Home
Prev 1.4.88
Next 1.4.90
आङ् मर्यादावचने 1-4-89 आङ् मर्यादावचने आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः
Sampurna sutra Up
Neelesh Sanskrit Brief Up
"मर्यादा" तथा "अभिविधिः" एतयोः अर्थयोः प्रयुक्तस्य "आङ्" इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति । यथा, आ पाटलिपुत्राद् वृष्टो देवः। आ कुमारं यशः पाणिनेः।
Kashika Up
आङित्येष शब्दो मर्यादावचने कर्मप्रवचनीयसंज्ञो भवति। अवधिर्मर्यादा। वचनग्रहणादभिविधिरपि गृह्यते। आ पाटलिपुत्राद् वृष्टो देवः। आ कुमारं यशः पाणिनेः। आ सांकाश्यात्। आ मथुरायाः। मर्यादावचन इति किम्? ईषदर्थ क्रियायोगे च मा भूत्॥
Siddhanta Kaumudi Up
आङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ॥
Laghu Siddhanta Kaumudi Up
Neelesh Sanskrit Detailed Up
<<कर्मप्रवचनीयाः>> 1.4.83 अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं षष्ठं सूत्रम् । आङ् इति शब्दस्य मर्यादा उत अभिविधिः अस्मिन् अर्थे यदा प्रयोगः भवति तदा तस्य कर्मप्रवचनीयसंज्ञा भवति इति अस्य सूत्रस्य आशयः । एतादृशस्य कर्मप्रवचनीयस्य योगे सीमावाचकशब्दस्य <<पञ्चम्यपाङ्परिभिः>> 2.3.8 इत्यनेन पञ्चमी विभक्तिः भवति । क्रमेण विवरणम् एतादृशम् -
1. मर्यादा अस्मिन् अर्थे आङ्-शब्दस्य प्रयोगः
मर्यादा इति शब्दस्य अर्थः - "सा सीमा यस्याः ग्रहणं न भवति" (A boundary that is excluded) इति अस्ति । यथा, यदि पाटलीपुत्रप्रदेशं यावत्, परन्तु पाटलीपुत्रप्रदेशं विना अन्यत्र वर्षा जाता, तर्हि पाटलीपुत्रम् इति वर्षायाः मर्यादा अस्ति इति वक्तुं शक्यते । अस्याः मर्यादायाः निर्देशार्थम् यदा आङ् इति शब्दः प्रयुज्यते, तदा प्रकृतसूत्रेण तस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च अस्य कर्मप्रवचनीयस्य योगे सीमावाचकशब्दस्य (इत्युक्ते, पाटलीपुत्र इति शब्दस्य) <<पञ्चम्यपाङ्परिभिः>> 2.3.8 इत्यनेन पञ्चमीविभक्त्या निर्देशः भवति । यथा - आ पाटलीपुत्रात् वृष्टः देवः इति । एवमेव, आ मुक्तेः संसारः इत्यत्रापि आङ् इति मर्यादार्थे प्रयुक्तः अस्ति अतः अस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च मुक्तेः इति सीमावाचकशब्दस्य पञ्चमी विधीयते ।
2. अभिविधिः अस्मिन् अर्थे आङ्-शब्दस्य प्रयोगः
अभिविधिः इति शब्दस्य अर्थः - "सा सीमा यस्याः ग्रहणं भवति" (A boundary that is included) इति अस्ति । यथा, यदि भोजस्य राज्यं सागरपर्यन्तम् अस्ति, किञ्च सागरः अपि भोजस्य राज्ये एव परिगण्यते, तर्हि तत्र सागरः इति भोजराज्यस्य अभिविधिः अस्ति इति वक्तुं शक्यते । अस्याः अभिविधेः निर्देशार्थम् यदा आङ् इति शब्दः प्रयुज्यते, तदा प्रकृतसूत्रेण तस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च अस्य कर्मप्रवचनीयस्य योगे सीमावाचकशब्दस्य (इत्युक्ते, सागर इति