अनुर्लक्षणे

1-4-84 अनुः लक्षणे आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

कारणं द्योतयितुम् प्रयुक्तः "अनु" इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - जपम् अनु प्रावर्षत् ।

Kashika

Up

अनुशब्दो लक्षणे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति। शाकल्यस्य संहितामनु प्रावर्षत्। अनडुद्यज्ञम् (मा०गृ० २.१०.७) अन्वसिञ्चत्। अगस्त्यमन्वसिञ्चन् प्रजाः। किमर्थमिदमुच्यते, यावता <<लक्षणेत्थंभूताख्यान०>> १.४.९० इति सिद्धैवानोः कर्मप्रवचनीयसंज्ञा? हेत्वर्थं तु वचनं हेतुतृतीयां बाधित्वा द्वितीयैव यथा स्यात्॥

Siddhanta Kaumudi

Up

लक्षणे द्योत्येऽनुरुक्तसंज्ञः स्यात् । गत्युपसर्गसंज्ञापवादः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कर्मप्रवचनीयाः>> 1.4.83 अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं प्रथमं सूत्रम् । अनु इत्यस्य शब्दस्य अनेन सूत्रेण कर्मप्रवचनीयसंज्ञा भवति । अनु इति शब्दः यदा कारणम् (लक्षणम्) इत्यस्य निर्देशार्थम् प्रयुज्यते, तदा सः कर्मप्रवचनीयसंज्ञः भवति - इति प्रकृतसूत्रस्य आशयः । किञ्च, अस्य अनु इति कर्मप्रवचनीयस्य प्रयोगे कारणवाचकशब्दस्य <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयाविभक्तिः भवति । उदाहरणानि एतादृशानि - 1. देवः जपम् अनु प्रावर्षत् । जपस्य कारणात् देवः प्रसन्नः जातः, ततश्च सः वर्षाम् अकरोत् - इति अर्थः । अत्र जपम् इत्यस्य कारणत्वम् / लक्षणत्वम् अनु इति शब्देन निर्दिश्यते, अतः अत्र अनु इति शब्दस्य कर्मप्रवचनीयसंज्ञा भवति । अपि च, कारणवाचकस्य जपपदार्थस्य निर्देशार्थम् अत्र <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयाविभक्तिः कृता अस्ति । 2. देव: शाकल्यस्य संहिताम् अनु प्रावर्षत् । शाकल्यस्य यज्ञस्य कारणात् वर्षा सञ्जाता - इति अर्थः । संहिताम् इति द्वितीया <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन सिद्ध्यति । 3. देव: अनडुद्यज्ञम् अन्वसिञ्चत् । "अनडुद्" इत्याख्यस्य यज्ञस्य कारणात् देवः अवर्षत् - इति अर्थः । यज्ञम् इत्यत्र <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीया विधीयते । 