हीने

1-4-86 हीने आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः अनुः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

पदार्थानां तुलनायाम् हीनतायाः निर्देशार्थम् "अनु" इति शब्दः कर्मप्रवचनीयसंज्ञः भवति । यथा - अनु हरिं सुराः ।

Kashika

Up

हीन इति न्यून उच्यते स च उत्कृष्टापेक्षः। तेनेयं हीनोत्कृष्टसंबन्धे संज्ञा विज्ञायते। हीने द्योत्येऽयमनुः कर्मप्रवचनीयसंज्ञो भवति। अनु शाकटायनं वैयाकरणाः। अन्वर्जुनं योद्धारः॥

Siddhanta Kaumudi

Up

हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः । हरेर्हीना इत्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कर्मप्रवचनीयाः>> 1.4.83 अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं तृतीयं सूत्रम् । अनु इत्यस्य शब्दस्य अनेन सूत्रेण कर्मप्रवचनीयसंज्ञा भवति । द्वयोः उत अधिकानां पदार्थानां यत्र तुलना क्रियते, तत्र न्यूनतायाः निर्देशार्थम् यदा अनु इति शब्दः प्रयुज्यते, तदा सः कर्मप्रवचनीयसंज्ञः भवति - इति प्रकृतसूत्रस्य आशयः । अपि च, एतादृशस्य अनु शब्दस्य प्रयोगेण यदा वाक्यं सिद्ध्यन्ति, तदा यस्य उत्कृष्टता दर्श्यते, तस्य <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीया विभक्तिः भवति । अस्य उदाहरणानि एतानि - 1. अनु अर्जुनं योद्धारः । सर्वेऽपि योद्धारः अर्जुनस्य अपेक्षया हीनाः / न्यूनाः सन्ति इति आशयः । अत्र अनु इति शब्देन अर्जुनस्य अपेक्षया अन्येषां योद्धॄणाम् न्यूनता प्रदर्श्यते । 2. अनु शाकटायनम् वैयाकरणाः । सर्वे अपि वैयाकरणाः शाकटायनस्य अपेक्षया हीनाः सन्ति इति आशयः । 3. अनु हरिं सुराः । सर्वे अपि देवाः विष्णोः अपेक्षया हीनाः सन्ति इति आशयः । अत्र हीनः इति शब्दः "गुणरहितः / संस्काररहितः" अस्मिन् अर्थ न स्वीकर्तव्यः । हीनः इत्युक्ते सामर्थ्येन किञ्चित् न्यूनः- इत्येव अत्र आशयः अस्ति । प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् प्रकृतसूत्रेण पाठितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् अस्ति <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयाविभक्तिविधानम् इति । अनु इति कर्मप्रवचनीयस्य प्रयोगे यस्य उत्कृष्टता सूच्यते (इत्युक्ते, यस्य अपेक्षया अन्येषां हीनत्वम् उच्यते), तस्य <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयाविभक्तिः भवति । अतएव उपरि उदाहरणयोः - अर्जुनम्, शाकटायनम्, हरिम् इत्येताः शब्दाः द्वितीयाविभक्तौ प्रयुक्ताः सन्ति ।

Balamanorama

Up

<<हीने>> - हीने । हीने द्योत्ये इति । निकर्षे द्योत्ये इत्यर्थः । हीन इति भावे क्तः । 'ओ हाक् त्यागे' इति धातोरोदित्त्वात्ओदितश्चे॑ति निष्ठानत्वम् । अनुः प्राग्वदिति । क्रमप्रवचनीयसंज्ञ इत्यर्थः । अनु हरिं सुरा इति । अत्र निकृष्टभावोऽनुद्योत्या द्वितीयार्थः । तदाह — हरेर्हीना इत्यर्थ इति । हरेरिति षष्ठी प्रतियोगितायाम्, हरिप्रतियोगिकनिकर्षवन्त इत्यर्थः ।

Padamanjari

Up

हीनेत्कृष्टसम्बन्धे संज्ञेति। कर्मप्रवचनीयविभक्तिस्तु तेन व्यतिरिच्यमान उत्कृष्ट एव भवति, न हीने, अभिधानाशक्तिस्वाभाव्यात् नोभाभ्यामेकयैव द्वितीयया द्विष्ठस्यापि सम्बन्धस्याभिधानात् षष्ठीत्॥