शब्दस्य) <<पञ्चम्यपाङ्परिभिः>> 2.3.8 इत्यनेन पञ्चमीविभक्त्या निर्देशः भवति । यथा - आ सागरात् भोजस्य राज्यम् । एवमेव, आ कुमारात् यशः पाणिनेः इत्यत्रापि आङ् इति अभिविधिं दर्शयितुम् प्रयुक्तः अस्ति । पाणिनेः यशः कुमारवयस्काः अपि जानन्ति - इति अत्र आशयः । अत्र अभिविधौ प्रयुक्तस्य आङ् इत्यस्य अस्य कर्मप्रवचनीयसंज्ञा भवति, तथा च तस्य योगे कुमारात् इति सीमावाचकशब्दस्य पञ्चमी विधीयते । आ सकलात् ब्रह्म इति तृतीयम् उदाहरणम् अपि एतादृशम् एव अवधेयम् । किञ्च, अष्टाध्याय्यां <<आ कडारात् एका संज्ञा>> 1.4.1 , <<आ च त्वात्>> 5.1.120 इत्येतयोः सूत्रयोः प्रयुक्तः आ इति शब्दः अपि अभिविधिः अस्मिन् अर्थे एव प्रयुक्तः अस्ति ।
1. तत्त्वबोधिनीकारः तेन विना मर्यादा, तेन सह अभिविधिः इति मर्यादा-अभिविध्योः व्याख्यां ददाति । तेन विना इत्युक्ते सीमावाचकपदार्थं विना यत्र अवशिष्टस्य निर्देशः भवति, तत्र मर्यादा अस्ति इति स्वीक्रियते । एवमेव तेन सह इत्युक्ते सीमावाचकपदार्थेन सह यत्र सर्वस्य निर्देशः भवति, तत्र अभिविधिः अस्ति इति स्वीक्रियते ।
2. आङ् इत्यत्र विद्यमानः ङकारः इत्संज्ञकः अस्ति । अस्य प्रक्रियासु प्रारम्भे एव लोपः भवति । अतः प्रयोगे केवलम् आ इत्येव श्रूयते ।
3. आ सागरात् भोजस्य राज्यम् इत्यादिकं वाक्यमात्रं दृष्ट्वा - अत्र आङ् इति मर्यादार्थे अस्ति उत अभिविध्यर्थे - इति प्रायेण स्पष्टम् नैव भवेत् । अतः सन्दर्भं दृष्ट्वा एव अस्य निर्णयः करणीयः ।
प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्
प्रकृतसूत्रेण पाठितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् अस्ति - <<पञ्चम्यपाङ्परिभिः>> 2.3.10 इत्यनेन सीमावाचकपदार्थस्य पञ्चमीविभक्त्या निर्देशः - इति । अतएव आ पाटलीपुत्राद् वृष्टो देवः इत्यत्र पाटलीपुत्रात् इति, तथा च आ कुमारात् यशः पाणिनेः इत्यत्र कुमारात् इति पञ्चमीविभक्तिः प्रयुक्ता अस्ति ।
वाक्यस्य विकल्पेन अव्ययीभावसमासः
प्रकृतसूत्रेण आङ् इति शब्दस्य कर्मप्रवचनीयसंज्ञायां लब्धायाम्, वाक्ये यदा <<पञ्चम्यपाङ्परिभिः>> 2.3.8 इत्यनेन अस्य योगे पञ्चम्यन्तशब्दस्य प्रयोगः भवति, तदा अग्रे आङ् इत्यस्य तेन पञ्चम्यन्तेन सह <<आङ् मर्यादाभिविध्योः>> 2.1.13 इत्यनेन विकल्पेन अव्ययीभावः समासः अपि कर्तुं शक्यते । यथा, आ कुमारात् इत्यत्र आ तथा कुमारात् एतयोः मध्ये समासं कृत्वा आकुमार इति अव्ययं सिद्ध्यति । अग्रे <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> 2.4.83 इत्यनेन अस्मात् विहितस्य <<सुँ>>-प्रत्ययस्य <<अम्>>-आदेशे कृते आकुमारम् इति शब्दः सिद्ध्यति । अतएव प्रकृतसूत्रे काशिकाकारः आकुमारं यशः पाणिनेः इति उदाहरति । एवमेव मर्यादायाः सन्दर्भेण अपि आ पाटलीपुत्रात् = आपाटलीपुत्रम् इति प्रयोगः अपि अवश्यम् एव सिद्ध्यति ।
मर्यादावचने इति किमर्थम् ?
