अभिरभागे

1-4-91 अभिः अभागे आ कडारात् एका सञ्ज्ञा निपाताः कर्मप्रवचनीयाः लक्षणेत्थंभूताख्यानभागवीप्सासु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

लक्षणम्, इत्थम्भूताख्यानम्, तथा च वीप्सा - एतेषु सन्दर्भेषु प्रयुक्तः "अभिः" इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । यथा - वृक्षम् अभि विद्योतते विद्युत् । देवदत्तः मातरम् अभि साधु । लक्ष्मीः हरिम् अभि । वृक्षं वृक्षम् अभि सिञ्चति ।

Kashika

Up

लक्षणादिष्वेव भागवर्जितेष्वभिः कर्मप्रवचनीयसंज्ञो भवति। वृक्षमभि विद्योतते। साधुर्देवदत्तो मातरमभि। वृक्षंवृक्षमभि सिञ्चति । अभाग इति किम्? भागः स्वीक्रियमाणोऽशः। यदत्र ममाभिष्यात् तद् दीयताम्। यदत्र मम भवति तद् दीयतामित्यर्थः॥

Siddhanta Kaumudi

Up

भागवर्जे लक्षणादावभिरुक्तसञ्ज्ञः स्यात् । हरिमभि वर्तते । भक्तो हरिमभि । देवं देवमभि सिञ्चति । अभागे किम् ? यदत्र ममाभिष्यात्तद्दीयताम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कर्मप्रवचनीयाः>> 1.4.83 अस्मिन् अधिकारे आहत्य पञ्चदशभिः सूत्रैः कर्मप्रवचनीयसंज्ञायाः विधानं क्रियते । तेषु इदं सप्तमं सूत्रम् । अभि इति शब्दस्य यदा लक्षणम् , इत्थम्भूताख्यानम्, तथा च वीप्सा - एतेषु सन्दर्भेषु प्रयोगः भवति तदा तस्य कर्मप्रवचनीयसंज्ञा भवति इति अस्य सूत्रस्य आशयः । क्रमेण विवरणम् एतादृशम् -
1. लक्षणम् अस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा व्याख्यानेषु लक्षणम् इति शब्दस्य अर्थः लक्ष्यते चिह्न्यते येन तत् लक्षणम् इति दीयते । सरलभाषायाम्, लक्षणम् इति शब्देन अत्र - कस्यचित् पदार्थस्य आधारेण दिशायाः सङ्केतः - इति स्वीकृतः अस्ति । एतादृशस्य सङ्केतस्य सन्दर्भे अभि इति शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति । यस्य पदार्थस्य आधारेण दिशायाः सङ्केतः दीयते, तस्य निर्देशः लक्षणम् इति शब्देन भवति, तथा च एतादृशस्य लक्षणस्य निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयाविभक्तिः प्रयुज्यते । कानिचन उदाहरणानि एतानि -

