अधिपरी अनर्थकौ
1-4-93 अधिपरी अनर्थकौ आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
यौ कमपि नूतनम् अर्थं न वदतः, तादृशौ "अधि" तथा "परि" इति शब्दौ कर्मप्रवचनीयसंज्ञकौ भवतः । यथा - रामः अध्यागच्छति, रामः पर्यागच्छति ।
Kashika
Up
अधिपरी शब्दावनर्थकावनर्थान्तरवाचिनौ कर्मप्रवचनीयसंज्ञौ भवतः। कुतोऽध्यागच्छति? कुतः पर्यागच्छति? गत्युपसर्गसंज्ञाबाधनार्था कर्मप्रवचनीयसंज्ञा विधीयते॥
Siddhanta Kaumudi
Up
उक्तसंज्ञौ स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गतिसञ्ज्ञाबाधात् गतिर्गतौ <{SK3977}> इति निघातो न ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<कर्मप्रवचनीयाः>> 1.4.83 अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं दशमं सूत्रम् । अधि तथा च परि इति शब्दौ यदा किमपि नूतनम् अर्थं न वदतः अपितु धातोः अर्थम् एव पुनः प्रतिपादयतः, तदा तयोः कर्मप्रवचनीयसंज्ञा भवति इति अस्य सूत्रस्य आशयः । यथा, रामः अध्यागच्छति उत रामः पर्यागच्छति । एतयोः द्वयोः अपि वाक्ययोः अर्थः रामः आगच्छति इत्येव अस्ति । इत्युक्ते, एतयोः वाक्ययोः विद्यमानौ अधि तथा परि एतौ शब्दौ स्वस्य कमपि नूतनम् अर्थम् नैव प्रकटयतः, अपि तु "आगच्छति" इत्यस्यैव अर्थम् पुनः प्रतिपादयतः । अतएव एतयोः शब्दयोः अत्र प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति ।
प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्
प्रकृतसूत्रेण उक्तया कर्मप्रवचनीयसंज्ञया एकसंज्ञाधिकारात् गतिसंज्ञायाः बाधः भवति । इत्युक्ते,
अध्यागच्छति तथा च
पर्यागच्छति इति द्वयोः अपि उदाहरणयोः
अधि तथा च
परि एतौ शब्दौ यद्यपि प्रादिगणे विद्यमानौ, तथा च क्रियायोगे प्रयुक्तौ स्तः, तथापि तयोः <<गतिश्च>>
1.4.60 इत्यनेन विहिता गतिसंज्ञा एकसंज्ञाधिकारात् प्रकृतसूत्रेण दत्तया कर्मप्रवचनीयसंज्ञया बाध्यते । यदि एतयोः गतिसंज्ञा अभविष्यत्, तर्हि <<गतिर्गतौ>>
8.1.70 इत्यनेन
अधि तथा च
परि इति गतिसंज्ञकयोः प्रथमः स्वरः (अकारः) अनुदात्तः अभविष्यत् । परन्तु प्रयोगे अस्य अकारस्य उदात्तत्वम् इष्यते, न हि अनुदात्तत्वम् । अस्य उदात्तत्वस्य विधानम् <<निपाताः आद्युदात्ताः>> (4.12) इति फिट्सूत्रेण तदा एव सम्भवति यदा एतयोः गतिसंज्ञा बाध्यते । इदमेव कार्यं कर्तुम् एतयोः शब्दयोः प्रकृतसूत्रेण
कर्मप्रवचनीयसंज्ञा कृता अस्ति । कर्मप्रवचनीयसंज्ञायां कृतायाम्, एकसंज्ञाधिकारात् गतिसंज्ञायाः बाधः भवति, येन
अधि तथा च
परि इत्येतयोः इष्टम् आद्युदात्तत्वम् अपि सिद्ध्यति ।
अनर्थकौ इति शब्दस्य अर्थः
अस्मिन् सूत्रे
अनर्थकौ इति शब्दः प्रयुक्तः अस्ति । अस्य शब्दस्य समासविग्रहः -
न विद्यते अर्थः यस्य, सः अनर्थकः - इतिप्रकारेण
न दीयते । यदि एतयोः एतादृशः अर्थः उच्येत, तर्हि
अधि तथा च
परि इति शब्दयोः प्रातिपदिकसंज्ञाविधाने समस्या आगच्छेत्, यतोहि अनर्थकशब्दानां प्रातिपदिकसंज्ञा नैव सम्भवति । अतएव प्रकृतसूत्रे प्रयुक्तस्य
