कर्मप्रवचनीयाः

1-4-83 कर्मप्रवचनीयाः आ कडारात् एका सञ्ज्ञा निपाताः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

अधिकारसूत्रं संज्ञासूत्रं च इदम् । इतः परम् <<अधिरीश्वरे>> 1.4.97 इति सूत्रपर्यन्तं कर्मप्रवचनीयसंज्ञकाः पाठ्यन्ते ।

Kashika

Up

कर्मप्रवचनीया इत्यधिकारो वेदितव्यः। यानित ऊर्ध्वमनुक्रमिष्यामः कर्मप्रवचनीयसंज्ञास्ते वेदितव्याः। <<अधिरीश्वरे>> १.४.९७ इति यावद् वक्ष्यति। कर्मप्रवचनीयप्रदेशाः — <<कर्मप्रवचनीययुक्ते द्वितीया>> २.३.८ इत्येवमादयः ॥

Siddhanta Kaumudi

Up

इत्यधिकृत्य ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

इदम् संज्ञासूत्रम् अस्ति । अनेन सूत्रेण कर्मप्रवचनीयः इति व्याकरणविशिष्टा संज्ञा दीयते । किञ्च, इदम् अधिकारसूत्रम् अपि अस्ति । अस्य सूत्रस्य अधिकारः <<अधिरीश्वरे>> 1.4.97 इति पर्यन्तं प्रचलति । अस्मिन् अधिकारे विद्यमानैः सर्वैः अपि सूत्रैः आहत्य एकादशानां शब्दानां कर्मप्रवचनीयसंज्ञा विधीयते । तदित्थम् - कर्मप्रवचनीयसंज्ञकशब्दाः

