कर्मप्रवचनीययुक्ते द्वितीया

2-3-8 कर्मप्रवचनीययुक्ते द्वितीया अनभिहिते अत्यन्तसंयोगे

Kashika

Up

index: 2.3.8 sutra: कर्मप्रवचनीययुक्ते द्वितीया


कर्मप्रवचनीयैर्युक्ते द्वितीया विभ्क्तिर्भवति। अनुर्लक्षणे 1.4.84 शाकल्यस्य संहितामनुप्रावर्षत्। आगस्त्यमन्वसिञ्चत् प्रजाः।

Siddhanta Kaumudi

Up

index: 2.3.8 sutra: कर्मप्रवचनीययुक्ते द्वितीया


एतेन योगे द्वितीया स्यात् । जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षितं वर्षणमित्यर्थः । परापि हेताविति तृतीयाऽनेन बाध्यते । लक्षणेत्थंभूत <{SK552}> इत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात् ॥

Balamanorama

Up

index: 2.3.8 sutra: कर्मप्रवचनीययुक्ते द्वितीया


कर्मप्रवचनीययुक्ते द्वितीया - कर्मप्रवचनीय । युक्ते इति भावे क्तः । तदाह — एतेन योगे इति जपमन्विति । कदा पर्जन्योऽवर्षदिति प्रश्ने उत्तरमिदम् । अत्र वृष्टिकाल उपदेश्यः, स च दुज्र्ञानत्वात्शाखाग्रं प्रति द्विकलश्चन्द्र॑ इतिवत्प्रज्ञानं किंचिदवलम्ब्यैव ज्ञाप्यः । जपोऽत्र प्रज्ञानम्, तत्र जपकाले पर्जन्यः प्रावर्षदिति संभवति । हेतुभूतजपो ह्रत्र लक्षणम् । हेतुत्वं च पूर्वकालवृत्तित्वघटितम् । एवंच वर्षहेतुभूतवरुणजपोत्तरकाले पर्जन्यः प्रावर्षदित्युत्तरं पर्यवस्यति । तत्र लक्षणत्वं हेतुत्त्वं चेति द्वयं द्वितीयार्थः । तदुभयमनुना द्योत्यते । लक्षणत्वं च ज्ञानजनकज्ञानविषयत्वम् । जपज्ञानेन तदुत्तरकालविशिष्टा वृष्टिज्र्ञाप्यते । ततस्च जपात्मकहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः । तदाह — हेतुभूतेति । अनभिहिताधिकारान्न पर्जन्यात्तृतीया, तस्य तिङा अभिहितत्वात् । ननु हेतुत्वाऽविवक्षायांवृक्षमनु विद्योतते विद्यु॑दित्यत्रअनुर्लक्षणे॑इत्यत्र तदनुपादानात् । एवंच हेतुत्वाऽविवक्षायांवक्षमनु विद्योतते विद्यु॑दित्यत्र 'अनुर्लक्षणे' इति सावकाशम् । 'हेतौ' इति तृतीया तुधनेन कुल॑मित्यादौ सावकाशा ।पर्जन्यो जपमनु प्रावर्ष॑दित्यत्र तु तदुभयमपि प्रसक्तम् । तत्र परत्वाद्धेतुतृतीयैव स्यादित्यत आह — परापीति । 'अनुर्लक्षणे' #इति कर्मप्रवचनीयत्वप्रयुक्तद्वितीयाविधिनेत्यर्थः । पुनः संज्ञेति ।वृक्षमनु विद्योतते विद्यु॑ दित्यत्र हि 'अनुर्लक्षणे' इत्यस्य न प्रयोजनम्,लक्षणेत्थ॑मित्येव सिद्धेः । ततश्च 'अनुर्लक्षणे' इत्यारम्भसामर्थ्याद्धेतुभूते लक्षणेऽनोः कर्मप्रवचनीयत्वलब्धया द्वितीयया हेतौतृतीया बाध्यत इति विज्ञायते इत्यर्थः । ततश्च हेतुत्वमपि शाब्दबोधे विषय इति फलति ।