अनर्थकौ इति शब्दस्य समासविग्रहः -
न विद्यते अर्थान्तरम् यस्य, सः अनर्थकः - इतिप्रकारेण स्वीक्रियते । यौ
अधि तथा च
परि इति शब्दौ भिन्नम् अर्थं न वदतः, इत्युक्ते यौ धातोः अर्थम् एव पुनः प्रतिपादयतः, तयोः प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति - इति अत्र आशयः अस्ति ।
काशिकायां, कौमुद्यां च दत्तम् उदाहरणम्
प्रकृतसूत्रे काशिकायां कौमुद्यां च
कुतः अध्यागच्छति तथा च
कुतः पर्यागच्छति इति द्वे उदाहरणे दत्ते स्तः । एतयोः द्वयोः अपि उदाहरणयोः विद्यमानः
कुतः इति शब्दः
कस्मात् स्थलात् इत्यस्मिन् अर्थे प्रयुक्तः अस्ति । अत्र अपादानस्यैव अर्थे विहिता या पञ्चमी, तदन्तात् <<अपादाने चाहीयरुहोः>>
5.4.45 इत्यनेन तसि-प्रत्ययः कृतः अस्ति । इयं पञ्चमी विभक्तिः कर्मप्रवचनीयविभक्तिः नास्ति इति स्मर्तव्यम् ।
Balamanorama
Up
<<अधिपरी अनर्थकौ>> - अधिपरी । उक्तसंज्ञो स्त इति । कर्मप्रवचनीयसंज्ञकावित्यर्थः । कुतोऽध्यागच्छति, कुतः पर्यागच्छतीति । अत्र 'कुत' इत्यपादानपञ्चम्यास्तसिल् । कस्मात् प्रदेशादागच्छतीत्यर्थः । नन्वत्र अधिपर्योरनर्थकतया सम्बन्धस्य तद्द्योत्यत्वाऽभावेन द्योत्यसम्बन्धप्रतियोगित्वरूपकर्मप्रवचनीययुक्तत्वस्याऽभावान्न द्वितीयाप्रसक्तिरित्यत आह — गतिसंज्ञाबाधादिति । अत्र 'गतिर्गतौ' इत्यत्र पदादित्यधिकारात् पदात्परत्वसम्पत्तये 'कुत' इत्युपात्तमिति भावः । अत्र प्रभवति पराभवति अनुभवतीत्यादौ प्रादेरिवाऽर्थान्तरद्योतकत्वाऽभावेऽपि धात्वर्थद्योतकत्वमस्त्येव । अर्थान्तरद्योतकत्वाऽभावेनाऽनर्थकत्वव्यवहारः । उक्तं च भाष्ये — ॒अनर्थान्तरवाचिनौ धातुनोक्तक्रियामेवाहतुः॑ इति । एवंच क्रियायोगाऽभावाद्गतित्वस्यापि न प्रसक्तिरिति शङ्का निरस्ता ।
Padamanjari
Up
ननु चानर्थकयोः क्रियायोगाभावाद् गत्युपसर्गसंज्ञयोः प्राप्त्यभावान्न तद्वोधनार्थ कर्मप्रवचनीयसंज्ञाविधानमुपपद्यते, नापि परिशब्दयोगे पञ्चमीविधानार्थम्, तद्विधौ वर्जनार्थस्य ग्रहणाद्। अपादानत्वाच्च सिद्धा पञ्चमी, यथाऽधिशब्दस्य प्रयोगे - कुतोऽध्यागच्छतीति। अत एव द्वितीयाविधानार्थमपि नोपपद्यते; तस्मादनर्थकयोः संज्ञाविधानमनर्थकमित्यत आह - अनर्थान्तरवाचिनाविति। यथा तिष्ठति, नितिष्ठति, परिभवतीत्यादौ धातूपातादर्थादर्थान्तरवाचित्वम्, नैवमत्रार्थान्तरवाचित्वम्; किन्त्वागच्छतीति प्रयोगे योऽर्थः स एवाधिपरियोगे ताभ्यामुच्यते तदत्र विषये धातोरधिपर्योश्च सहाभिधायित्वम्; यथागजशब्दे योऽर्थः स एव मतङ्गज इति सर्वैः सहाभिधीयते। एवं वृषशब्दे योऽर्थः स एव वृषभशब्दे। तदेवमनर्थान्तरवाचित्वादनर्थककल्पत्वादनर्थकावित्युक्तम्, न त्वभावात्। तयोश्च गतिसंज्ञाबाधाय कर्मंप्रवचनीयसंज्ञा विधेयेति दर्शितं भवति। कुतोऽध्यागच्छतीति। किंशब्दात् ठपादाने चाहीयरुहोःऽ इति तसिः, तस्य'तसेश्च' इति तसिलादेशः,'गतिर्गतौ' इति निघाताभावः॥