प्राग्रीश्वरान्निपाताः

1-4-56 प्राक् रीश्वरात् निपाताः आ कडारात् एका सञ्ज्ञा

Sampurna sutra

Up

रीश्वरात् प्राक् निपाताः

Neelesh Sanskrit Brief

Up

अधिकारसूत्रम् इदम् । इतः परम् <<अधिरीश्वरे>> 1.4.97 इति सूत्रपर्यन्तं निपातसंज्ञकाः पाठ्यन्ते ।

Neelesh English Brief

Up

The words discussed till <<अधिरीश्वरे>> 1.4.97 are known as निपात.

Kashika

Up

<<अधिरीश्वरे>> १.४.९७ इति वक्ष्यति। प्रागेतस्मादवधेर्यानित ऊर्ध्वमनुक्रमिष्यामः निपातसंज्ञास्ते वेदितव्याः। वक्ष्यति <<चादयोऽसत्त्वे>> १.४.५७ च वा ह अह। प्राग्वचनं संज्ञासमावेशार्थम्। गत्युपसर्गकर्मप्रवचनीयसंज्ञाभिस्सह निपातसंज्ञा समाविशति। रेफोच्चारणम् <<ईश्वरे तोसुन्कसुनौ>> ३.४.१३ इत्ययमवधिर्मा विज्ञायीति॥

रीश्वराद् वीश्वरान् मा भूत् कृन्मेजन्तः परोऽपि सः।

समासेष्वव्ययीभावो लौकिकं चातिवर्तते॥

Siddhanta Kaumudi

Up

इत्यधिकृत्य ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

इदम् अधिकारसूत्रम् अस्ति । अस्य सूत्रस्य अधिकारः <<अधिरीश्वरे>> 1.4.97 इति पर्यन्तं प्रचलति । अस्मिन् अधिकारे विद्यमानानि सर्वाण्यपि सूत्राणि संज्ञासूत्राणि सन्ति, यतः एतैः सूत्रैः निपात: इति संज्ञा दीयते । इत्युक्ते अस्मिन् अधिकारे विद्यमानैः सूत्रैः संज्ञिरूपेण दत्ताः शब्दाः निपातसंज्ञकाः भवन्ति । किञ्च तदेव न, अपितु एतेषाम् एव निपातानाम् अग्रे उपसर्गः, गतिः तथा च कर्मप्रवचनीयः एताः भिन्नाः संज्ञाः अपि अस्मिन् एव अधिकारे दत्ताः सन्ति । अस्मिन् अधिकारे विद्यमानानाम् सूत्राणाम् संक्षेपः एतादृशः -

