अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु

1-4-96 अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

उपहासपूर्वकं पदार्थस्य अनुपस्थितेः विधानम्, शक्तेः उत्कर्षं दर्शयितुम् अतिशयितविधानम्, कामचाराभ्यनुज्ञानम्, निन्दा, तथा च समुच्चयः - एतेषु सन्दर्भेषु प्रयुक्तः "अपि" इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - घृतस्य अपि स्यात्, अपि पर्वतं शिरसा भिन्द्यात्, अपि सिञ्च, अपि स्तूयाद् वृषलम्, अपि सिञ्च अपि स्तुहि ।

Kashika

Up

पदार्थे संभावनेऽन्ववसर्गे गर्हायां समुच्चये च वर्तमानोऽपिः कर्मप्रवचनीयसंज्ञो भवति। पदान्तरस्याप्रयुज्यमानस्यार्थः पदार्थः — सर्पिषोऽपि स्यात्। मधुनोऽपि स्यात्। मात्रा बिन्दुः स्तोकमित्यस्यार्थेऽपिशब्दो वर्तते। संभावनमधिकार्थवचनेन शक्तेरप्रतिघाताविष्करणम् — अपि सिञ्चेन् मूलकसहस्रम्। अपि स्तुयाद् राजानम्। अन्ववसर्गः कामचाराभ्यनुज्ञानम् — अपि सिञ्च। अपि स्तुहि। गर्हा निन्दा — धिग् जाल्मं देवदत्तम्, अपि सिञ्चेत् पलाण्डुम्। अपि स्तुयाद् वृषलम्। समुच्चये — अपि सिञ्च, अपि स्तुहि। सिञ्च च स्तुहि च। उपसर्गसंज्ञाबाधनात् षत्वं न भवति॥

Siddhanta Kaumudi

Up

एषु द्योत्येष्वपिरुक्तसञ्ज्ञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न षः । संभावनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन संबध्यते । सर्पिष इति षष्ठी त्वपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । इयमेव ह्यपिशब्दस्य पदार्थद्योतकता नाम । द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । अपि स्तुयाद्विष्णुम् । संभावनं शक्त्युत्कर्षमाविष्कर्तुमत्युक्तिः । अपि स्तुहि । अन्ववसर्गः कामचारानुज्ञा । धिद्गेवदत्तमपि स्तुयाद्वृषलम् । गर्हा । अपि सिञ्च अपि स्तुहि । समुच्चये ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कर्मप्रवचनीयाः>> 1.4.83 अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं त्रयोदशं सूत्रम् । पदार्थः, सम्भावनम्, अन्ववसर्गः, गर्हा तथा च समुच्चयः - एतेषु पञ्चसु भिन्नेषु सन्दर्भेषु प्रयुक्तस्य अपि इति शब्दस्य अनेन सूत्रेण कर्मप्रवचनीयसंज्ञा विधीयते । क्रमेण विवरणम् एतादृशम् -
1. पदार्थः = उपहासपूर्वकं पदार्थस्य अनुपस्थितेः विधानम् । कस्यचन अपेक्षितपदार्थस्य अनुपस्थितेः निर्देशः उपहासपूर्वकं कर्तुम् यदा अपि इति शब्दः प्रयुज्यते, तदा तस्य कर्मप्रवचनीयसंज्ञा भवति । यथा - ओदने सर्पिषः अपि स्यात् । "अस्मिन् ओदने घृतस्य एकः बिन्दुः तु भवेत् इति मम आशा आसीत्, परन्तु तथा अपि न दृश्यते" इति अस्य वाक्यस्य आशयः । ओदने किञ्चित् अपि घृतम् नास्ति (अस्ति चेद् अपि अत्यल्पम् एव विद्यते) - इति परिहासरूपेण वक्तुम् इदं वाक्यं प्रयुक्तम् अस्ति ।
