यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी

2-3-9 यस्मात् अधिकं यस्य च ईश्वरवचनं तत्र सप्तमी अनभिहिते अत्यन्तसंयोगे कर्मप्रवचनीययुक्ते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मप्रवचनीययुक्त इति वर्तते। यस्मादधिकं यस्य चेश्वरवचनं कर्मप्रवचनीयैर्युक्ते तत्र सप्तमी विभक्तिर्भवति। उप खार्यां द्रोणः। उप निष्के कार्षापणम्। यस्य चेश्वरवचनमिति स्वस्वामिनोर्द्वयोरपि पर्यायेण सप्तमी विभक्तिर्भवति। अधि ब्रह्मदत्ते पञ्चालाः, अधिपञ्चालेषु ब्रह्मदत्त इति। द्वितीयापवादो योगः॥

Siddhanta Kaumudi

Up

अत्र कर्मप्रवचनीययुक्ते सप्तमी स्यात् । उप परार्धे हरेर्गुणाः । परार्धादधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी । अधि भुवि रामः । अधि रामे भूः । सप्तमी शौण्डैः <{SK717}> इति समासपक्षे तु रामाधीना । अषडक्ष <{SK2079}> इत्यादिना खः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी>> - यस्मादधिकम् ।कर्मप्रवचनीययुक्ते॑ इत्यनुवर्तते । तदाह — अत्र कर्मप्रवचनीयेति । शेषषष्ठपवादः । उप पराध इति । अवधित्वं सप्तम्यर्थः । तदाह — परार्धादधिका इत्यर्थ इति । यस्मादधिकं संख्यान्तरं न विद्यते तत्परार्धम् । तदपेक्षयेत्यर्थः । 'उपोऽधिके च' इति उपेत्यस्य कर्मप्रवचनीयत्वस्येदं फलम् । यस्येआरवचनमित्यस्य यत्सम्बन्धी ईस्वर उच्यते तत सप्तमीत्येकोऽर्थः । इह यच्छब्देन स्वमुच्यते । #एवंच स्ववाचकात्सप्तमीति लभ्यते । ईआरशब्दो भावप्रधानः । यस्येआरत्वमुच्यते ततः सप्तमीत्यन्योऽर्थः । यन्निष्ठमीआरत्वमुच्यते ततः सप्तमीति यावत् । स्वामिवाचकात्सप्तमीति लभ्यते । तदाह — ऐआर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमीति । अधि भुवि राम इति । अधिरीश्वरपर्यायः । संबन्धः सप्तम्यर्थः । भुवः स्वामी राम इत्यर्थः । अत्र स्ववाचकात्सप्तमी । अधि रामे भूरिति । अत्र अधिः स्वशब्दपर्यायः । सम्बन्धः सप्तम्यर्थः । रामस्य स्वभूता भूरित्यर्थः । अत्र स्वामिवाचकात्सप्तमी । समासपक्षे त्विति । शौण्डादिगणे अधिशब्दस्य पठितत्वेन तेनाऽधिशब्देन रामे इति सप्तम्यन्तस्य समासे सति 'सुपो धातु' इति सुब्लुकि रामाधिशब्दात्अषडक्षाशितङ्ग्वलङ्कर्मालम्पुरुषाध्युत्तरपदात्खः॑ इति खप्रत्यये 'आयनेयीनीयियः' इति तस्य ईनादेशे रामाधीना भूरिति सिध्यति । रामस्वामिकेत्यर्थः । विभक्त्यर्थे अव्ययीभावे त्वधिरामं भूः । रामाधिकरणिका भूरित्यर्थः । खप्रत्ययस्तु न, अध्युत्तरपदत्वाऽभावात् ।

Padamanjari

Up

यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ॥ यस्मादधिकं तदस्मिन्नधिकमिति च निर्देशादधिकशब्दयोगे पर्यायेण सप्तमीपञ्चम्यौ भवतः। उपखार्थो द्रोण इति। ठुपोऽधिके चऽ इति कर्मप्रवचनीयसंज्ञा। यस्य चेश्वरवचनमित्यादि। द्वयमनेनोच्यते, द्वयोरपि भवति, तत्रापि पर्यायेणेति तत्र द्वयोरपि तावद्भवति, कथम्? ईश्वर उच्यते येन तदोश्वरवचनमैश्वर्यम्, अथ वा ईश्वरशब्दो भावप्रधानः ईश्वरः तस्योक्तिरीश्वरचनम्, यस्य स्वामिन ईश्वरत्वमुच्यते ततः सप्तमीत्यर्थः। अथ वा - यस्येति स्वं निर्दिश्यते, यस्य स्वस्येश्वर उच्यते ततः स्वात्सप्तमीत्यर्थः। पर्यायेण वा भवति; शेषविषये कर्मप्रवचनीयविभक्त्यारम्भादेकत उत्पन्नया विभक्त्या द्विष्ठस्यापि संबन्धस्याभिधानात्। अधि ब्रह्मदत इति।'सप्तमी शौण्ड्èअः' इति समासपक्षे ब्रह्मदताधीना इति भवति विभक्त्यर्थवृत्तित्वेऽधिब्रह्मदतमित्यव्ययीभावः। अयं योगः शक्योऽवक्तुम्, स्वामिन्याधारे पञ्चालाः स्थिता स्वेष्वाधारेषु ब्रह्मदतः स्थितः, तत्र यदा यदधिकरणं तत्र सप्तमी भविष्यति, एवं च कृत्वा ठधिरीश्वरेऽ इति कर्मप्रवचनीयसंज्ञा न वक्तव्या, ऐस्वर्यवषयश्चाधिः क्रियया नैव युज्यते। अतो गत्युपसर्गत्वबाधार्थापि न युज्यते॥