सुः पूजायाम्
1-4-94 सुः पूजायाम् आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः
Sampurna sutra
Up
Neelesh Sanskrit Brief
Up
प्रशंसां कर्तुं प्रयुक्तः "सु" शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - सु सिक्तं भवता ।
Kashika
Up
सुशब्दः पूजायामर्थे कर्मप्रवचनीयसंज्ञो भवति। सु सिक्तं भवता। सु स्तुतं भवता। धात्वर्थः स्तूयते। उपसर्गसंज्ञाश्रयं षत्वं न भवति। पूजायामिति किम्? सुषिक्तं किं तवात्र॥
Siddhanta Kaumudi
Up
सुसिक्तम् । सुस्तुतम् । अनुपसर्गत्वान्न षः । पूजायां किम् ? सुषिक्तं किं तवाऽत्र । क्षेपोऽयम् ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
<<कर्मप्रवचनीयाः>> 1.4.83 अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं एकादशं सूत्रम् । सु इति शब्दः यदा प्रशंसाः / स्तुतिः अस्मिन् सन्दर्भे प्रयुज्यते, तदा तस्य कर्मप्रवचनीयसंज्ञा भवति इति अस्य सूत्रस्य आशयः । यथा, सु सिक्तं भवता (भवता सम्यक् रूपेण सिञ्चनं कृतम् - इत्याशयः) उत सु स्तुतं भवता (भवता साधु स्तुतिः कृता - इत्यर्थः) इति द्वयोः अपि वाक्ययोः विद्यमानः सु इति शब्दः प्रशंसार्थे प्रयुक्तः अस्ति, अतः उभयत्र अस्य शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति ।
प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम्
प्रकृतसूत्रेण उक्तया कर्मप्रवचनीयसंज्ञया एकसंज्ञाधिकारात् उपसर्गसंज्ञायाः बाधः भवति । इत्युक्ते,
सु सिक्तम् तथा च
सु स्तुतम् इति द्वयोः अपि उदाहरणयोः
सु इति शब्दः यद्यपि प्रादिगणे विद्यमानः, तथा च क्रियायोगे प्रयुक्तः अस्ति, तथापि तस्य <<उपसर्गाः क्रियायोगे>>
1.4.59 इत्यनेन विहिता उपसर्गसंज्ञा एकसंज्ञाधिकारात् प्रकृतसूत्रेण दत्तया कर्मप्रवचनीयसंज्ञया बाध्यते । यदि अस्य उपसर्गसंज्ञा अभविष्यत्, तर्हि उभयत्र <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् >>
8.3.65 इत्यनेन धातोः आदिस्थस्य सकारस्य (इत्युक्ते
सिक्तम् तथा
स्तुतम् इत्येतयोः आदिस्थसकारस्य) अनिष्टं षत्वम् अभविष्यत् । तद् बाधितुम् प्रकृतसूत्रेण अस्य शब्दस्य कर्मप्रवचनीयसंज्ञा कृता अस्ति । कर्मप्रवचनीयसंज्ञायां कृतायाम्, एकसंज्ञाधिकारात् उपसर्गसंज्ञायाः बाधः भवति, येन सकारस्य अनिष्टं षत्वम् अपि निवार्यते ।
पूजायाम् इति किमर्थम् ?
यदि प्रशंसा इति अर्थः नास्ति, तर्हि प्रकृतसूत्रस्य प्रयोगः न भवति । यथा,
सुषिक्तं किं तव अत्र ? (किम् इदं तव साधु सिञ्चनम् अस्ति वा ? - इत्यर्थः) अस्मिन् वाक्ये यद्यपि
सु इति शब्दः
शोभनम् अस्मिन् अर्थे प्रयुक्तः अस्ति, तथापि अत्र प्रशंसा न क्रियते (अपितु परिहासः / प्रश्नः क्रियते) अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति । इत्युक्ते, अत्र
सु इत्यस्य कर्मप्रवचनीयसंज्ञा न भवति । किञ्च, कर्मप्रवचनीयसंज्ञायाः अभावात् उपसर्गसंज्ञां प्राप्य <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् >>
8.3.65 इत्यनेन धातोः आदिस्थस्य सकारस्य षत्वम् कृत्वा
सुषिक्तम् इत्येव प्रयोगः सिद्ध्यति ।
Balamanorama
Up
<<सुः पूजायाम्>> - सुः पूजायाम् । 'कर्मप्रवचनीय' इति शेषः । सु सिक्तं सु स्तुतमिति । अत्र सोः कर्मप्रवचनीयत्वे प्रयोजनमाह — अनुपसर्गत्वान्न ष इति ।उपसर्गात्सुनोतीत्यनेने॑ति शेषः । पूजायां किमिति । सुना पूजाया नित्यं प्रतीतेः प्रश्नः । सुषिक्तं किं [स्यात्]तवात्रेति । त्वया सम्यक् सिक्तं, किन्त्वत्रास्मिन् सुसेके कृते सति सेक्तुस्तव किं, न किञ्चिदपीत्यर्थः । क्षेपोऽयमिति । निन्दाऽत्र गम्यत इत्यर्थः । सेकक्रियाकर्तुः पूज्यत्वे गम्य एवात्र कर्मप्रवचनीयत्वम् । तदभावात्उपसर्गात्सुनोती॑ति षत्वमिति भावः ।
Padamanjari
Up
सुसिक्तं भवतेति। भवच्छब्दात्कर्तरि तृतीया। कर्मप्रवचनीययुक्ते द्वितीया न भवति; ठुपपदविभक्तेः कारकविभक्तिर्बलीयसीऽ इति। सुषिक्तं किं तवात्रेति। क्षेपोऽयम्, न पूजा॥