प्रतिनिधिप्रतिदाने च यस्मात्

2-3-11 प्रतिनिधिप्रतिदाने च यस्मात् अनभिहिते अत्यन्तसंयोगे कर्मप्रवचनीययुक्ते पञ्चमि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मुख्यसदृशः प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। यस्मात् प्रतिनिधिर्यतश्च प्रतिदानम्, तत्र कर्मप्रवचनीययुक्ते पञ्चमी विभक्तिर्भवति। अभिमन्युरर्जुनतः प्रति। प्रद्युम्नो वासुदेवतः प्रति। माषानस्मै तिलेभ्यः प्रति यच्छति। ननु च प्रतिनिधिप्रतिदाने कर्मप्रवचनीययुक्ते, न तु यतः प्रतिनिधिप्रतिदाने? नैष दोषः, संबन्धसंबन्धात् तस्यापि योगोऽस्त्येव॥

Siddhanta Kaumudi

Up

अत्र कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

प्रतिनिधिप्रतिदाने च यस्मात्॥ यस्मादित्यनेनैव सूत्रैण पञ्चमी। मुख्यसद्दशः प्रतिनिधिरिति। मुख्यः क्व चित्कार्ये रूढः, यश्च तदभावे तत्कार्ये प्रतिनिधीयते स तत्प्रतिनिधिः। कर्मणि ठुपसर्गे घोः किःऽ। एवं प्रतिदानमित्यपि, कर्मण्येवल्युट्। दतस्येति। अथात्रानेनैव सूत्रेण पञ्चमी प्राप्नोति, यथा - यस्मादिति, एवं तर्हि कर्मणि षष्ठी। ननु न दतमेव प्रत्यर्प्यते, किं तर्हि? द्रव्यान्तरम्, सत्यम्; तुल्यमूल्यत्वातदेव प्रत्यपितमिति प्रतिपतिः, प्रतिनिर्यातनमुप्रत्यपंणम्, अत्र भावे ल्युट। यस्मात्प्रतिनिधिरिति। सूत्रवदेव पञ्चमी। एवं यतश्चेत्यत्रापि। उर्जुनतः। प्रतीति। प्रतियोगे पञ्चम्यास्तसिः। अर्जुनो युद्धादौ प्रसिद्धस्तत्सद्दशोऽभिमन्युरित्यर्थः। माषानित्यादि। ये पूर्व गृहीतास्तिलास्तेभ्यो माषाः प्रतिदानम्। संबन्धिसंभबन्धादिति। प्रतिनिधिर्मुख्यमपेक्ष्य भवति, प्रतिदानमपि पूर्वदतम्, ततश्च यस्य कर्मप्रवचनीयस्य प्रतिनिधिप्रतिदानाभ्यां योगस्तस्य ताभ्यामपि मुख्यपूर्वदताभ्यां तद्द्वारको योगोऽस्तीत्यर्थः॥