वासुदेवार्जुनाभ्यां वुन्

4-3-98 वासुदेवार्जुनाभ्यां वुन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् सः अस्य भक्तिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

वासुदेवार्जुनशब्दाभ्यां वुन् प्रत्ययो भवति सोऽस्य भक्तिरित्येतस्मिन् विषये। छाणोरपवादः। वासुदेवो भक्तिरस्य वासुदेवकः। अर्जुनकः। ननु च वासुदेवशब्दाद् <<गोत्रक्षत्रियाख्येभ्यः०>> ४.३.९९ इति वुञस्त्येव। न चात्र वुन्वुञोर्विशेषो विद्यते, किमर्थं वासुदेवग्रहणम्? संज्ञैषा देवताविशेषस्य न क्षत्रियाख्या। <<अल्पाच्तरम्>> २.२.३४ <<अजाद्यदन्तम्>> २.२.३३ इति वा अर्जुनशब्दस्य पूर्वनिपातमकुर्वन् ज्ञापयति — अभ्यर्हितं पूर्वं निपततीति॥

Siddhanta Kaumudi

Up

वासुदेवकः । अर्जुनकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वासुदेवार्जुनाभ्यां वुन्>> - वासुदेव ।सोऽस्य भक्ति॑रित्येव । वासुदेवक इति । वासुदेवो भक्तिरस्येति विग्रहः । एवमर्जुनकः । ननु वसुदेवस्यापत्य॑मित्यर्थेऋष्यन्धकवृष्णिकुरुभ्यश्चे॑ति वाष्र्णेयत्वादणि वासुदेवशब्दात्गोत्रक्षत्रियाख्येभ्यो बहुलं वु॑ञिति वुञैव सिद्धत्वाद्वासुदेवग्रहणं व्यर्थमिति चेत्, सत्यम्, अणन्तो वासुदेवशब्दोऽत्र न गृह्रते किंतु यस्मिन्समस्तं वसति, यो वा समस्ते वसति स वासुः स चासौ देवश्चेति व्युत्पत्त्या वासुदेवशब्दोऽयं भगवति योगरूढ एवेति न दोषः । उक्तच भाष्ये-॒नैषा क्षत्रियाख्या, संज्ञैषा तत्रभवतः॑ इति ।

Padamanjari

Up

छाणोरपवाद इति ।'वासुदेवशब्दः संज्ञा' इति वक्ष्यति, तेन तत्रोतरस्य वुञोऽप्राप्तिः । अर्जुनशब्दोऽपि यो वृक्षविशेषवचनो वणविशेषवचनो वा, न तत्र वुञः प्राप्तिः; क्षत्रियवचनादपि बहुलवचनाद् वुञोऽप्राप्तिरेवेति भावः । ननु चेत्यादि । वसुदेवस्यापत्यम्, ठृष्यन्धकवृष्णिकुरुभ्यश्चऽ इत्यण् । न चात्रेति । न तावद् वृद्धौ विशेषः; प्रागेव वृद्धत्वात् । योऽपि'वृद्धिनिमितस्य' इति पुंबद्भावप्रतिषेधः, सोऽस्यापि'न कोपधायाः' इत्यसत्येव । संज्ञेषा देवताविशेषस्येति । वसत्यस्मिन्सर्वमिति व्युत्पत्या परमात्मन एषा संज्ञा । न क्षत्रियाख्येति । उपलक्षणमेततत्, नापि गोत्राशख्येत्यपि द्रष्टव्यम् । प्रासङ्गिकं प्रयोजनान्तरं वासुदेवग्रहणस्य दर्शयति - अजाद्यदन्तम्, अल्पाच्तरमिति चेति । इतिकरणः प्रत्येकमभिसम्बद्ध्यते । यद्यप्येतज्ज्ञाप्यते, तथापि'श्वयुवमघोनामतद्धिते' इति निर्देशात्क्वचिदन्यथापि भवति ॥