ओदने सर्पिषः अपि स्यात् इति उदाहरणस्य सन्दर्भेण केचन विषयाः अस्य सूत्रस्य भिन्नेषु व्याख्यानेषु स्पष्टीकृताः सन्ति । तेषां संक्षेपः अधः दीयते ।

  • 1. अस्मिन् उदाहरणे कर्तृसंज्ञकम् पदम् किमपि न विद्यते, अतः बिन्दुः / मात्रा / स्तोकम् इत्यादिकः कश्चन शब्दः अत्र कर्तृरूपेण अध्याह्रियते । किञ्च, अस्य अनुपस्थित-कर्तृपदस्य अर्थः अपि अपि इति कर्मप्रवचनीयनेन एव अत्र स्पष्टी भवति । अनेन प्रकारेण, अत्र द्वयोः विषययोः अनुपस्थितिः अस्ति - अर्थदृष्ट्या घृतम् इति पदार्थस्य अनुपस्थितिः, तथा च वाक्यदृष्ट्या बिन्दुः इति कर्तृपदस्य अनुपस्थितिः । एतयोः द्वयोः अपि अनुपस्थित्योः निर्देशः अत्र अपि इति शब्देन भवति । अयमेव विषयः प्रकृतसूत्रे स्थापितेन पदार्थः इति शब्देन निर्दिश्यते । अतएव काशिकाकारः वदति - पदान्तरस्य अप्रयुज्यमानस्य अर्थः = पदार्थः इति । अप्रयुज्यमानम् कर्तृसंज्ञकं यत् पदम्, तस्य अर्थः अपि इत्यनेनैव स्पष्टी भवति, इति अस्य वाक्यस्य आशयः । कौमुदीकारः अस्मिन्नेव सन्दर्भे वदति - कर्तृदौर्लभ्यप्रयुक्तं दौर्लभ्यं द्योतयन् अपिशब्दः स्याद् इत्यनेन सम्बद्ध्यते - इति । कर्तृपदस्य अनुपस्थितिः, तथा च तत्सम्बन्धिनः पदार्थस्य अपि अनुपस्थितिः - इति द्वौ अपि द्योतयन् अपि इति शब्दः स्यात् इति क्रियापदेन सह अन्वेति - इति कौमुदीकारस्य वाक्यस्य आशयः अस्ति ।
  • 2. अस्मिन् उदाहरणे स्यात् इति विधिलिङ्लकारस्य रूपम् प्रयुक्तम् अस्ति । इदं विधिलिङ्लकारस्य विधानं भिन्नानां सूत्राणां आधारेण समर्थयितुम् शक्यते । यथा , "अस्मिन् ओदने घृतम् अवश्यमेव भवितुम् अर्हति" इति अर्थं स्वीकृत्य <<अर्हे कृत्यतृचश्च>> 3.3.169 इत्यनेन अर्हतां द्योतयितुम् अत्र विधिलिङ्लकारः सम्भवति । अथवा, "किञ्चित् घृतम् ददातु" इति प्रार्थना कृता अस्ति इति मत्त्वा अत्र <<विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्>> 3.3.161 इत्यनेन अपि विधिलिङ्लकारः प्रयोक्तुं शक्यते । नो चेत्, "अस्मिन् ओदने किञ्चित् घृतं भवितुं शक्नोति" इत्यर्थपूर्वकं <<शकि लिङ् च>> 3.3.172 इति अपि विधिलिङ्लकारः भवितुम् अर्हति । किञ्च, अत्र "घृतम् अस्ति वा" इति सम्भावनाम् (शङ्कां) मत्वा तस्याः निर्देशार्थम् <<उपसंवादाशङ्कयोश्च >> 3.4.8 इत्यनेन अपि विधिलिङ्लकारः सम्भवति । यद्यपि <<उपसंवादाशङ्कयोश्च >> 3.4.8 इति सूत्रं केवलं वैदिकव्याकरणस्य विषये एव अस्ति, किञ्च तेन सूत्रेण आशङ्कायाः सन्दर्भेण लेट्-लकारः विधीयते, तथापि अस्य सूत्रस्य भाष्ये भाष्यकारेण एतस्मिन् विशेषे लिङ् इति विधानं कृतम् अस्ति । अतः भाषायाम् आशङ्कायाः निर्देशार्थं विधिलिङ्लकारस्य विधानम् अवश्यमेव सम्भवति - इति नागेशेन लघुशब्देन्दुशेखरे स्पष्टीकृतम् वर्तते । किञ्च, सिद्धान्तकौमुदीकारेण अपि अत्र सम्भावनायाम् लिङ् इत्येव उक्त्वा अनेनैव सूत्रेण अत्र विधिलिङ्लकारस्य विधानं कृतम् अस्ति ।