  • 1. <<चादयोऽसत्त्वे>> 1.4.57 इत्यनेन चादिगणस्य शब्दाः निपातसंज्ञकाः भवन्ति ।
  • 2. <<प्रादयः>> 1.4.58 इत्यनेन प्रादिगणस्य शब्दाः निपातसंज्ञकाः भवन्ति ।
  • 3. <<उपसर्गाः क्रियायोगे>> 1.4.59 इत्यनेन प्रादिगणस्यैव शब्दानाम् उपसर्गाः इति संज्ञा अपि दीयते ।
  • 4. <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इत्येतैः सूत्रैः गतिसंज्ञकाः शब्दाः पाठ्यन्ते । एते शब्दाः निपातसंज्ञकाः अपि सन्ति ।
  • 5. <<अनुर्लक्षणे>> 1.4.83 इत्यस्मात् <<विभाषा कृञि>> 1.4.98 इत्येतैः सूत्रैः कर्मप्रवचनीयसंज्ञकाः शब्दाः पाठ्यन्ते । एते शब्दाः निपातसंज्ञकाः अपि सन्ति । निपातसंज्ञायाः प्रयोगः अष्टाध्याय्याम् आहत्य षट्सु सूत्रेषु निपातसंज्ञायाः प्रयोगः कृतः अस्ति — 1. <<निपात एकाजनाङ्>> 1.1.14 2. <<स्वरादिनिपातमव्ययम्>> 1.1.37 3. <<प्राग्रीश्वरान्निपाताः>> 1.4.56 4. <<यावत्पुरानिपातयोर्लट्>> 3.3.4 5. <<निपातस्य च>> 6.3.136 6. <<निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्त>> 8.1.30 सूत्रे विद्यमानस्य <hlb>रीश्वरात्</hlb> इति शब्दस्य विषये प्रकृतसूत्रेण दत्तायाः निपातसंज्ञायाः अधिकारः <<अधिरीश्वरे>> 1.4.98 इति सूत्रं यावत् प्रचलति । अमुम् एव विषयम् स्पष्टीकर्तुम् पाणिनिः प्रकृतसूत्रे रीश्वर इति शब्दं प्रयुङ्क्ते । अयं शब्दः <<अधिरीश्वरे>> 1.4.98 इत्यस्मिन् सूत्रे विद्यमानस्य रीश्वर इत्यस्य निर्देशं करोति । तत्र वस्तुतः <<अधिरीश्वरे>> 1.4.98 इत्यत्र अधिः तथा च ईश्वरे इति द्वौ पृथक् शब्दौ स्तः, अतः रीश्वर इति अनर्थक-शब्दस्य स्थाने प्रकृतसूत्रे ईश्वर इत्यस्य सार्थकशब्दस्य ग्रहणम् एव उचिततरं भाति । परन्तु ईश्वर इति शब्दः अग्रे <<ईश्वरे तोसुन्कसुनौ>> 3.4.13 इति अन्यस्मिन् सूत्रे अपि वर्तते, अतः ईश्वर शब्दस्य ग्रहणं कृत्वा "प्राग् ईश्वरात् निपाताः" इति सूत्रं क्रियते चेत् "अयं अधिकारः क्व समाप्यते" अस्मिन् विषये सन्देहः अजनिष्यत । तथा मा भूत् इति हेतुना प्रकृतसूत्रे रीश्वर इति अनर्थकशब्दः एव प्रयुक्तः अस्ति । अस्मिन् सन्दर्भे काशिकायां भाष्ये च एकं श्लोकवार्त्तिकं दत्त्वा कश्चन शास्त्रविषयः अपि चर्चितः वर्तते । जिज्ञासुभिः सः अवश्यं द्रष्टव्यः । सर्वेऽपि निपाताः <hlb>अव्ययसंज्ञकाः</hlb>, <hlb>प्रातिपदिकसंज्ञकाः</hlb> च सर्वेषाम् अपि निपातानाम् <<स्वरादिनिपातमव्ययम्>> 1.1.37 इति सूत्रेण अव्ययसंज्ञा विधीयते । एवमेव, <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> 1.2.45 इत्यनेन एते शब्दाः अर्थवत्त्वात् प्रातिपदिकसंज्ञकाः अपि भवन्ति । केचन निपाताः तु अनर्थकाः सन्ति, परन्तु तेषाम् अपि इति वार्त्तिकेन प्रातिपदिकसंज्ञा अवश्यम् विधीयते। अतः एतेभ्यः शब्देभ्यः सुबुत्पत्तिः अपि सम्भवति । परन्तु अव्ययेभ्यः विहितानां <<सुप्>>-प्रत्ययानाम् प्रक्रियायाम् <<अव्ययादाप्सुपः>> 2.4.82 इत्यनेन लुक् भवति । अतः सर्वेषाम् अपि निपातानाम् सर्वासु विभक्तिषु, सर्वेषु वचनेषु, त्रिषु अपि लिङ्गेषु रूपाणि समानानि एव भवन्ति — च [<<चादयोऽसत्त्वे>> 1.4.57 इति निपातसंज्ञा । <<अर्थवदधातुरप्रत्ययः प्रातिपदिकम्>> 1.2.45 इति प्रातिपदिकत्वम् ।] → च + सुँ [<<स्वौजस्...