पञ्चम्यपाङ्परिभिः

2-3-10 पञ्चमि अपाङ्परिभिः अनभिहिते अत्यन्तसंयोगे कर्मप्रवचनीययुक्ते

Kashika

Up

index: 2.3.10 sutra: पञ्चम्यपाङ्परिभिः


अप आङ् परि इत्येतैः कर्मप्रवचनीयैर्योगे पज्चमी विभक्तिर्भवति। अप त्रिगर्तेभ्यो वृष्टो देवः। आ पाटलिपुत्राद् वृष्टो देवः। परि त्रिगर्तेभ्यो वृष्टो देवः। अपेन साहचर्यात् परेर्वर्जनार्थस्य ग्रहणम्, तेन इह न भवति, वृक्षं परि विद्योतते विद्युत्।

Siddhanta Kaumudi

Up

index: 2.3.10 sutra: पञ्चम्यपाङ्परिभिः


एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । अप हरेः, परि हरेः संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिं परि । आमुक्तेः संसारः । आसकलात् ब्रह्म ॥

Balamanorama

Up

index: 2.3.10 sutra: पञ्चम्यपाङ्परिभिः


पञ्चमी अपाङ्परिभिः - पञ्चम्यपाङ्परिभिः । एतैरिति । अप आङ् परि-इत्येतैरित्यर्थः । कर्मप्रवचनीयैरिति ।कर्मप्रवचनीययुक्ते॑ इत्यतस्तदनुवृत्तेरिति भावः । अप हरेः परि हरेः संसार इति । अपहरेः संसारः, परिहरेः संसार इत्यन्वयः । हरिं वर्जयित्वा जनिमृतिचक्रात्मकं संसरणमित्यर्थः । ननुवृक्षं प्रति विद्योतते॑, 'भक्तो हरिं प्रति' इत्यादौलक्षणेत्थंभूते॑ति कर्मप्रवचनीयत्वात्कर्मप्रवचनीययुक्ते द्वितीया॑ इति द्वितीयां परत्वादपवादत्वाच्च बाधित्वापञ्चम्यपाङ्परिभि॑रिति पञ्चमी स्यादित्यत आह — परिरत्रेति 'पञ्चम्यपाङ्परिभिः' इत्यत्र वर्जनार्थकेनाऽपेन साहचर्यात् परिरपि वर्जनार्थकं एव गृह्रत इत्यर्थः । आ मुक्तेरिति । मुक्तेः प्रागिति यावत् । आ सकलादिति । ब्राहृ सकलमभिव्याप्य वर्तत इत्यर्थः ।