  • 3. अस्मिन् उदाहरणे सर्पिषः इति षष्ठ्यन्तं पदं प्रयुक्तम् अस्ति । <<षष्ठी शेषे>> 2.3.50 इत्यनेन विहिता इयं षष्ठी विभक्तिः अत्र अवयव-अवयविभावसम्बन्धं दर्शयति । इत्युक्ते, सर्पिः इति अवयवी, तथा च बिन्दुः इति अवयवः - एतयोर्मध्ये विद्यमानस्य सम्बन्धस्य निर्देशः एव अत्र षष्ठीविभक्त्या प्रकटी भवति । अनेनैव प्रकारेण मधुनः अपि स्यात् इति अन्यद् उदाहरणम् अपि सङ्गच्छते । "कस्मिंश्चित् पदार्थे किञ्चिद् अपि मधु नास्ति" इति उपहासपूर्वककथनम् - इत्येव अस्य वाक्यस्य आशयः ।
    2. सम्भावनम् = शक्तेः उत्कर्षं दर्शयितुम् कृतम् अतिशयितविधानम् । कस्यचित् श्रेष्ठत्वं (शक्त्युत्कर्षं) दर्शयितुम् कृतम् अतिशयितविधानम् सम्भावनम् इति नाम्ना निर्दिश्यते । अस्य सम्भावनस्य निर्देशार्थं प्रयुक्तः अपि इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । अस्य चत्वारि उदाहरणानि एतादृशानि -
  • 1. अपि पर्वतं देवदत्तः शिरसा भिन्द्यात् । देवदत्तस्य शक्तिः इयती अस्ति यत् सः तया शक्त्या मस्तकमात्रेण पर्वतम् अपि भेत्तुं शक्नुयात् - इति अस्य वाक्यस्य अर्थः । वस्तुतः कियती अपि शक्तिः विद्यते चेद् शिरसा पर्वतभेदनम् अशक्यम् एव । परन्तु तथापि देवदत्तस्य शक्तेः श्रेष्ठत्वं स्पष्टीभवेत् इति हेतुना अत्र एतादृशं वागाधिक्यम् (अत्युक्तिः) प्रयुक्तम् अस्ति । अस्यां स्थितौ अस्मिन् वाक्ये विद्यमानः अपि इति शब्दः कर्मप्रवचनीयसंज्ञः भवति ।
  • 2. अपि स्तूयाद् विष्णुम् । अनिर्वचनीयस्य भगवतः विष्णोः स्तुतिः सामान्यैः न सम्यक् कर्तुं शक्यते, परन्तु कश्चन श्रेष्ठः भक्तः विष्णुम् अपि सम्यक् स्तोतुम् शक्नोति - इति अस्य वाक्यस्य आशयः । अत्र भक्तस्य भक्तेः उत्कर्षः अपि इत्यनेन प्रकटीकृतः अस्ति ।
  • 3. अपि द्रोणपाकं भुञ्जीत । द्रोणपाकं (20/25 KG) इति यावत् पाकम् अयं मनुष्यः एकस्मिन् एव समये खादितुम् शक्नोति - इति अस्य वाक्यस्य अर्थः । कस्यचन मनुष्यस्य पचनशक्त्याः श्रेष्ठत्वं दर्शयितुम् इदं अतिशयितं विधानं कृतम् अस्ति ।
  • 4. अपि सिञ्चेत् मूलकसहस्रम् । कस्यचन कृषकस्य सिञ्चनशक्तिः इयती अस्ति यत् सः सहस्रं वृक्षान् अपि एकस्मिन् एव समये सेक्तुं शक्नोति - इति अत्र आशयः । एतेषु सर्वेषु अपि उदाहरणेषु अपि इति शब्दः सम्भावनस्य (= अत्युक्तेः) निर्देशार्थं प्रयुक्तः अस्ति, अतः तस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञः भवति । सम्भावनार्थे यदा अपि इति शब्दः प्रयुज्यते, तदा <<सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे>> 