>> 4.1.2 इति सुँ-प्रत्ययः ।] → च + ० [<<अव्ययादाप्सुपः>> 2.4.82 इति सुँ-प्रत्ययस्य लोपः] → च [<<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा ] अनेन प्रकारेण, वाक्ये प्रयुक्ताः सर्वे अपि निपाताः पदसंज्ञकाः एव सन्ति । एकाच्काः निपाताः <hlb>प्रगृह्यसंज्ञका</hlb> अपि सन्ति आङ् इति निपातं विहाय अन्ये ये निपाताः एकाच्काः सन्ति (इत्युक्ते, येषु एकः एव स्वरः अस्ति तथा च किमपि व्यञ्जनम् नास्ति), तेषाम् <<निपात एकाजनाङ् >> 1.1.14 इति सूत्रेण प्रगृह्यम् इति संज्ञा विधीयते । एतेषाम् आवली इयम् — अ, आ, इ, उ, ऋ, ऌ, ए, ऐ, ओ, औ — एते एकाच्काः, अतः प्रगृह्यसंज्ञकाः निपाताः । फिट्सूत्रम् - <<निपाताः आद्युदात्ताः>> शान्तनवाचार्येण प्रणीते फिट्सूत्रपाठे <<निपाताः आद्युदात्ताः>> (4.12) इति सूत्रं वर्तते । इदम् उत्सर्गसूत्रम् । सर्वेऽपि निपाताः औत्सर्गिकरूपेण आद्युदात्ताः सन्ति इति अस्य सूत्रस्य अर्थः । अस्य अपवादत्वेन 4.13 इत्यतः 4.17 एतेषु सूत्रेषु विशिष्टनिपातानां विषये विशिष्टाः स्वराः दत्ताः सन्ति । ##Balamanorama <<प्राग्रीश्वरान्निपाताः>> - प्रागीआरान्निपाताः । प्रथमस्य चतुर्थपादेतत्प्रयोजको हेतुश्चे॑त्यनन्तकमिदं सूत्रम् ।रीश्वर॑शब्दः 'अधिरीश्वरे' इति सूत्रैकदेशस्य अनुकरणम् । अनुकरणत्वान्नापशब्दः । अत एवप्रत्यक्षोपजीव्यत्वा॑दिति चिन्तामणिवाक्यस्यप्रत्यक्षविती॑ति प्रतीकग्रहणं तद्व्याख्याने दृश्यते ।इतः प्रभृति अधिरीश्वर इति एतत्पादीयोपरितनसूत्रे रीश्वरशब्दात् प्राक्निपातसंज्ञकाः प्रत्येतव्या इत्यर्थः । निपातपदमनुवर्तत इति यावत् । रेफविशिष्टग्रहणं किम् । 'ईआरे तोसुन्कसुनौ' इति तृतीयाध्यायस्थस्यावधित्वं मा भूत् । यदि तु प्रथमातिक्रमणे कारणाभावादधिरीश्वर इत्यस्यैवावधित्वं तदा सरेफग्रहणं स्पष्टार्थम् । ##Padamanjari प्राग्रीश्वरान्निपाताः॥ प्राचि काले देशे वा प्राक्। अधिरीश्वरे इति वक्ष्यतीति। ईश्वरप्रकृतिभागस्य पूर्वपदान्तेन रेफेण सहानुकरणं द्रष्टव्यम्। अनुकार्येणार्थेनार्थवत्वात् विभक्त्यत्पतिः, च वा इत्यत्र निपातत्वे सति'स्वरादिनिपातमव्यम्' इत्यव्ययसंज्ञा भवति।'