  • 1. अनु - <<अनुर्लक्षणे>> 1.4.84 , <<तृतीयार्थे>> 1.4.85, <<हीने>> 1.4.86 तथा च <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> 1.4.90
  • 2. उप - <<उपोऽधिके च>> 1.4.87
  • 3. अप - <<अपपरि वर्जने>> 1.4.88
  • 4. परि - <<अपपरि वर्जने>> 1.4.88, <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> 1.4.90, <<अधिपरी अनर्थकौ>> 1.4.93
  • 5. आङ् - <<आङ् मर्यादावचने>> 1.4.89
  • 6. प्रति - <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> 1.4.90, <<प्रति प्रतिनिधिप्रतिदानयोः>> 1.4.92
  • 7. अभि - <<अभिरभागे>> 1.4.91
  • 8. अधि - <<अधिपरी अनर्थकौ>> 1.4.93
  • 9. सु - <<सुः पूजायाम्>> 1.4.94
  • 10. अति - <<अतिरतिक्रमणे च>> 1.4.95
  • 11. अपि - <<अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु>> 1.4.96 प्रादयः, उपसर्गाः, गतिसंज्ञकाः, तथा च कर्मप्रवचनीयाः प्रादिगणे विद्यमानाः एकादश शब्दाः विशिष्टेषु सन्दर्भेषु उपरि निर्दिष्टैः सूत्रैः कर्मप्रवचनीयसंज्ञकाः भवन्ति । एते कर्मप्रवचनीयसंज्ञकशब्दाः बहुषु स्थलेषु क्रियायोगं विना एव प्रयुक्ताः दृश्यन्ते । परन्तु यत्र ते क्रियया सह प्रयुक्ताः सन्ति तत्रापि तेषाम् न तु उपसर्गसंज्ञा भवति, न च गतिसंज्ञा विधीयते, यतः इयं कर्मप्रवचनीयसंज्ञा एकसंज्ञाधिकारात् उपसर्गसंज्ञां गतिसंज्ञां च बाधते । अतश्च कर्मप्रवचनीयसंज्ञकशब्दानां योगे उपसर्गविशिष्टानि, गतिसंज्ञाविशिष्टानि वा कार्याणि अपि न भवन्ति । यद्यपि कर्मप्रवचनीयसंज्ञकाः न हि उपसर्गसंज्ञकाः, न च गतिसंज्ञकाः सन्ति, तथापि ते निपातसंज्ञकाः अवश्यमेव सन्ति यतः तेषां विधानम् <<प्राग्रीश्वरान्निपाताः>> 1.4.56 अस्मिन् अधिकारे एव कृतम् अस्ति । कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् अष्टाध्याय्यां कर्मप्रवचनीयसंज्ञायाः द्वे प्रयोजने स्तः -
  • 1. विशिष्टविभक्तेः विधानम् - <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8, <<यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी>> 2.3.9, <<पञ्चम्यपाङ्परिभिः>> 2.3.10 तथा च <<प्रतिनिधिप्रतिदाने च यस्मात्>> 2.3.11 इत्येतैः चतुर्भिः सूत्रैः कर्मप्रवचनीयसंज्ञकशब्दानां योगे विशिष्टा विभक्तिः विधीयते । यथा, अप त्रिगर्तेभ्यो वृष्टो देवः अस्मिन् वाक्ये अप इति कर्मप्रवचनीयसंज्ञकशब्दस्य उपस्थितौ त्रिगर्त इति शब्दात् पञ्चमीविभक्तिः प्रयुक्ता अस्ति ।
  • 1. उपसर्गसंज्ञाविशिष्टस्य / गतिसंज्ञाविशिष्टस्य कार्यस्य बाधः - कुत्रचित् कर्मप्रवचनीयसंज्ञा उपसर्गसंज्ञाविशिष्टस्य अथवा गतिसंज्ञाविशिष्टस्य कार्यस्य बाधः भवेत् इति हेतुना अपि दत्ता अस्ति । यथा, देवदत्तेन सु सिक्तम् इत्यत्र सु इत्यस्य कर्मप्रवचनीयसंज्ञा उपसर्गसंज्ञां बाधते । यदि अत्र सु इत्यस्य उपसर्गसंज्ञा अभविष्यत्, तर्हि <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्>> 8.3.65 इत्यनेन सिक्त-शब्दस्य सकारस्य अनिष्टं षत्वम् अभविष्यत् । तत् तथा मा भूत् इति हेतुना अत्र उपसर्गसंज्ञायाः बाधः इष्यते, तदर्थं च अत्र सु इत्यस्य कर्मप्रवचनीयसंज्ञा विधीयते । <hl>कर्मप्रवचनीयः</hl> इति अन्वर्थसंज्ञा भाष्यकारेण प्रकृतसूत्रस्य भाष्ये कर्मप्रवचनीयः इति शब्दस्य व्युत्पत्तेः विषये, तथा च अर्थस्य विषये अपि चर्चां कृत्वा कर्मप्रवचनीयसंज्ञा अन्वर्थसंज्ञा अस्ति इति विधानं