आङ् इत्येतत् अव्ययं भाषायाम् आहत्य चतुर्षु सन्दर्भेषु प्रयुक्तं दृश्यते -
1. ईषदर्थे । यथा - ईषद् उष्णम् (किञ्चित् उष्णम्) = आ + उष्णम् = ओष्णम् ।
2. उपसर्गार्थे । यथा - आगच्छति ।
3. मर्यादार्थे । यथा - आ पाटलीपुत्रात् ।
4. अभिविध्यर्थे । यथा - आ कुमारात् ।
एतेभ्यः केवलम् मर्यादा तथा च अभिविधिः - एतयोः अर्थयोः प्रयुक्तस्य आङ् इत्यस्यैव कर्मप्रवचनीयसंज्ञा भवति - इति स्पष्टीकर्तुम् एव प्रकृतसूत्रे मर्यादावचने इति शब्दः प्रयुक्तः अस्ति । अत्र मर्यादावचनम् इत्यनेन मर्यादा इति शब्दः यत्र विद्यते तस्य सूत्रस्य, इत्युक्ते <<आङ् मर्यादाभिविध्योः>> 2.1.13 इति सूत्रस्य निर्देशः भवति । अस्मिन् सूत्रे निर्दिष्टौ मर्यादा तथा च अभिविधिः इति यौ द्वौ अर्थौ, तयोः सन्दर्भः एव प्रकृतसूत्रे अपि स्वीकर्तव्यः - इति ज्ञापयितुम् एव प्रकृतसूत्रे मर्यादावचने इति शब्दः स्थापितः अस्ति । आङ् इति अव्ययं यदामर्यादायाः अभिविधेः वा निर्देशार्थं प्रयुज्यते, तदा प्रकृतसूत्रेण तस्य कर्मप्रवचनीयसंज्ञा भवति - इति एव अस्य आशयः ।
##Balamanorama
<<आङ् मर्यादावचने>> - आङ्मर्यादावचने । उक्तसंज्ञ इति । कर्मप्रवचनीयसंज्ञक इत्यर्थः । ननुआङ्मर्यादायामि॑त्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आह — वचनग्रहणादिति । तेन विनेति मर्यादा । तेन सहेत्यभिविधिः । मर्यादाशब्दो यत्रोच्यते तन्मर्यादावचनम्=आङ्मर्यादाभिविध्योः॑ इति सूत्रम् । तत्र य आङ् दृष्टः स कर्मप्रवचनीयसंज्ञकः स्यादित्यर्थः । तथाच मर्यादिभिविध्योराङ् कर्मप्रवचनीय इति फलतीति भावः ।
##Padamanjari
मर्या मरणधर्माणो मनुष्याः, औणदिको यप्रत्ययः, तैरादीयते मर्यादा, ठातश्चोपसर्गेऽ इत्यङ्प्रत्ययः। अवधिर्मर्यादेति। ननु यत्रावधिः कार्येण युज्यते सोऽभिविधिः, यत्र न सा मर्यादा; अवधिस्तु साधारणं तत्काथमवधिर्मर्यादा? नायमत्रार्थो योऽवधिः सा सर्यादेति, किं तर्हि? या मर्यादा सोऽवधिरित्यर्थः। वचनग्राणदिति। इह मर्यादायामिति वाच्ये वचनग्रहणं क्रियते, तस्यैतत्प्रयोजनमेवं यथा विज्ञायेत - उच्यतेऽस्मिन्निति वचनम्, मर्यादाया वचनमिति कर्मणि षष्ठयाः समासः। मर्यादाशब्दो यत्रोच्यते ठाङ्मर्यादाभिविध्योःऽ इति तस्याङे ग्रहणम्, स चाभिविधिवृत्तिरपीत्यत्राप्यभिविधेर्ग्रंहणं भवति। यद्वा - वचनग्रहणसामर्थ्यादवान्तरभेदो न विवक्ष्यते, अवधिमात्रं गृह्यते। आ मथुराया इति। वृष्टो देव इत्यपेक्ष्यते,'मन्थ विलोडने' औणादिकः कुरच् प्रत्ययः। ईषदर्थे क्रियायोगे च मा भूदिति। वाक्यस्मरणयोस्त्वङित्वादेवाप्रिसङ्गः, तत्रेषदर्थे आ कडारः पञ्चमी न भवति, क्रियायोगे समाहार इति'गतिर्गतौ' इति निघातो भवति॥