तृतीयार्थे
1-4-85 तृतीयार्थे आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः अनुः
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
तृतीयाविभक्तेः अर्थम् (इत्युक्ते "सह / योगे" इति अर्थम्) द्योतयितुम् प्रयुक्तः "अनु" इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - नदीम् अन्ववसिता सेना ।
Kashika
Up
अनुशब्दस्तृतीयार्थे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति। नदीमन्ववसिता सेना। पर्वतमन्ववसिता सेना। पर्वतेन संबद्धेत्यर्थः॥
Siddhanta Kaumudi
Up
अस्मिन्द्योत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववसिता सेना । नद्या सह संबद्धेत्यर्थः ॥ षिञ् बन्धने क्तः ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<कर्मप्रवचनीयाः>> 1.4.83 अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं द्वितीयं सूत्रम् । अनु इत्यस्य शब्दस्य अनेन सूत्रेण कर्मप्रवचनीयसंज्ञा भवति । अनु इति शब्दः यदा तृतीयाविभक्तेः अर्थं द्योतयितुम् प्रयुज्यते, तदा सः कर्मप्रवचनीयसंज्ञः भवति - इति प्रकृतसूत्रस्य आशयः । तृतीयाविभक्तेः अर्थः इत्यनेन प्रकृतसूत्रस्य सन्दर्भे सह / सम्बन्धेन / योगे इति अर्थः स्वीक्रियते । अस्मिन् अर्थे विद्यमानस्य अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति । तथा च येन पदार्थेन सह योगः विद्यते, तस्य निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयाविभक्तिः उपयुज्यते । अस्य द्वे उदाहरणे एतादृशे -
1. पर्वतम् अन्ववसिता सेना । सेना पर्वतस्य साहाय्येन अतिष्ठत् - इति अर्थः । अत्र अनु इति शब्देन सेनायाः पर्वतेन सह योगः निर्दिष्टः अस्ति । अतः अत्र अनु इत्यस्य कर्मप्रवचनीयसंज्ञा भवति । अपि च, एतादृशस्य कर्मप्रवचनीयस्य योगे पर्वतपदार्थस्य <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयाविभक्त्या निर्देशः भवति ।
2. नदीम् अन्ववसिता सेना । सेना नद्याः किनारे अतिष्ठत्- इति अर्थः ।
अत्र द्वयोः अपि उदाहरणयोः अन्ववसिता इत्यस्य विग्रहः अनु + अव + षिञ् (बन्धने) + क्त इति अस्ति । अत्र अव इति उपसर्गसंज्ञकः अस्ति । अनु इति तु कर्मप्रवचनीयसंज्ञकः अस्ति ।
कर्मप्रवचनीयसंज्ञकः शब्दः तथा च तस्मात् अग्रे विद्यमानः क्रियावाचकः शब्दः - एतयोर्मध्ये संहिता वैकल्पिकी एव अस्ति । अतः पर्वतम् अनु अवसिता सेना इति लिख्यते चेदपि नैव दोषाय ।
प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्
प्रकृतसूत्रेण पाठितायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् अस्ति <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयाविभक्तिविधानम् इति । अनु इति कर्मप्रवचनीयस्य प्रयोगे "यस्य योगे / यस्य सम्बन्धेन" तृतीयार्थः विधीयते, तस्य <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयाविभक्तिः भवति । अतएव उपरि उदाहरणयोः - पर्वतम् तथा च नदीम् इत्येतौ शब्दौ द्वितीयाविभक्तौ प्रयुक्तौ स्तः । इयं द्वितीया विभक्तिः <<सहयुक्तेऽप्रधाने>> 2.3.19 इत्यनेन प्राप्तां तृतीयाविभक्तिं सूत्रविधानसामर्थ्यात् बाधते । इत्युक्ते, यदि पर्वतम् अन्ववसिता सेना इत्यत्र <<सहयुक्तेऽप्रधाने>> 2.3.19 इत्यनेन परत्वात् तृतीया एव विधीयेत, तर्हि <<तृतीयार्थे>> 1.4.86 इत्यनेन विहिता कर्मप्रवचनीयसंज्ञा निष्प्रयोजना स्यात् । अतः <<तृतीयार्थे>> 1.4.86 इति सूत्रस्य विधानम् एव इदं स्पष्टी करोति यत् प्रकृतसूत्रस्य उदाहरणेषु द्वितीया विभक्तिः एव प्रयोक्तव्या - इति ।
##Balamanorama
<<तृतीयाऽर्थे>> - तृतीयार्थे । अनुरित्यनुवर्तते । 'कर्मप्रवचनीयाः' इत्यधिकृतम् । अस्मिन्द्योत्ये इति । 'सहयुक्तेऽप्रधाने' इति तृतीयार्थे साहित्ये द्योत्ये इत्यर्थः । अत्र 'तृतीयार्थे' इत्यनेन कर्तृकरणे न गृह्रेते,रामेण शरेणानुहतो वाली॑त्यत्रउपपदविभक्तेः कारकविभक्तिर्बलीयसी॑ इति न्यायेन तृतीयाया एव प्रवृत्त्या अस्याः संज्ञायाः फलाऽभावात् । नापि 'येनाङ्गविकारः' इति तृतीयार्थोऽत्र विवक्षितः,अनन्तरस्ये॑ति न्यायेनकर्मप्रवचनीययुक्ते द्वितीया॑ इत्यस्य 'सहयुक्तेऽप्रधाने' इत्यस्यैव बाधकत्वात् । तदाह-नद्या सह संबद्धेति । साहित्यं द्वितीयार्थः, अनुस्तद्ध्योतक इति भावः । नन्ववसितशब्दस्य अवपूर्वात् 'षो अन्तकर्मणि' इति धातोरुत्पन्नत्वात्कथमुक्तार्थलाभ इत्यत आह-षिञ्बन्धने क्त इति । उपसर्गबलेन संबन्धवृत्तेरस्मात्क्तप्रत्यय इत्यर्थः । अत्र यदवश्यं पुनः पुनर्लक्ष्यस्य ज्ञापकं तदेव न लक्षणम्, किंतु सकृज्ज्ञापकमपि । यथा यं कमण्डलुना भवानद्राक्षीत्, स छात्र इति । सकृदेव हि कमण्डलुपाणिर्दृष्टः, तस्य कमण्डलुर्लक्षणमिति 'अनुर्लक्षणे' इत्यत्र भाष्ये स्पष्ठम् । तेन व्याप्यात्मकलिङ्गमेवात्र लक्षममिति न भ्रमितव्यम् ।
##Padamanjari
नदीमन्ववसितेति। सहार्थोऽत्र तृतीयार्थः। अन्ववपूर्वात्ठ्षिञ् बन्धनेऽ इत्यस्मात् कर्तरि क्तः॥