4. देवाः अगस्त्यम् अन्वसिञ्चन् प्रजाः । "अगस्यम्" इत्याख्यस्य नक्षत्रस्य कारणात् देवाः महतीं वर्षां अकुर्वन् - इति अर्थः । अत्र प्रजाः इति कर्मपदम् अस्ति, अतः तत्र <<कर्मणि द्वितीया>> 2.3.2 इति द्वितीया विधीयते । कर्मप्रवचनीयद्वितीया तु अगस्त्यम् इति कारणवाचकशब्दस्य निर्देशार्थम् प्रयुक्ता अस्ति । <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> <a href="1.4.90.html">1.4.90</a> इत्यनेनैव सिद्धे पृथक् सूत्रविधानं द्वितीयाविधानार्थम् कर्मप्रवचनीयसंज्ञायाः प्रकरणे एव अग्रे <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> 1.4.90 इति किञ्चित् सूत्रं विद्यते । अनेन सूत्रेण अपि लक्षणम् द्योतयितुम् एव अनु इति शब्दस्य कर्मप्रवचनीयसंज्ञा उक्ता अस्ति; परन्तु अस्मिन् सूत्रे लक्षणम् इति शब्दस्य अर्थः चिह्नम् इति वर्तते, न हि कारणम् इति । वस्तुतः, यदि <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> 1.4.90 इत्यत्र लक्षणशब्दस्य चिह्नम् तथा च कारणम् एतयोः द्वयोः अपि अर्थयोः ग्रहणं क्रियते, तर्हि - अनु इत्यस्य उभयोः अपि अर्थयोः कर्मप्रवचनीयसंज्ञा भवति - इति अर्थः तत्रैव सिद्ध्येत्, तथा च अस्यां स्थितौ <<अनुर्लक्षणे>> 1.4.84 इति प्रकृतसूत्रम् नैव आवश्यकम् स्यात् । परन्तु पाणिनिना एतादृशं न कृत्वा प्रकृतसूत्रम् पृथक् रूपेण एव स्थापितम् दृश्यते । अमुम् विषयम् स्पष्टीकुर्वन् प्रकृतसूत्रे काशिकाकारः ब्रूते - किमर्थम् इदम् उच्यते, यावता लक्षणेत्थंभूताख्यान... इति सिद्धा एव अनोः कर्मप्रवचनीयसंज्ञा ? हेत्वर्थं तु वचनं; हेतुतृतीयां बाधित्वा द्वितीयैव यथा स्यात् - इति । काशिकाकारस्य कथनस्य आशयः अयम् - कर्मप्रवचनीयशब्दानां योगे <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीया विभक्तिः भवति । अपि च, कारणस्य निर्देशार्थम् <<हेतौ>> 2.3.23 इति सूत्रेण तृतीया विभक्तिः भवति । अस्यां स्थितौ, यदि <<लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः>> 1.4.90 इत्यत्रैव द्वयोः अपि लक्षणार्थयोः ग्रहणं स्यात्, तर्हि कारणम् अस्मिन् अर्थे <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीया तथा च <<हेतौ>> 2.3.23 इति सूत्रेण तृतीया विभक्तिः युगवत् भवेताम् । एतादृशे विप्रतिषेधे जाते, कारणस्य निर्देशार्थम् अनु इत्यस्य उपस्थितौ अपि, परत्वात् तृतीया एव अभविष्यत् । परन्तु इष्यते तु द्वितीया । अतः अत्र कारणम् अस्मिन् अर्थे अनु-शब्दस्य कर्मप्रवचनीयसंज्ञा पृथक् रूपेण उक्ता वर्तते । अस्य पृथक्सूत्रस्य विधानसामर्थ्यात् कारणम् अस्मिन् अर्थे अनु-शब्दस्य-प्रयोगे <<हेतौ>> 2.3.23 इति परसूत्रम् बाधित्वा <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीया एव भवति,, अतश्च जपम् अनु प्रावर्षत् इति प्रयोगः अपि सिद्ध्यति । प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः द्वे प्रयोजने स्तः -