  • 1. देवदत्तः ग्रामम् अभि गच्छति । देवदत्तः "ग्रामस्य दिशि गच्छति" इति आशयः । अत्र दिशायाः सन्दर्भेण प्रयुक्तः अभि इति शब्दः प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञकः भवति, तथा च तस्य योगे विद्यमानस्य ग्रामपदार्थस्य निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीया विभक्तिः उपयुज्यते ।
  • 2. रामः रावणम् अभि शरान् क्षिपति । रामः रावणस्य दिशि (रावणं लक्ष्यीकृत्य) शरान् क्षिपति - इत्यर्थः ।
  • 3. शलभाः अग्निम् अभि पतन्ति । शलभाः अग्निं चिह्नीकृत्य तस्य दिशि एव डयन्ते - इति आशयः ।
  • 4. वृक्षम् अभि विद्योतते विद्युत् । विद्युत् वृक्षस्य दिशि विद्योतते - इत्यर्थः ।
    2. इत्थम्भूताख्यानम् अस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा इत्थम्भूताख्यानम् इति शब्दस्य अर्थः व्याख्यानेषु कञ्चित् प्रकारम् आपन्नम् इत्थम्भूतम्, तस्य आख्यानम् इत्थम्भूताख्यानम् - इति दीयते । सरलभाषायाम्, कस्यचित् विषयस्य सन्दर्भेण प्राप्ता स्थितिः इत्थम्भूतम् नाम्ना ज्ञायते, तथा च अस्याः स्थितेः ज्ञापनम् इत्थम्भूताख्यानम् इत्यनेन निर्दिश्यते । एतादृशस्य इत्थम्भूताख्यानस्य निर्देशार्थम् प्रयुक्तस्य अभि इति शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति, तथा यस्य विषयस्य सन्दर्भेण इयं स्थितिः भवति तस्य निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयाविभक्तिः प्रयुज्यते । कानिचन उदाहरणानि एतानि -
  • 1. मातरम् अभि साधु । कस्यचन देवदत्तस्य मनसि मातुः विषये साधुभावः विद्यते चेत्, अत्र - (1) विषयः = मातृपदार्थः, (2) स्थितिः = साधुत्वम्, (3) इत्थम्भूतम् = मातुः विषये साधुभावः, तथा च (4) इत्थम्भूताख्यानम् = मातुः विषये साधुभावस्य निर्देशः । अस्यैव इत्थम्भूताख्यानस्य निर्देशार्थम् अत्र प्रयुक्तः अभि इति शब्दः कर्मप्रवचनीयसंज्ञकः भवति । अपि च, विषयस्य (इत्युक्ते मातृपदार्थस्य) निर्देशार्थम् <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयाविभक्तिः उपयुज्यते, अतश्च अत्र वाक्ये मातरम् इति प्रयोगः कृतः अस्ति ।
  • 2. हरिम् अभि भक्तः । हरेः विषये कस्यचन देवदत्तस्य मनसि विद्यमानायाः भक्तेः आख्यानम् अत्र कर्मप्रवचनीयशब्देन कृतम् अस्ति ।
  • 3. दुर्योधनम् अभि क्रुद्धः । दुर्योधनस्य विषये भीमस्य मनसि विद्यमानस्य क्रोधस्य आख्यानम् अत्र कर्मप्रवचनीयशब्देन क्रियते ।
    3. वीप्सा अस्मिन् अर्थे कर्मप्रवचनीयसंज्ञा वीप्सा इति शब्दस्य अर्थः व्याख्यानेषु पदार्थान् व्याप्तुम् इच्छा वीप्सा - इति दीयते । सरलभाषायाम्, यदा एका एव क्रिया एकप्रकारस्य सर्वेषाम् अपि वस्तूनां कृते भवति, तदा तस्याः निर्देशः वीप्सा इत्यनेन क्रियते । अस्याः वीप्सायाः सन्दर्भेण अभि इति शब्दस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा भवति, तथा च येषाम् पदार्थानां विषये वीप्सा उच्यते, तेषां निर्देशः <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयाविभक्त्या क्रियते । किञ्च, <<नित्यवीप्सयोः>> 8.1.4 इत्यनेन एतेषां शब्दानां द्वित्वम् अपि विधीयते । द्वे उदाहरणे एते -
