3-4-116 लिङ् आशिषि प्रत्ययः परः च आद्युदात्तः च धातोः लस्य आर्धधातुकं
आशिषि लिङ् तिङ् आर्धधातुकम्
आशीर्लिङ्-लकारस्य तिङ्-प्रत्ययाः साक्षात् आर्धधातुकाः सन्ति ।
The प्रत्ययs of आशीर्लिङ्-लकार are termed आर्धधातुक.
आशिषि विषये यो लिङ्, स आर्धधातुकसंज्ञो भवति। सार्वधातुकसंज्ञाया अपवादः। समावेशश्चैवकारानुवृत्तेर्न भवति। लविषीष्ट। पविषीष्ट। आशिषीति किम्? लुनीयात्। पुनीयात्॥
आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥
आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात्॥
<<तिङ्शित्सार्वधातुकम्>> 3.4.113 इत्यनेन सर्वेषाम् तिङ्-प्रत्ययानाम् सार्वधातुकसंज्ञा विधीयते । अस्य अपवादत्वेन लिङ्-लकारस्य 'आशिषि' अर्थे विधीयमानाः तिङ्-प्रत्ययाः वर्तमानसूत्रेण आर्धधातुकसंज्ञकाः भवन्ति । एतत् स्मर्तव्यम् यत् लिङ्लकारस्य प्रयोगः बहुषु अर्थेषु भवति । परन्तु एतेषु सर्वेषु अर्थेषु लिङ्-लकारस्य तिङ्-प्रत्ययाः आर्धधातुकाः न सन्ति । केवलं <<आशिषि लिङ्लोटौ>> 3.3.173 इत्यनेन निर्दिष्टे अर्थे एव लिङ्लकारात् विहिताः आर्धधातुकसंज्ञकाः भवन्ति । उदाहरणे एते - 1. <<अस्तेर्भूः>> 2.4.52 इत्यनेन अस्-धातोः आर्धधातुके प्रत्यये परे भू-आदेशः भवितुमर्हति । अयमादेशः आशीर्लिङ्लकारस्य रूपेषु अपि दृश्यते । यथा, अस्-धातोः आशीर्लिङ्लकारस्य प्रथमपुरुषस्य रूपाणि 'भूयात्, भूयास्ताम्, भूयासुः' इति भवन्ति । 2. <<कर्तरि शप्>> 3.1.68 इत्यनेन सार्वधातुके प्रत्यये परे अङ्गस्य औत्सर्गिकम् शप्-विकरणम् भवति । आशीर्लिङ्-लकारस्य तिङ्-प्रत्ययाः आर्धधातुकाः सन्ति, अतः एतेषां विषये अस्य सूत्रस्य प्रसक्ति नास्ति । यथा - 'गम्' धातोः आशीर्लिङ्-लकारस्य प्रथमपुरुषैकवचनम् 'गम्यात्' इत्यत्र गम्-धातोः 'गच्छ्' आदेशः न भवति, यतः अयमादेशः <<इषुगमियमां छः>> 7.3.77 इत्यनेन केवलं शित्-प्रत्यये परे एव विधीयते । अत्रः शप्-विकरणम् न आगच्छति, अतः अत्र शित्-विशिष्टस्य सूत्रस्यापि प्रसक्तिः नास्ति ।