किदाशिषि

3-4-104 कित् आशिषि प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लिङः यासुट् परस्मैपदेषु उदात्तः

Sampurna sutra

Up

index: 3.4.104 sutra: किदाशिषि


आशिषि लिङः परस्मैपदेषु यासुट् उदात्तः कित्

Neelesh Sanskrit Brief

Up

index: 3.4.104 sutra: किदाशिषि


आशीर्लिङ्लकारस्य प्रत्ययानाम् परस्मैपदेषु यासुट् आगमः भवति, स च उदात्तः कित् भवति ।

Neelesh English Brief

Up

index: 3.4.104 sutra: किदाशिषि


The परस्मैपदस्य प्रत्ययाः of आशीर्लिङ्लकार get a 'यासुट्' आगम which is both - उदात्त and कित्.

Kashika

Up

index: 3.4.104 sutra: किदाशिषि


आशिषि यो लिङ्, तस्य यासुडागमो भवति, स च उदात्तः किद्वद् भवति। प्रत्ययस्य एव इदं कित्त्वम्, न आगमस्य, प्रयोजनाभावात्। ङित्त्वे प्राप्ते कित्त्वम् विधीयते। गुणवृद्धिप्रतिषेधः तुल्यः, सम्प्रसारणम्, जागर्तेर्गुणे च विशेषः। इष्यत्, इष्यास्ताम्, इस्यासुः। जागर्यात्, जागर्यास्ताम्, जागर्यासुः। आशिषि इति किम्? वच्यात्। जागृयात्।

Siddhanta Kaumudi

Up

index: 3.4.104 sutra: किदाशिषि


आशिषि लिङो यासुट् कित्स्यात् । स्कोः - <{SK380}> इति सलोपः ॥

Laghu Siddhanta Kaumudi

Up

index: 3.4.104 sutra: किदाशिषि


आशिषि लिङो यासुट् कित्। स्कोः संयोगाद्योरिति सलोपः॥

Neelesh Sanskrit Detailed

Up

index: 3.4.104 sutra: किदाशिषि


आशीर्लिङ्लकारस्य विषये यासुट् परस्मैपदेषूदात्तो ङिच्च 3.4.103 इत्यनेन उदात्त-ङित्-यासुट्-आगमे प्राप्ते ; वर्तमानसूत्रेण अयमेव आगमः 'कित्' विधीयते, ङित् न । कित्त्वस्य ङित्भिन्नम् मुख्यम् प्रयोजनमस्ति 'सम्प्रसारणम्' । वचिस्वपियजादीनां किति 6.1.15 इत्यनेन कित्-प्रत्यये परे यत् सम्प्रसारणम् विधीयते तत् ङित्-परे न भवति । आशीर्लिङ्लकारस्य विषये एतत् सम्प्रसारणम् कर्तव्यम् - इति निर्देष्टुमत्र आगमस्य कित्-ग्रहणं क्रियते । गुणवृद्धिनिषेधः तु क्ङिति च 1.2.5 इत्यनेन ङित्-प्रत्ययस्य विषये यथा विधीयते तथैव कित्-प्रत्ययस्य विषयेऽपि विधीयते ।

यथा, वच्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषैकवचनम् एतादृशम् -

वच् + लिङ् [आशिषि लिङ्लोटौ 3.3.173 इति लिङ्लकारः]

→ वच् + तिप् [तिप्तस्.. 3.4.78 इति तिप् । लिङ्गाशिषि 3.4.116 इत्यनेन अयमार्धधातुकसंज्ञकः भवति । ]

→ वच् + यासुट् + ति [किदाशिषि 3.4.104 इति उदात्तः कित् यासुट्-आगमः ]

→ वच् + यास् + सुट् + ति [सुट्तिथोः 3.4.107 इति सुट्-आगमः]

→ उच् + यास् + स् + ति [वचिस्वपियजादीनां किति 6.1.15 इति सम्प्रसारणम्]

→ उच् + यास् + स् + त् [इतश्च 3.4.100 इति इकारलोपः]

→ उच् + या + स् + त् [स्कोः संयोगाद्योरन्ते च 8.2.29 इति झलि परे सकारलोपः]

→ उच्यात् [स्कोः संयोगाद्योरन्ते च 8.2.29 इति पदान्ते सकारलोपः]

Balamanorama

Up

index: 3.4.104 sutra: किदाशिषि


किदाशिषि - किदाशिषि ।लिङः सीयु॑डित्यतो लिङ इत्यनुवर्तते ।यासुट् परस्मैपदेष्वि॑त्यतो यासुडिति च । तदाह — आशिषि लिङ इति ।यासुट् परस्मैपदेष्वि॑ति ङित्त्वस्यापवादः । यद्यपि ङित्त्वेनैव गुणनिषेधः सिध्यति, तथापिइज्या॑दित्यादौवचिस्वपियजादीनां किती॑ति संप्रसारणार्थं कित्तवमावश्यकमिह न्याय्यत्वादुपन्यस्तम् । अथ आशिषि लिङस्तिप्यार्धधातुकत्वाच्छबभावेइतश्चे॑तीकारलोपे यासुटागमेऽतः परत्वाऽभावात् सार्वधातुकात्वाऽभावाच्च इयादेशाऽभावे सुटि भूयास् स् त् इति स्थिते प्रक्रियामाह — स्कोरिति लोप इति । 'लिङसलोप' इत्यस्य सार्वधातुकविषयत्वात्स्कोरिति सुः पदान्तसंयोगादित्वाल्लोपः । ततो यासुटः सस्यापि पदान्तसंयोगादित्वादेव लोपः, न तु झल्परसंयोगादित्वेन यासुटः सस्य लोपे सुटः सस्य पदान्तसंयोगादित्वाल्लोप इति युक्तं, तथा सति झल्पसंयोगादिलोपस्याऽसिद्धत्वेन संयोगान्तलोपापत्तेः । भ्रष्ट इत्यादौ सावकाशस्यझल्परसंयोगादिलोपस्य संयोगान्तलोपाऽबाधकत्वादिति शब्दरत्ने विस्तरः । एवं च भूयास् स् त् इति स्थिते सकारद्वयस्य निवृत्तौ भूयादिति रूपम् । तत्रसार्वधातुकार्धधातुकयो॑रिति गुणे प्राप्ते ।

Padamanjari

Up

index: 3.4.104 sutra: किदाशिषि


तस्य यासुट्॥।किद्वद्भवतीति । तस्य यासुड् भवति स च लिङ्किद्वद्भवतीत्यर्थः । अन्यथा'प्रत्ययस्येदं कित्वम्' इत्यनन्तरग्रन्थेन विरोधः स्यात् । प्रयोजनाभावादिति ।'वचिस्वपि' इत्यत्रापि'धातोः स्वरूपग्रहणे' इति प्रत्ययस्यैवेदं ग्रहणं स्यात्; अन्यथा वाच्यति वाचिकं कथयति, वाग्जहातीत्यत्रापि स्यात् । गुणवृद्धिप्रतिषेधस्तुल्य इति । किमर्थं तर्हि कित्वविधानमित्यत आह - सम्प्रसारणमिति । जागर्यादिति ।'जाग्रो' विचिण्णल्ङ्त्सुऽ ईति गुणः ॥