1-1-38 तद्धितः च असर्वविभक्तिः अव्ययम्
index: 1.1.38 sutra: तद्धितश्चासर्वविभक्तिः
असर्वविभक्तिः तद्धितः अव्ययम्
index: 1.1.38 sutra: तद्धितश्चासर्वविभक्तिः
यस्मात् तद्धितान्तशब्दात् सर्वे विभक्तिप्रत्ययाः न विधीयन्ते, तस्य 'अव्यय' इति संज्ञा भवति ।
index: 1.1.38 sutra: तद्धितश्चासर्वविभक्तिः
A तद्धितान्त word to which all the विभक्तिप्रत्ययाः cannot be attached is known as 'अव्यय'.
index: 1.1.38 sutra: तद्धितश्चासर्वविभक्तिः
तद्धितान्तः शब्दोऽसर्वविभक्तिः अव्ययसंज्ञो भवति । यस्मात् न सर्वविभक्तेरुत्पत्तिः सोऽसर्वविभक्तिः । ततः, यतः ; तत्र, यत्र ; तदा, यदा, सर्वदा, सदा । तद्धितः इति किम् ? एकः, द्वौ, बहवः । असर्वविभक्तिः इति किम् ? औपगवः, औपगवौ, औपगवाः ॥
index: 1.1.38 sutra: तद्धितश्चासर्वविभक्तिः
यस्मात्सर्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् । तसिलादयः प्राक् पाशपः । शस्प्रभृतयः प्राक् समासान्तेभ्यः । अम् । आम् । कृत्वोर्थाः । तसिवती । नानाञाविति । तेनेह न । पचतिकल्पम् । पचतिरूपम् ॥
index: 1.1.38 sutra: तद्धितश्चासर्वविभक्तिः
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । स्वरादिनिपातमव्ययम् 1.1.37 इत्यस्मात् सूत्रात् अव्ययीभावश्च 1.1.41 इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं द्वितीयम् सूत्रम् । विशिष्टानाम् तद्धितप्रत्ययान्तशब्दानाम् अनेन सूत्रेण अव्ययसंज्ञा दीयते ।
तद्धिताधिकारे निर्दिष्टाः केचन तद्धितप्रत्ययाः यदा प्रातिपदिकेभ्यः विधीयन्ते, तर्हि तत्र निर्मितेभ्यः नूतनप्रातिपदिकेभ्यः सङ्ख्यात्वस्य अभावात् द्विवचन-बहुवचनस्य विभक्तिप्रत्ययाः न भवन्ति । एतेभ्यः औत्सर्गिकरूपेण केवलं एकवचनस्यैव विभक्तिप्रत्ययाः भवन्ति । अतएव एतेषां निर्देशः अत्र 'असर्वविभक्तिः' इत्यनेन क्रियते ।
एतादृशाः सर्वे शब्दाः येभ्यः द्विवचन-बहुवचन-प्रत्ययाः न विधीयन्ते ते प्रकृतसूत्रेण 'अव्यय'संज्ञां स्वीकुर्वन्ति ।
यैः तद्धितप्रत्ययैः अव्ययस्य निर्माणं भवति तेषाम् सूत्राणाम् आवली एतादृशी वर्तते -
तसिश्च 4.3.113 इत्यनेन विहितः 'तसि'प्रत्ययः येषाम् अन्ते वर्तते, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - सुदामतः, हिमवत्तः - आदयः । अयम् प्रत्ययः सर्वेभ्यः प्रातिपदिकेभ्यः पञ्च्यमर्थे विधीयते, अतः अनेन सूत्रेण अनेकानि नूतनानि अव्ययानि सिद्ध्यन्ति ।
तेन तुल्यं क्रिया चेद्वतिः 5.1.115, तत्र तस्येव 5.1.116, तदर्हम् 5.1.117 एतैः सूत्रैः उक्तः 'वति'प्रत्ययः येषाम् अन्ते विद्यते, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - ब्राह्मणवत्, क्षत्रियवत् - आदयः । अनेन अपि सूत्रेण बहूनि नूतनानि अव्ययानि सिद्ध्यन्ति ।
विनञ्भ्यां नानाञौ नसह 5.2.27 अनेन विहितः ना-प्रत्ययः नञ्-प्रत्ययः च येषाम् अन्ते अस्ति, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । अनेन सूत्रेण 'विना' तथा 'नाना' एतयोः शब्दयोः अव्ययसंज्ञा भवति ।
