गार्गकमिति । गोत्रोक्षोष्ट्र इत्यादिना वुञ्, सङ्कशादिभ्यो ण्यः इति वुञ्च्छणादिसूत्रेण चातुरर्थिकः, ततः धन्वयोपधाद्वुञ् इति जातादावर्थे । तद्धितग्रहणमित्यादि । सोमो देवतास्येति सोमाट्ट।ल्ण् टित्वान्ङीप्, तत्र परतोऽनापत्ययकारस्याप्यस्य हलस्तद्धितस्य इति लोपो यथा स्यादित्येवमर्थमिह तद्धितग्रहणं कृतमन्यथा हि प्रकृतं तद्धितग्रहणिहानुवर्तनीयम्, तस्मिंश्चानुवर्तमाने तत्सम्बद्धमीतीत्यपि सम्बध्येत, तच्चोभयमिह सम्बध्यमानं पूर्वसूत्रेऽपि सम्बध्येत, ततश्च पूर्वेणैव सिद्धे सत्युभयत्र तद्धित ईति चेति नियमोऽयं विज्ञायेत - आपत्यस्यैवानाकारादौ तद्धिते ईति चेति । ततो यथा तद्धितेऽनापत्यस्य न भवति - साङ्कश्यक इत्यादौ, तथा ईत्यपि न स्यात् - सौमी इष्टिरिति । तद्धितग्रहणे तु सति तेन पूर्वयोगे तद्धितग्रहणस्य निवृत्तिराख्यातेत्यापत्यानापत्ययोर्द्वयोरपि पूर्वेण ईति लोपो विधीयत इति सौमी इष्टिरित्यत्रापि यलोपः सिध्यतीत्यतस्तद्धितग्रहणम् । ननु च यद्यौभयस्यायं नियमः स्याद्, योगविभागोऽनर्थकः स्याद्, हल आपत्यस्य तद्धितस्यानाति इत्येकमेव योगंकुर्यात्, ततो योगविभागादन्यतरस्यैवानुवृत्तिः, तत्रापि अनाति कैति वचनातस्यैव एवमपि दोषः, अनापत्यस्य तद्धितेऽपि प्राप्नोति, कथमापत्यस्य यदि भवति थानाकारादावेवेति नियमसम्भावत्, साङ्काश्यकादौ लोपः स्यादेव । अनाकाराविति नियमः सम्भवति । अथ न सम्भवति तदा न कश्चिद्दोषः आपत्यस्यैव तद्धिते, तत्राप्यनाकारादेवेति नियमद्वयाश्रयणात् ॥