  • 1. वृक्षं वृक्षम् अभि सिञ्चति । अत्र प्रत्येकं वृक्षस्य सन्दर्भेण सिञ्चनक्रिया कृता अस्ति, अतः वृक्षपदार्थस्य निर्देशः <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीयाविभक्त्या भवति । किञ्च, <<नित्यवीप्सयोः>> 8.1.4 इत्यनेन वृक्षपदार्थस्य द्वित्वम् अपि कृतम् अस्ति । कर्मप्रवचनीयसंज्ञकः अभिशब्दः अत्र अस्याः वीप्सायाः क्रियया सह सम्बन्धं प्रदर्शयितुम् प्रयुज्यते ।
  • 2.गृहं गृहम् अभि पश्यति । अत्र प्रत्येकं गृहस्य विषये दर्शनक्रिया कृता अस्ति इति आशयः वर्तते । सूत्रे प्रयुक्तस्य <hl>अभागे </hl> इति शब्दस्य अर्थः प्रकृतसूत्रे विद्यमानस्य अभागे इति पदस्य अन्वयः पूर्वसूत्रे विद्यमानेन लक्षणेत्थम्भूताख्यानभागवीप्सासु इति शब्देन सह भवति । पूर्वसूत्रे लक्षणेत्थम्भूताख्यानभागवीप्सासु इति शब्देन लक्षणम्, इत्थम्भूताख्यानम्, भागः तथा च वीप्सा - एते ये चत्वारः विषयाः उक्ताः सन्ति, तेभ्यः भागः इति विषयं वर्जयित्वा अन्येषाम् विषयाणाम् सन्दर्भेण अभि-शब्दस्य कर्मप्रवचनीयसंज्ञा भवति, इति स्पष्टीकर्तुम् प्रकृतसूत्रे अभागे इति पदं स्थापितम् वर्तते । भागस्य सन्दर्भेण प्रयुक्तस्य अभि-शब्दस्य कर्मप्रवचनीयसंज्ञा न भवति - इति अत्र आशयः । यथा, यद् अत्र मम अभिष्यात् तद् दीयताम् अस्मिन् वाक्ये भागस्य सन्दर्भे प्रयुक्तस्य अभि-शब्दस्य कर्मप्रवचनीयसंज्ञा न भवति, अतश्च तस्य उपसर्गसंज्ञां कृत्वा <<उपसर्गप्रादुर्भ्यामस्तिर्यच्परः>> 8.3.87 इत्यनेन सकारस्य षत्वम् अपि कृतं दृश्यते । कर्मप्रवचनीयसंज्ञकः <ex>अभि</ex>-शब्दः अत्र <hl>सम्बन्धस्य</hl> द्योतकः प्रकृतसूत्रेण उक्तः अभि इति कर्मप्रवचनीयसंज्ञकः लक्षणादीन् अर्थान् नैव निर्दिशति, अपितु सम्बन्धमात्रस्य निर्देशं करोति। यथा - 1. लक्षणम् - वृक्षम् अभि विद्योतते विद्यत् इत्यत्र लक्षणम् वृक्षपदार्थः अस्ति । अभि इति कर्मप्रवचनीयसंज्ञकशब्देन अत्र वृक्षस्य विद्युता सह विद्यमानः लक्ष्यलक्षणसम्बन्धः ज्ञाप्यते । 2. इत्थंभूताख्यानम् - मातरम् अभि साधु इत्यत्र इत्थम्भूताख्यानम् मातृसम्बन्धी साधुत्वनिर्देशः इति अस्ति । अभि इति कर्मप्रवचनीयसंज्ञकशब्देन अत्र माता तथा साधुत्वभावः एतयोर्मध्ये विद्यमानः विषयविषयिभावसम्बन्धः ज्ञाप्यते । 3. वीप्सा - वृक्षं वृक्षम् अभि सिञ्चति इत्यत्र वीप्सायाः निर्देशः द्वित्वेन कृतः अस्ति । अभि इति कर्मप्रवचनीयसंज्ञकशब्देन अत्र वृक्षः तथा च सेचनक्रिया इत्येतयोर्मध्ये विद्यमानः साध्यसाधनभावसंबंधः ज्ञाप्यते । प्रकृतसूत्रेण उक्तायाः कर्मप्रवचनीयसंज्ञायाः प्रयोजनम् प्रकृतसूत्रेण पाठिता कर्मप्रवचनीयसंज्ञा द्वितीयाविभक्तिविधानार्थम् तथा च उपसर्गसंज्ञाप्रतिषेधार्थम् प्रयुज्यते । तदित्थम् - वृक्षं वृक्षम् अभि सिञ्चति इत्यस्मिन् वाक्ये प्रति इत्यस्य कर्मप्रवचनीयत्वात् तस्य योगे विद्यमानस्य वृक्षशब्दस्य <<कर्मप्रवचनीययुक्ते द्वितीया>> 2.3.8 इत्यनेन द्वितीया विभक्तिः भवति । किञ्च, अस्यैव अभि इत्यस्य कर्मप्रवचनीयत्वात् एकसंज्ञाधिकारेण तस्य उपसर्गत्वं प्रतिषिध्यते, येन <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् >> 8.3.65 इत्यनेन सिञ्चति इत्यस्य सकारस्य अनिष्टं षत्वम् अपि न भवति । लक्षणस्य सन्दर्भेण <hl>अभि<hl> इत्यनेन सह अव्ययीभावसमासः लक्षणस्य सन्दर्भेण अभि इति कर्मप्रवचनीयस्य <<लक्षणेनाभिप्रती