अतिरतिक्रमणे च

1-4-95 अतिः अतिक्रमणे च आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः पूजायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

प्रशंसाम् उत अतिक्रमणं द्योतयितुम् प्रयुक्तः "अति" शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - अति सिक्तं भवता । अति देवान् कृष्णः ।

Kashika

Up

अतिशब्दोऽतिक्रमणे चकारात् पूजायां च कर्मप्रवचनीयसंज्ञो भवति। निष्पन्नेऽपि वस्तुनि क्रियाप्रवृत्तिरतिक्रमणम्। अति सिक्तमेव भवता। अति स्तुतमेव भवता। पूजायाम् — अति सिक्तं भवता। अति स्तुतं भवता। शोभनं कृतमित्यर्थः॥

Siddhanta Kaumudi

Up

अतिक्रमणे पूजायां चातिः कर्मप्रवचनीयसंज्ञः स्यात् । अति देवान् कृष्णः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कर्मप्रवचनीयाः>> 1.4.83 अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं द्वादशं सूत्रम् । अति इति शब्दः यदा प्रशंसाः / स्तुतिः अथवा अतिक्रमणम् अस्मिन् सन्दर्भे प्रयुज्यते, तदा तस्य कर्मप्रवचनीयसंज्ञा भवति इति अस्य सूत्रस्य आशयः । क्रमेण विवरणम् एतादृशम् -
1. प्रशंसा / स्तुतिः प्रशंसां कर्तुम् यदा अति इति शब्दः प्रयुज्यते, तदा तस्य कर्मप्रवचनीयसंज्ञा भवति । यथा - अति सिक्तं भवता (भवता सम्यक् रूपेण सिञ्चनं कृतम् - इत्याशयः) उत अति स्तुतं भवता (भवता साधु स्तुतिः कृता - इत्यर्थः) इति द्वयोः अपि वाक्ययोः विद्यमानः अति इति शब्दः प्रशंसार्थे प्रयुक्तः अस्ति, अतः उभयत्र अस्य शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । एवमेव, अति देवान् कृष्णः इत्यत्र अपि, कृष्णः देवानाम् पूज्यः अस्ति इति अर्थः वर्तते, अतश्च अत्रापि प्रशंसार्थे प्रयुक्तस्य अति इति शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति ।
2. अतिक्रमणम् काशिकायाम् अतिक्रमणम् इत्यस्य अर्थः निष्पन्ने अपि वस्तुनि क्रियाप्रवृत्तिः अतिक्रमणम् इति दत्तः अस्ति । यत्र क्रियापूर्त्तेः अनन्तरम् (इत्युक्ते क्रियायाः उचितं फलं प्राप्य अपि) क्रिया नैव समाप्यते अपि तु क्रियमाणा एव वर्तते, तत्र क्रियायाः अतिक्रमणम् कृतम् अस्ति इति उच्यते । अस्य अतिक्रमणस्य निर्देशार्थम् प्रयुक्तस्य अति इति शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । यथा, अति सिक्तं भवता (भवता अत्याधिकं सिञ्चनं कृतम् - इत्यर्थः) अत्र अतिक्रमणार्थे अति इति शब्दः प्रयुक्तः अस्ति, अस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । सिद्धान्तकौमुद्याम् तु अतिक्रमणम् इति शब्दः क्रियाभिन्नसन्दर्भेषु अपि व्याख्यातः अस्ति । अस्मिन् सन्दर्भे बालमनोरमाकारः अस्य शब्दस्य अर्थम् - उचिताद् आधिक्यम् अतिक्रमणम् इति विदधाति । सामान्यरूपेण यद् अपेक्षितम्, तस्माद् अपि अधिकम् - इति अस्य आशयः । यथा, अति देवान् कृष्णः । प्रपञ्चरक्षणस्य विषये अन्ये देवाः यथा साहाय्यं कुर्वन्ति, तस्य अपेक्षया कृष्णः अत्याधिकं साहाय्यं करोति - इति अस्य वाक्यस्य आशयः वर्तते । अत्र अति इति शब्दः अतिक्रमणं द्योतयितुम् प्रयुक्तः अस्ति, अतः अत्र अस्य शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । अति सिक्तं भवता इत्यत्र उत अति देवान् कृष्णः इत्यादिषु वाक्येषु विद्यमानः अति-शब्दः प्रशंसार्थे वर्तते उत अतिक्रमणार्थे वर्तते इति सन्दर्भात् एव स्पष्टी भवति । प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः द्वे प्रयोजने स्तः -

  • 1. उपसर्गसंंज्ञायाः बाधः - प्रकृतसूत्रेण उक्ता कर्मप्रवचनीयसंज्ञा एकसंज्ञाधिकारात् उपसर्गसंज्ञां बाधते । यथा, अति सिक्तम् इत्यत्र अति इति शब्दः यद्यपि प्रादिगणे विद्यमानः, तथा च क्रियायोगे प्रयुक्तः अस्ति, तथापि तस्य <<उपसर्गाः क्रियायोगे>> 1.4.59 इत्यनेन विहिता उपसर्गसंज्ञा एकसंज्ञाधिकारात् प्रकृतसूत्रेण दत्तया कर्मप्रवचनीयसंज्ञया बाध्यते । यदि अस्य उपसर्गसंज्ञा अभविष्यत्, तर्हि सिक्तम् इत्यस्य सकारस्य <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् >> 8.3.65 इत्यनेन अनिष्टं षत्वम् अभविष्यत् । तद् बाधितुम् एव प्रकृतसूत्रेण अस्य शब्दस्य कर्मप्रवचनीयसंज्ञा कृता अस्ति । कर्मप्रवचनीयसंज्ञायां कृतायाम्, एकसंज्ञाधिकारात् उपसर्गसंज्ञायाः बाधः भवति, येन सकारस्य अनिष्टं षत्वम् अपि निवार्यते ।
  • 2. द्वितीयाविभक्तिविधानम् - अति देवान् कृष्णः अस्मिन् उदाहरणे कर्मप्रवचनीयसंज्ञाविधानसामर्थ्यात् <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन देवपदार्थस्य निर्देशार्थम् द्वितीया विभक्तिः विधीयते । ##Balamanorama <<अतिरतिक्रमणे च>> - अतिरतिक्रमणे च । चकारात्पूजायामिति समुच्चीयत #इत्याह — पूजायां चेति । अतिक्रमणम्-उचितादाधिक्यम् । अति देवान् कृष्ण इति । प्रपञ्चसंरक्षणविषये देवेभ्योऽधिकः कृष्ण इत्यर्थः । देवानां पूज्य इति वा । आद्यऽर्थे 'कुगतिप्रादयः' इति समासो न,स्वती पूजायामि॑ति नियमात् । द्वितीये त्वनभिधानान्नेत्याहुः । ##Padamanjari