निपाता आद्यौदाताः' इति तु स्वरो न भवति, उदाहृतानामनुदातानां गणे पाठात्। अन्येषां तु तदपि भवति। ननु यथा'प्रत्ययः' इत्यादिरधिकारो विनाप्यवधिनिर्देशेनाभिमतविषये प्रवर्तते, तथायमपि प्रवर्तिष्यते, निपाताःऽ इत्येवास्तु, नार्थोऽवधिनिर्देशेनेत्यत आह - प्राग्वचनमिति। प्राग्वचनद्वारेणावघिनिर्देशस्य प्रयोजनमुक्तम्। अयमर्थः- असत्यवधिनिर्देशे'निपाताः' इत्यस्य प्रतियोगमनुवृतौ सत्यामप्येकसंज्ञाधिकारात् पर्यायः स्यात्, न तु समावेशः; सति तु तस्मिन् ईश्वरात् प्राग्यावन्तः संज्ञिनः सर्वास्तान्नैकध्यमिहापेक्ष्य सकृत्संज्ञा विधीयते, प्रतिसूत्रमधिकारात्वपरावृत्तिः, तस्याश्च समावेशः प्रयोजनमिति। अथ वा प्राग्वचनं किमर्थम्, यावता पञ्चम्येव प्रागिति दिक्शब्देऽध्याहरिष्यते, परागित्यस्य त्वध्याहारो न भविष्यति,'चादयो' सत्वेऽ 'प्रादयः' इत्यनयोर्विधेयासम्भवेनानर्थक्यप्रसङ्गात्? अत आह - प्राग्वचनमिति। अयं भावः- अध्याहारेण सिद्धे प्राग्ग्रहणसामर्थ्यातन्त्रेण द्वौ प्राक्च्छब्दावुच्चार्येते। तेनायमर्थो भवति - प्राग्रीश्वराद्ये व्यवस्थितास्ते प्राक् निपातसंज्ञा भवन्ति, निपाताः सन्तो गत्यादिसंज्ञा इति। तेन निमितमेव निपातसंज्ञा गत्यादिसंज्ञानामिति समावेशसिद्धिरिति। रीश्वरादिति सह रेफेणानुकरणे प्रयोजनमाह - रीश्वराद्वीश्वरान्मा भूदिति। रीश्वरादित्युच्यते, ठधिरीश्वरेऽ इत्ययमीश्वरशब्दोऽवधिर्यथा स्यात्'शकिण्यमुल्कमुलौ' ठीश्वरे तोमुन्कसुनौऽ इत्ययं मा भूद् इत्येवमर्थमित्यर्थः। यदा संहीतया सूत्राणि पठ।ल्न्ते, तदा शीश्वरशब्दोऽस्तीत्यभिप्रेत्य रीश्वरादित्युक्तम्। ज्ञापकात्, सिद्धम्, यदयं'कृन्मेजन्तः' इति कृतो मान्तस्यैजन्तस्य वाऽव्ययसंज्ञां शास्ति, तज्ज्ञापयति - अनन्तर ईश्वरशब्दोऽवधिर्न व्यवहित इति, अन्यथा सेसेन्प्रभृतीनां णमुल्कमुलोश्च निपातत्वादेवाव्ययसंज्ञायाः सिद्धत्वादनर्थकं तत्स्यात्? नैतदस्ति ज्ञापकम्, कृन्मेजन्तः परोऽपि सः, ठीश्वरे तोसुन्कसुनौऽ इत्यस्मात्परोऽपि कृन्मान्त एजन्तश्चस्ति कृत्यार्थे तवैकेनित्याद्येजन्तः, णमुलादिश्च मान्तः, तदर्थमेतत् स्यात्। यतर्ह्यव्ययीभावस्याव्ययत्वं शास्ति, तज्ज्ञापयति - अनन्तरस्य ग्रहणमिति; अन्यथा द्वितीये निपातसंज्ञाव्यापाराद् अव्ययीभावस्य निपातत्वादेवाव्ययसंज्ञायाः सिद्धत्वादनर्थकं तत्स्यात्, नैतदस्ति;'समासेष्वव्ययीभावः' तुल्यजातीयव्यावृतये नियमार्थमेतत्स्यात्, न त्वनन्तरस्य ग्रहणे ज्ञापकमित्यर्थः। एवं तर्हि लौकिकन्यायादेवानन्तरस्य ग्रहणं भविष्यति, लौकिके ह्यएदकान्तात्प्रियं प्राप्यमनुव्रजेदिति य एवानन्तर उदकान्त आ ततोऽनुव्रज्य बान्धवा निवर्तन्ते तद्वदत्रापि? तत्राह - लौकिकं चातिवर्तते इति। लौकिकं न्यायं लोक एवातिवर्तते; यतो द्वितीयमप्युदकान्तं स्नोहातिशयादनुव्रज्य निवर्तन्ते तस्माद्रीश्वरादित्युच्यते वीश्वरान्मा भूदिति स्थितम्। ननु च'न लोकाव्यय' इत्यत्र लोकादीनामव्ययत्वादेव षष्ठीप्रतिषेधे सिद्धे पुनरुपादानं ज्ञापकं भविष्यती - अनन्तरस्य ग्रहणमिति, नैतदस्ति; अव्ययसंज्ञाया एवाभावं ज्ञापयेत्, निपातसंज्ञा तु स्यादेव; ततश्च चिकीर्ष्वर्थ इत्यादौठ्निपात एकाजनाङ्ऽ इति प्रगृह्यसंज्ञा स्यातु। प्रोथमिति। पर्याप्तमित्यर्थः।'प्रोथ यर्याप्तौ' , पचाद्यचि क्रियाविशेषणत्वान्नपुंसकत्वम्॥