आभिमुख्ये>> 2.1.14 इत्यनेन विकल्पेन अव्ययीभावसमासः अपि सम्भवति । यथा - अग्निम् अभि शलभाः पतन्ति इत्यत्र अग्निः इत्यस्य अभि इत्यनेन सह अव्ययीभावसमासं कृत्वा अभ्यग्निं शलभाः पतन्ति इति प्रयोगः अपि सम्भवति । एवमेव ग्रामम् अभि गच्छति इत्यत्र विकल्पेन अव्ययीभावसमासं कृत्वा अभिग्रामं गच्छति इति प्रयोगः सिद्ध्यति । लक्षणादिषु एव किमर्थम्? यत्र अभि इति शब्दः लक्षणादीन् त्रीन् अर्थान् विहाय अन्येषु अर्थेषु प्रयुज्यन्ते, तत्र प्रकृतसूत्रेण तस्य कर्मप्रवचनीयसंज्ञा न भवति । यथा -
  • 1. जलेन अभिषिञ्चति इत्यत्र अभि इत्यस्य सर्वतः इत्यस्मिन् अर्थे प्रयोगः कृतः अस्ति । अयम् अर्थः लक्षणादिभ्यः भिन्नः, अतः अस्मिन् अर्थे अभि इत्यस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा न भवति । अपितु, अत्र अभि इत्यस्य उपसर्गसंज्ञा भवति, यस्य सामर्थ्यात् <<उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् >> 8.3.65 इत्यनेन सिञ्चति इत्यस्य सकारस्य षत्वम् अपि कृतं दृश्यते ।
  • 2. यद् अत्र मम अभिष्यात् तद् दीयताम् अस्मिन् वाक्ये अभि इत्यस्य भागः अस्मिन् सन्दर्भे प्रयोगः कृतः अस्ति । अस्मिन् सन्दर्भे अस्य प्रकृतसूत्रेण कर्मप्रवचनीयसंज्ञा न भवति; अतश्च तस्य उपसर्गसंज्ञां कृत्वा <<उपसर्गप्रादुर्भ्यामस्तिर्यच्परः>> 8.3.87 इत्यनेन सकारस्य षत्वम् अपि कृतं दृश्यते । ##Balamanorama <<अभिरभागे>> - अभिरभागे । लक्षणादाविति । आदिना इत्थम्भूताख्यानवीप्सयोः सङ्ग्रहः । लक्षणे उदाहरति — हरिमभि वर्तत इति । जयः क्वेति प्रश्ने इदमुत्तरम् । लक्ष्यभावोऽभिद्योत्यो द्वितीयार्थः । हरिलक्ष्यो जय इत्यर्थः । भक्तो हरिमभीति । इत्थम्भूताख्याने उदाहरणमिदम् । विषयतासंबन्धोऽभिद्योत्यो द्वितीयार्थः । हरिविषयकभक्तिमानित्यर्थः । वीप्सायामुदाहरति-देवं देवमभि सिञ्चतीति । कार्त्स्न्यसंबन्धात्मिका व्याप्तिर्द्वितीयार्थः, अभिद्योत्यश्च । कृत्स्नं देवमभि सिञ्चतीत्यर्थः । षत्वाऽभावादिपूर्ववत् । यदत्रेति । बहूनां द्रव्यं तण्डुलादि यत्र संसृष्टं तत्रेदं वाक्यम् । स्वस्वाभिभावः षष्ठर्थः । अभिस्तद्द्योतकः । अत्र संसृष्टद्रव्ये यद्वस्तु मम स्वभूतं स्यात्तन्मह्रं दीयतामित्यर्थः । स्यादित्यस्तेर्लिङि रूपम् । अत्र मम भाग इत्यर्थतः पर्यवसानादभाग इति कर्मप्रवचनीयत्वपर्युदासादुपसर्गत्वस्य निर्बाधत्वात्उपसर्गप्रादुभ्र्यामस्तिर्यच्परः॑ इति षत्वम् । ##Padamanjari अभागैति किमिति। अभिधेयं प्रयोजनं च परिज्ञातुं प्रश्नः। अत एवोभयं दर्शयति । भागः स्वीक्रियमाणाआऽशः। यदत्र ममाभिष्यादिति। ननु अन्वर्थसंज्ञाविज्ञानादेवात्र न भविष्यति, संप्रत्येव ह्यसौ विभजनक्रियां द्योतयति? प्रत्यादीनामपि तर्हि न स्याद्? वचनाद्भविष्यति। अभेरपि तर्हि प्राप्नोति, तस्माद् ठभागेऽ इति वक्तव्यम्, तत्रोपसर्गत्वात् ठुपसर्गप्रादुर्भ्यामस्तिर्यच्परःऽ इति षत्वम्। अथैवं कस्मान्न कृतम् -'लक्षणेत्थंभूताख्यानवीप्सास्वभिः, प्रतिपरी भागे च, चकाराल्लक्षणादिषु च, अनुर्लक्षणतृतीयार्थयोश्च, चकाराद्भागे लक्षणादिषु च, ततो हीने, उपो' धिके चऽ; इत्येवं हि द्विरनोर्ग्रहणम्, अभाग इति च न वक्तव्यं भवति। एवं हि द्विश्चग्रहणं क्रियते इति पदयोः साम्यम्, अक्षरलाघवं तु नाद्दतम्॥