व्यवहिताश्च

1-4-82 व्यवहिताः च आ कडारात् एका सञ्ज्ञा निपाताः ते प्राक् धातोः छन्दसि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

वेदेषु उपसर्गाः तथा च गतिसंज्ञकाः धातोः व्यवहितपूर्वं, व्यवहितपरं वा अपि प्रयुक्ताः दृश्यन्ते ।

Kashika

Up

व्यवहिताश्च गत्युपसर्गसंज्ञकाः छन्दसि दृश्यन्ते। आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः (ऋ० ३.४५.१)। आ या॑हि (ऋ० ६.१६.१०)॥

Siddhanta Kaumudi

Up

हरिभ्यां याह्योक आ (हरि॑भ्यां या॒ह्योक॒ आ) । आ मन्द्रैरिन्द्र हरिभिर्याहि(आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<उपसर्गाः क्रियायोगे>> 1.4.59 इत्यनेन प्रादिगणस्य शब्दाः क्रियायोगे उपसर्गसंज्ञकाः भवन्ति । एवमेव, <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इत्येतैः सूत्रैः भिन्नाः शब्दाः क्रियायोगे गतिसंज्ञकाः भवन्ति । एते सर्वे उपसर्गसंज्ञकाः गतिसंज्ञकाः च शब्दाः यद्यपि क्रियायोगे एव विधीयन्ते, तथापि ते वेदेषु धातोः पूर्वं, धातोः धातोः अनन्तरं वा व्यवहितरूपेण अपि प्रयुक्ताः दृश्यन्ते - इति अस्य सूत्रस्य आशयः । व्यवहितरूपेण इत्युक्ते उपसर्गधात्वोर्मध्ये, अथवा गतिधात्वोर्मध्ये अन्ये केचन शब्दाः व्यवधानरूपेण अपि भवितुम् अर्हन्ति - इति । अस्य सूत्रस्य व्याख्यानेषु दत्तानि उदाहरणानि एतानि -

  • 1. ऋग्वेदे 3.45.1 - आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः । अत्र इति उपसर्गः याहि इति क्रियायाः योगे विधीयते, परन्तु सः अव्यवहितपूर्वं नास्ति अपितु तयोर्मध्ये मन्द्रैरिनद्रहिरिभिः इति व्यवधानं वर्तते । अनेन प्रकारेण अत्र उपसर्गः धातोः व्यवहितपूर्वं प्रयुक्तः अस्ति ।
  • 2. ऋग्वेदे 6.16.10 - आ याहि । अत्र इति उपसर्गः याहि इत्यस्मात् अव्यवहितपूर्वं प्रयुक्तः अस्ति ।
  • 2. ऋग्वेदे 7.32.4 - हरि॑भ्यां या॒ह्योक॒ आ । अत्र याहि तथा एतयोर्मध्ये ओक इति शब्दस्य व्यवधानं विद्यते । अनेन प्रकारेण अत्र इति उपसर्गः याहि इत्यस्मात् व्यवहितपरं प्रयुक्तः अस्ति । ##Balamanorama ##Padamanjari दिक्च्छब्दानामव्यवहिते मुख्या वृत्तिरिति प्राक् परस्ताच्च व्यवहितानां प्रयोगार्थमिदं वचनम्। अत एव भाषायां व्यवहितानामप्रयोगः। कथं तर्हि गतिव्यवाये प्रयोगः-अभ्युद्धरति, समुदाहरतीति? न तुल्यजातीयं व्यवधायकं भवति, तद्यथा - किमनन्तरे एते ब्राह्मणकुले इति पृष्टः सन्नाह - नानन्तरे, वृषलकुलमनयोर्मध्य इति विजातीयं व्यवधायकं निर्दिशति, जातेर्वा समाश्रयणान्नास्ति व्यवधायकत्वम्। एवं च गतिरनन्तरग्रहणम्,'गतिर्गतौ' इति वचनम्, ठभिप्रैतिऽ इतिनिर्देशश्चोपपन्नो भवति॥