3.3.154 इति सूत्रेण विधिलिङ्लकारस्यैव प्रयोगः भवति । अतः एतेषु सर्वेषु अपि उदाहरणेषु विधिलिङ्लकारः एव प्रयुक्तः दृश्यते । सम्भावनम् तथा च सम्भावना एतौ द्वौ पृथक् शब्दौ स्तः । सम्भावनम् इत्युक्ते शक्तेः उत्कर्षः । सम्भावना इत्युक्ते आशङ्का । सम्भावनस्य निर्देशार्थम् <<सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे>> 3.3.154 इत्यनेन विधिलिङ्लकारः भवति । सम्भावनायाः निर्देशार्थम् <<उपसंवादाशङ्कयोश्च >> इत्यनेन वेदेषु लेट्लकारः तथा च लोके विधिलिङ्लकारः प्रयुज्यते ।
    3. अन्ववसर्गः = यथेच्छं कामचारानुज्ञा । यथेच्छम् आचारस्य अनुज्ञायाः सन्दर्भेण प्रयुक्तः अपि इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा, अपि भुञ्जीत ओदनम् । यदि इच्छसि तर्हि ओदनं खाद - इति अस्य अर्थः । एवमेव, अपि स्तूयाद् विष्णुम् । यदि विष्णोः स्तुतिं कर्तुम् इच्छसि तर्हि तथा अवश्यं कुरु - इति अस्य अर्थः । एतयोः द्वयोः अपि उदाहरणयोः "स्वमतम् / स्वेच्छाम् अनुसृत्य वर्तनं कुरु" इति आशयः विद्यते । अस्मिन् सन्दर्भे प्रयुक्तः अपि इति शब्दः प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञकः भवति । एवमेव अपि सिञ्चतु भवान् क्षेत्रम्, अपि सुनु (इच्छसे चेत् स्नानं कुरु - इत्यर्थः) एते उदाहरणे अपि सङ्गच्छेते । एतादृशेषु अन्ववसर्गार्थकेषु (= अतिसर्गार्थकेषु) वाक्येषु <<प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च >> 3.3.163 इत्यनेन लोट्लकारस्य, अथ वा <<लिङ् चोर्ध्वमौहूर्तिके >> 3.3.164 इत्यनेन विधिलिङ्लकारस्य प्रयोगः भवति ।
    4. गर्हा = निन्दा । यदा निन्दायाः सन्दर्भे अपि इति शब्दः प्रयुज्यते, तदा तस्य कर्मप्रवचनीयसंज्ञा भवति । कानिचन उदाहरणानि एतादृशानि -
  • 1.धिग्देवदत्तम्, अपि स्तूयाद् वृषलम् । देवदत्तस्य धिक्कारः स्यात्, यतो हि सः वृषलस्य (पापिजनस्य) स्तुतिं करोति - इति आशयः ।
  • 2.धिक् जाल्मं देवदत्तम्, अपि सिञ्चेत् पलाण्डुम् । देवदत्तः अनुचिते काले पलाण्डूनाम् (onions) सिञ्चनं करोति अतः तस्य धिक्कारः स्यात् - इति आशयः ।
  • 3.धिक् त्वाम्, अपि त्यजसि जायाम् । त्वं भार्यां त्यजसि अतः त्वं निन्द्यः - इति आशयः ।
  • 4.धिक्, शूद्रम् अपि स्तौति अयम् । अयं शूद्रस्य स्तुतिं करोति, अतः अस्य धिक्कारः स्यात् - इत्यर्थः । एतेषु सर्वेषु अपि उदाहरणेषु अपि इति शब्दः निन्दायाः सन्दर्भेण प्रयुक्तः अस्ति, अतः अत्र अस्य शब्दस्य सर्वत्र प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । यदा अपि इति शब्दस्य गर्हायाः सन्दर्भेण वाक्ये प्रयोगः भवति, तदा सामान्यरूपेण <<गर्हायां लडपिजात्वोः>> 3.3.142 इत्यनेन लट्लकारस्यैव प्रयोगः क्रियते । अतएव अत्र उपरि तृतीये तथा च चतुर्थे उदाहरणे लट्लकारः प्रयुक्तः दृश्यते । परन्तु यदा गर्हया सह अन्या अपि काचित् विवक्षा वर्तते, तदा अन्यलकारस्य प्रयोगः अपि सम्भवति । यथा, उपरि दत्तयोः प्रथमद्वितीययोः उदाहरणयोः गर्हया सह सम्भावना (योग्यतायाः विषये संशयः) अपि अस्ति इति मत्वा <<उपसंवादाशङ्कयोश्च>> 3.4.8 इति परसूत्रेण लट्लकारं बाधित्वा विधिलिङ्लकारः प्रयुक्तः अस्ति । केषुचित् व्याख्यानेषु तु अत्र अर्हतायाः विवक्षां कृत्वा <<अर्हे कृत्यतृचश्च>> 3.3.169 इत्यनेननापि परत्वात् विधिलिङ्लकारस्य समर्थनं कृतं दृश्यते । यत्र गर्हां विहाय अन्या काऽपि विवक्षा न वर्तते, तत्र तु <<गर्हायां लडपिजात्वोः>> 3.3.142 इत्यनेन लट्लकारस्यैव प्रयोगः करणीयः ।
    5. समुच्चयः = द्वौ अथवा अधिकानां विषयाणाम् सङ्कलनम् । अपि इति शब्दस्य समुच्चयार्थे प्रयोगः भाषायाम् सुप्रसिद्धः एव । यथा, लक्ष्मणः अपि गच्छति इत्यत्र गमनक्रियायाः कर्तृषु अपि इति शब्देन लक्ष्मणस्य अपि समावेशः भवति । अत्र अपि इति शब्दः समुच्चयार्थं प्रयुक्तः अस्ति । एवमेव अपि सिञ्च अपि स्तुहि (त्वम् अन्यैः कार्यैः सह सिञ्चनम् अपि कुरु, स्तुतिम् अपि कुरु - इत्यर्थः) अस्मिन् वाक्ये अपि अपि इति शब्देन क्रियाद्वयस्य समुच्चयः कृतः अस्ति । एतादृशेषु वाक्येषु समुच्चयार्थं प्रयुक्तः अपि इति शब्दः प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञकः भवति ।
    अनेन प्रकारेण पदार्थः, सम्भावनम्, अन्ववसर्गः, गर्हा तथा च समुच्चयः एतेषु पञ्चसु सन्दर्भेषु प्रयुक्तः अपि इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् प्रादिगणे विद्यमानः अपि इति शब्दः क्रियायाः योगे <<उपसर्गाः क्रियायोगे>> 1.4.59 इत्यनेन उपसर्गसंज्ञकः भवितुम् अर्हति । परन्तु प्रकृतसूत्रेण विहिता कर्मप्रवचनीयसंज्ञा एकसंज्ञाधिकारसामर्थ्यात् इमाम् उपसर्गसंज्ञां बाधते । यदि अपि इति शब्दस्य उपसर्गसंज्ञा अभविष्यत्, तर्हि सर्पिषः अपि स्यात् इत्यत्र <<उपसर्गप्रादुर्भ्यामस्तिर्यच्परः>> 8.3.87 इत्यनेन धातोः सकारस्य अनिष्टं षत्वम् अभविष्यत् । एवमेव, अपि स्तूयाद् विष्णुम्, अपि सिञ्च, अपि स्तूयाद् वृषलम् तथा च अपि सिञ्च अपि स्तुहि इत्येतेषु अन्येषु उदाहरणेषु अपि <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्>> 8.3.65 इत्यनेन धातुसकारस्य अनिष्टं षत्वम् अभविष्यत् । एतादृशं षत्वम् मा भूत् इति हेतुना अत्र उपसर्गसंज्ञायाः बाधः इष्यते, तदर्थम् च अत्र अपि इत्यस्य कर्मप्रवचनीयसंज्ञा कृता अस्ति । अत्र इदं स्मर्तव्यम्, यत् प्रकृतसूत्रस्य सर्वेषु अपि उदाहरणेषु विद्यमाना द्वितीया विभक्तिः कारकद्वितीया अस्ति, न हि कर्मप्रवचनीयद्वितीया । यथा, अपि स्तूयाद् विष्णुम् इत्यत्र <<स्तु>>-धातोः कर्मपदम् विष्णुपदार्थः, तथा च अपि द्रोणपाकं भुञ्जीत इत्यत्र <<भुज्>>-धातोः कर्मपदं द्रोणपाकपदार्थः - एतयोः निर्देशार्थम् <<कर्मणि द्वितीया>> 2.3.2 इत्यनेन इयं द्वितीयाविभक्तिः विधीयते । प्रकृतसूत्रस्य उदाहरणेषु <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यस्य प्रसक्तिरेव नास्ति । ##Balamanorama <<अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु>> - अपिः पदार्थ । पदार्थश्च संभावनञ्च अन्ववसर्गश्च गर्हा च समुच्चयश्चेति द्वन्द्वः । एषु द्योतकतया विद्यमानोऽपिः कर्मप्रवचनीय इत्यर्थः । तदाह — एष्विति । अप्रयुज्यमानस्य पदान्तरस्यार्थः-पदार्थः । तद्द्योतकमपिमुदाहरति — सर्पिषोऽपि स्यादिति । यत्रातिदौर्लभ्यादत्यल्पमाज्यं भुञ्जनेभ्यो दीयते तदुपहासार्थमिदं वाक्यम् । अत्रापेः कर्मप्रवचनीयत्वे प्रयोजनमाह — अनुपसर्गत्वान्न ष इति ।#उपसर्गाप्रादुभ्र्यामित्यनेने॑ति शेषः । अपिद्योत्यं पदार्थं विशदयितुमाह — संभावनायां लिङिति ।उपसंवादाशङ्कयोश्चे॑ति सूत्रे उपसंवादाशङ्कयोर्लि॑ङिति पठितवचनेने॑ति शेषः । तत्र आशङ्का=उत्कटान्यतरकोटिका शङ्का संभावनैवेति भावः । सा च प्रकृत्यर्थगता भवति, प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः । अस्धातोश्च भवनमर्थः,अस भुवी॑त्युक्तेः । भवनं च सत्ता,भू सत्ताया॑मित्युक्तेः । ततश्च संभावनाविषयीभूतभवनार्थकाऽस्धातोः कर्तरि लिङि श्नसोरल्लोपे यासुडागमादौ स्यादिति रूपम् । तेन च संभावनाविषयीभूतभवनार्थकाऽस्धातोः कर्तरि लिङि श्नसोरल्लोपे यासुडागमादौ स्यादिति रूपम् । तेन च संभावनाविषयभवनाश्रयः कर्ता अवगतः । सच कर्ता क इत्याकाङ्क्षायां प्रकरणादौचित्यात्सर्पिष इत्यवयवषष्ठीबलाच्च बिन्दुरिति गम्यते, तमेवाऽपिशब्दो द्योतयति । सच विन्दुरपिशब्दद्योत्यः कर्ता प्रकृत्यर्थे संभावनाविषये भवने स्वस्य विन्दोर्दौर्लभ्यात्तदेव दौर्लभ्यं पुरस्कृत्यान्वेति, संभावनाविषयत्वबोधे दौर्लभ्यस्यापि संभावनाविषयतया अनुभवसिद्धत्वात् । तदिदं दौर्लभ्यमपि अपिशब्दो द्योतयति । एवं च बिन्धोः कर्तृविशेषरूपेण द्योत्योक्तदौर्लभ्यसंबन्धेन च स्यादित्यत्रान्वयः । तदाह — तस्या एवेति । संभावनाया एवेत्यर्थः । कर्तुर्बिन्दोर्दौर्लभ्याद्भवन क्रियायां यद्यौर्लभ्यं तद्द्योतयन्नपिशब्दः स्यादित्यनेन संबध्यत इत्यर्थः । ननु सर्पिरेव कर्तृत्वेनान्वेति इत्यत आह — सर्पिष इति । 