  • 1. द्वितीयाविभक्तिविधानम् - कारणवाचकशब्दस्य निर्देशम् <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयया कर्तुम् प्रकृतसूत्रेण अनु इत्यस्य कर्मप्रवचनीयसंज्ञा विधीयते । अतएव जपम् अनु प्रावर्षत् इत्यत्र जपम् इत्यत्र द्वितीयाविभक्तिः प्रयुक्ता अस्ति ।
  • 2. उपसर्गसंज्ञाबाधनम् - प्रकृतसूत्रेण विहिता कर्मप्रवचनीयसंज्ञा एकसंज्ञाधिकारात् उपसर्गसंज्ञां बाधते । अतएव, देव: यज्ञम् अन्वसिञ्चत् अस्मिन् वाक्ये अन्वसिञ्चत् इत्यत्र <<सिञ्च्>>-धातोः सकारस्य षत्वं न भवति । यदि अत्र अनु-शब्दस्य उपसर्गसंज्ञा अभविष्यत्, तर्हि <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्>> 8.3.65 इत्यनेन उपसर्गात् परस्य <<सिञ्च्>>-धातोः सकारस्य अनिष्टं षत्वम् अभविष्यत् । तत् तथा मा भूत् इति हेतुना प्रकृतसूत्रेण अनु इत्यस्य कर्मप्रवचनीयसंज्ञा उक्ता अस्ति, या एकसंज्ञाधिकारात् उपसर्गसंज्ञां बाधते । उपसर्गसंज्ञायाः अभावे <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम्>> 8.3.65 इत्यस्य प्रसक्तिः नैव सम्भवति, अतएव अनिष्टं षत्वम् अपि निवार्यते । ##Balamanorama <<अनुर्लक्षणे>> - अनुर्लक्षणे । लक्षणे द्योत्ये इति । लक्ष्यलक्षणभावसंबन्धे द्योत्ये इत्यर्थः । उक्तसंज्ञ इति । कर्मप्रवचनीसंज्ञ इत्यर्थः । लक्ष्यते ज्ञायतेऽनेनेति लक्षणम्, तच्च हेतुभूतं विवक्षितम्, नतु वृक्षं प्रति विद्योतते विद्युदितिवच्चिह्नमात्रम्, तथा सतिलक्षणेत्थ॑मित्येव सिद्धेरिति वक्ष्यते । गत्युपसर्गसंज्ञापवाद इति । अनेन क्रियायोगे एव कर्मप्रवचनीयसंज्ञेति सूचितम् । 'कर्मप्रवचनीयाः' इति महासंज्ञाकरणसामर्थ्यादन्वर्थत्वम् । कर्मेति क्रियोच्यते, तां प्रोक्तवन्तः कर्मप्रवचनीयाः, भूते कर्तरि बाहुलकादनीयप्र्रत्ययः, ततश्च क्रियामेव न द्योतयन्ति किंतु क्रियानिरूपितसंबन्धविशेषं द्योतयन्ति । एवं च अनुप्रत्यादिषु क्रियानिरूपितसंबन्धस्य द्योत्यत्वेन अन्वयात्तत्र गत्युपसर्गसंज्ञयोः प्राप्तिर्बोध्या । ##Padamanjari यावतेति। यावताशब्दो निपातो नन्वित्यर्थे। अन्येत्यर्थ इत्यन्ये। लक्षणेत्थभ्भूताख्यानेतिष सिद्धेति। तत्र चावश्यमनोर्ग्रहणं कर्तव्यमिर्त्थभूताख्यानादिषु याथा स्यात्। लक्षणग्रहणं च प्रत्याद्यर्थम्, अतोऽर्थान्तरसंज्ञान्तरसंज्ञान्तरसाधारणत्वातदेवास्तु, इदं तु न कर्तव्यमिति भावः। हेत्वर्थन्त्विति । तु शब्दः पक्षं व्यावर्तयति। हेतुःउ करणम्, अर्थःउ प्रयोजनं प्रयोजकोऽस्य वचनस्येत्यर्थः। ननु च तत्र चात्र च लक्षणग्रहणमेव क्रियते, तद्यदि हेतुर्लक्षणं न भवति, इहापि न गृह्यते, अथ भवति तत्रापि नार्थ एतेन? तत्राह - हेतुतृतीयामिति। सत्यम्; लक्ष्यतेऽनेन तल्लक्षणमु चिह्नं ज्ञापकम्, कारणमपि नियतं कार्यविशेषावगतिहेतुत्वाद् लक्षणं भवत्येव। उक्तं भाष्ये - लक्षणेन हेतुरपि व्याप्तो नावश्यं तदेव लक्षणं येन पुनः पुनर्लक्ष्यते,किं तर्हि? यत्सकृदपि निमितत्वाय कल्पते पदपि लक्षणमिति। किन्तु येन नाप्राप्तिन्यायेन कर्मप्रवचनीययुक्ते द्वितीया षष्ठ।ल एवापवादः। ततश्च लक्षणेत्थंभूतेत्यनोर्लक्षघणे कर्मप्रवचनीयसंज्ञाया अवकाशो यो हेतुर्न भवति-वृक्षमनुविद्योतते, हेतुतृतीयाया अवकाशः- धनेन कुलमिति; हेतुभूते तु लक्षणे उभयप्रसङ्गे परत्वात् तृतीया स्यात्, तामपि बाधित्वा द्वितीयैव यथा स्यात्। पुनः संज्ञाविधाने कक्षान्तरप्राप्तत्वाद् द्वितीयैव तृतीया बाधते। उक्तं च - हेतुहेतुमतोर्योगपरिच्छेदोऽनुना कृते। आरम्भाद्वाध्यते प्राप्ता तृतीया हेतुलक्षणा॥ इति।'तृतीयार्थ' इत्यनेन तु पुरस्तादपवादन्यायेन'सहयुक्ते' प्रधानेऽ इत्यस्यैव बाधः, न हेतुतृतीयाया इति वक्तव्यमेतत्॥