कृतम् वर्तते । अस्मिन् सन्दर्भे तेन कर्मप्रवचनीयः इत्यत्र विद्यमानस्य कर्म इति शब्दस्य अर्थः क्रिया इति स्वीकृतः अस्ति । एवमेव, प्रवचनीय इत्यत्र भूते कर्तरि <<अनीयर्>>-प्रत्ययं मत्वा अस्य शब्दस्य उक्तवन्तः इति अर्थः भाष्ये दत्तः अस्ति । अनेन प्रकारेण कर्मप्रवचनीयः इति शब्देन क्रियां उक्तवन्तः इति अर्थः सिद्ध्यति । इत्युक्ते, ते शब्दाः ये इदानीं क्रियां न दर्शयन्ति परन्तु क्रियावाचकशब्दस्य स्थाने स्थापिताः वर्तन्ते (स्वस्य पूर्वस्वरूपे क्रियाम् उक्तवन्तः इत्याशयः) ते कर्मप्रवचनीयशब्दाः - इति अर्थः अत्र सिद्ध्यति । यथा, वृक्षम् प्रति विद्योतते विद्युत् अस्मिन् वाक्ये प्रति इति कर्मप्रवचनीयसंज्ञकशब्दः अभिलक्ष्य इति क्रियायाः स्थाने प्रयुक्तः अस्ति (वृक्षम् अभिलक्ष्य विद्युत् विद्योतते इति अर्थः), अत्र अत्र प्रति इति आदौ क्रियाम् उक्तवान् इति मत्वा तस्य कर्मप्रवचनीयसंज्ञा सिद्धा भवति । अनेन प्रकारेण भिन्नाः कर्मप्रवचनीयसंज्ञकशब्दाः एतादृशं क्रियायाः स्थाने प्रयुक्ताः दृश्यन्ते । अस्मिन्नेव विषये वाक्यपदीये द्वितीये काण्डे (वाक्यकाण्डे) 197 तः 204 इत्येतेषु श्लोकेषु भर्तृहरिणा इतोऽपि विस्तरेण विवेचनं कृतम् अस्ति । जिज्ञासवः छात्राः तत् अवश्यं द्रष्टुम् अर्हन्ति । यद्यपि भाष्यकारेण "कर्म प्रोक्तवन्तः ते कर्मप्रवचनीया:" इति अन्वर्थः दत्तः अस्ति, तथापि अयम् अर्थः केवलम् उपलक्षणस्वरूपेण (representative / indicatory meaning) एव स्वीकर्तव्यः । न हि सर्वेऽपि एकादश कर्मप्रवचनीयाः सर्वेषु उदाहरणेषु "कर्म प्रोक्तवन्तः" इति स्वरूपेण व्यवह्रियन्ते । यथा, सु सिक्तं भवता इत्यस्मिन् वाक्ये विद्यमानः सु इति कर्मप्रवचनीयसंज्ञकः शब्दः न हि कस्याः अपि क्रियायाः स्थाने प्रयुक्तः अस्ति । ##Balamanorama <<कर्मप्रवचनीयाः>> - कर्मप्रवचनीयाः । इत्यधिकृत्येति ।प्राग्रीस्वरान्निपाताः॑ इति पर्यन्तमिति बोध्यम् । ##Padamanjari वक्ष्यामाणानां संज्ञिनां बहुत्वाद्वहुवचनम्, यथा - निपाताः, कृत्या इति। क्वचितु सामान्यविवक्षयैकवचनम्,'गतिश्च' 'प्रत्ययः' ठ्कृत्ऽ इति। महासंज्ञाकरणमन्वर्थसंज्ञाकरणमन्वर्थसंज्ञाविज्ञानार्थम् - कर्मौक्रियां प्रोक्तवन्तः कर्मप्रवचनीया इति। भूते'कृत्यल्युटो बहुलम्' इति कर्तरि कृत्यः। के च कर्म प्रोक्तवन्तः? ये प्रयुज्यमाने क्रियापदे - ठनुभूयते कम्बलःऽ इत्यादौ क्रियाविशेषं द्योतितवन्तः, न संप्रति क्रियाविशेषं द्योतयन्ति, किं तर्हि? सम्बन्धविशेषम्, तद्यथा - शाकल्यस्य संहितामनुप्रावर्षदिति। न ह्यत्रानुरनुभूयते इत्यादाविव क्रियाविशेषं द्योतयति, क्रियापदाभावात्; नापि षष्ठीवत्सम्बन्धमाचष्टे - संहितामिति; द्वितीयायास्तदर्थत्वात्। नापि क्रियापदमाक्षिपति, यथा - प्रादेशं विपरिलिखतीति, विशब्दो विमानक्रियां प्रादेशं विमाय परिलिखतीति । तथा हि - सति प्रादेशमितिवत् कारकविभक्तिप्रसङ्गः, शेषसम्बन्धस्य वा प्रतीतिप्रसङ्गः। तदेवमनुः संहिताप्रवर्षणयोर्यः शेषसम्बन्धो द्वितीयाभिहितस्तं विशेषेऽवस्थापयति। हेतुहेतुमद्भावेन रूपेण विशिष्टक्रियाजनितत्वेन वा सम्बन्धस्य तत्संनिधौ सम्प्रत्ययात् संहितामनुनिशम्य प्रावर्षदिति। उक्तं च - क्रियाया द्योतको नायं न सम्बन्धस्य वाचकः। नापि क्रियापदाक्षेपी सम्बन्धस्य तु भेदकः॥ इति। क्वचितु प्रवृत्तिनिमिताभावेऽपि वचनसामर्थ्यादियं संज्ञा प्रवर्तते, यथा -'सुः पूजायाम्' ठतिरतिक्रमणे चेति॥