'संबन्ध' इत्यनन्तरं 'वर्तते' इति शेषः । एवंच सर्पिरवयवबिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यवती बुन्दु कर्तृका संभावनाविषयीभूता सत्तेति बोधः । इयमेवेति । बिन्दुदौर्लभ्यप्रयुक्तदौर्लभ्यद्योतकतैवेत्यर्थः । ननु कर्मप्रवचनीयेनाऽपिना अन्वयसत्त्वात् सर्पिषो द्वितीया स्यादित्यत आह — द्वितीया तु नेति । कुत इत्यत आह — सर्पिष इति । सर्पिषो बिन्दुनैव योगो न त्वपिनेत्येवं सर्पिष इति षष्ठी त्वित्यादिसंदर्भेण उक्तत्वादित्यर्थः । कर्मप्रवचनीयद्योत्यसंबन्धप्रतियोगित्वमेव कर्मप्रवचनीययुक्तत्वम्, प्रकृते च अपिद्योत्यस्य उक्तसंबन्धस्य विन्दुरेव प्रतियोगी नतु सर्पिरिति भावः । तदेवं पदार्थद्योतकमपिमुदाहृत्य संभावनद्योतकमपिमुदाहरति — अपि स्तुयादिति ।संभावनेऽलमिति चेत् सिद्धाऽप्रयोगे॑ इति लिङ् । संभावनपदं व्याचष्टे — संभावनमित्यादिना । अवाङ्भनसगोचरं विष्णुमपि स्तुयात् । स्तोतु शक्त इत्यर्थः । अत्युक्तिरियम्, अवाङ्मनसगोचरस्य विष्णोः केनापि स्तोतुमशक्यत्वात् । तत्र कर्मप्रवचनीयत्वे उपसर्गत्वबाधात्उपसर्गात्सुनोती॑ति षत्वं न । अन्ववसर्गद्योतममपिमुदाहरति — अपिस्तुहीति । स्तुहि वा, न वा, यथेष्टं कुर्वित्यर्थः । अन्ववसर्गपदं व्याचष्टे — कामचारानुज्ञेति ।प्रैषातिसर्गे॑ति लोट् । गर्हाद्योतकमप्युदाहरति — अपि स्तुयाद्वृषलमिति ।गर्हायां लडपिजात्वोः॑ इति लटं बाधित्वा परत्वादन्तरङ्गत्वाच्च संभावनायां लिङ् । अत्र वृषलस्य निन्द्यत्वात् तत्स्तुतेर्निन्द्यत्वं गम्यमानमपिशब्दो द्योतयति । धिग्देवदत्तमिति तदनुवादः । समुच्चयद्योतकमपिमुदाहरति — अपि सिञ्च अपि स्तुहीति । अपिद्वयेन मिलितेन समुच्चयद्योतनात् प्रत्येकं कर्मप्रवचनीयत्वादुभयत्रापि षत्वाऽभावः । सिञ्च, स्तुहि चेत्यर्थः । ##Padamanjari पदान्तरस्येत्यादि। स्वार्थस्तावदव्यभिचारान्न गृह्यते इति पदान्तरस्यार्थः पदार्थः। तत्रापि पदान्तरप्रयोगे सत्यपिः प्रयुज्यमानस्तदर्थे कञ्चिद्विशेषमाधते। यथा - नीलशब्द उत्पले, न तु तस्मिन्नेवान्यूनानतिरिक्ते वर्तते; तथा सति पर्यायत्वप्रसङ्गेनाप्रयोगार्हत्वात्। अतः पदान्तरस्याप्रयोग एव तदर्थे प्रवृतो भवतीति भावः। सर्पिषोऽपि स्यादिति। प्रार्थनायां लिङ्, तस्या एव दुर्लभविषयतामपिशब्दो द्योतयन् स्यादित्यनेन सम्बध्यते इति षत्वप्रसङ्गः, दुर्लभत्वं च विषयस्यैव भवति, यदि तस्या बिन्दुमात्रमपि न लभ्यत इत्यत्रापिशब्दसामर्थ्याद्विन्दुरिति गम्यते, तदाह - मात्राबिन्दुस्तोकमित्यस्थार्थेऽपिशब्दो वर्तत इति। तदुपजनिते च व्यतिरेके सर्पिष इति षष्ठी। द्वितीया तु न भवति, अपिना योगाभावात्। स हि स्यादित्यनेन सम्बध्यत इत्युक्तम्। अधिकार्थवचनेनेति तत्सम्भावनमित्यर्थः। अपि सिञ्चेदिति। सम्भावने लिङ तस्यैव दुष्करविषयतामपिराह। कामचार इच्छाप्रवृत्तिः। अपि सिञ्चेदेति । सिञ्च वा मा वा, स्तुहि वा मा वा, यथेष्ट्ंअ कुर्वित्यर्थः। जाल्मोऽपशब्दः। अपि सिञ्चेदिति। गर्हार्थे लिङ्। उपसर्गसंज्ञाबाधनादिति। स्यादित्यत्र ठुपसर्गप्रादुर्भ्याम्ऽ इति सिचः ठुपसर्गात्सुनोतिऽ इति षत्वप्रसङ्गः॥