पञ्चम्यास्तसिल् 5.3.7 इत्यतः एधाच्च 5.3.46 एतेषु सूत्रेषु निर्दिष्टाः तद्धितप्रत्ययाः येषाम् अन्ते आगच्छन्ति, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - ततः, यतः, यत्र, कुत्र, परितः, अभितः, क्व, इह, तत्रभवान्, द्वैधम्, त्रैधम् - आदयः । आहत्य पञ्चाशताधिकानां शब्दानाम् इत्थम् अव्ययसंज्ञा भवति ।
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5.4.11 इत्यनेन उक्तः आम्-प्रत्ययः तथा अमु च च्छन्दसि 5.4.12 इत्यनेन उक्तः अम्-प्रत्ययः येषाम् अन्ते विद्यते , ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - किंतराम्, पूर्वाह्णेतराम्, पचतितराम्, प्रतराम् - आदयः । एतौ प्रत्ययौ सर्वेभ्यः तिङन्तेभ्यः, सङ्ख्यावाचकशब्देभ्यः उक्तौ स्तः ।
संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् 5.4.17, द्वित्रिचतुर्भ्यः सुच् 5.4.18, एकस्य सकृच्च 5.4.19 तथा विभाषा बहोर्धाऽविप्रकृष्टकाले 5.4.20 एतैः सूत्रैः प्रोक्ताः 'कृत्वसुच्', 'सुच्', तथा 'धा' प्रत्ययाः येषाम् अन्ते सन्ति, ते शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - द्विस्, त्रिस्, चतुर्, पञ्चकृत्वः , पञ्चधा - आदयः । एतेषु 'कृत्वसुच्' प्रत्ययः सर्वेभ्यः संख्यावाचकशब्देभ्यः विधीयन्ते ।
बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् 5.4.42 इत्यतः मद्रात् परिवापणे 5.4.67 इति यावत्सु सूत्रेषु ये प्रत्ययाः उक्ताः सन्ति, तदन्ताः शब्दाः अव्ययसंज्ञकाः भवन्ति । यथा - बहुशः, अल्पशः, आदितः, ग्रामतः, देवत्रा - आदयः । एतेषु केचन प्रत्ययाः प्रायः सर्वेभ्यः प्रातिपदिकेभ्यः विधीयन्ते । अतः अनेन प्रकारेण अनन्तशब्दानाम् अव्ययसंज्ञा भवितुम् अर्हति ।
सर्वे तद्धितान्तशब्दाः कृत्तद्धितसमासाश्च 1.2.46 इत्यनेन प्रातिपदिकसंज्ञकाः सन्ति । एतेषु येभ्यः केवलम् एकवचनस्य प्रत्ययाः उत्पद्यन्ते, प्रकृतसूत्रेण तेषाम् अव्ययसंज्ञा विधीयते । अस्य एकवचनस्य प्रत्ययस्य प्रक्रियायाम् अग्रे अव्ययादाप्सुपः 2.4.82 इत्यनेन लुक् भवति ।
विना [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञा ।]
--> विना + सुँ [स्वौजस्... 4.1.2 इत्यनेन सुबुत्पत्तिः]
--> विना + ० [अव्ययादाप्सुपः 2.4.82 इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्]
--> विना [प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा ]
अनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः 'रामः भरतं विना गच्छति' अस्मिन् वाक्ये विद्यमानः 'विना' इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् ।
index: 1.1.38 sutra: तद्धितश्चासर्वविभक्तिः
तद्धितश्चासर्वविभक्तिः - अथ स्वरादिचादिभिन्नान्यव्ययान्याह — तद्धितश्चासर्व । असर्वविभक्तिरिति बहुर्वीहिः । तत्र सर्वा विभक्तयो यस्मान्न भवन्तीति बहुवचनान्तविग्रहो न संभवति, अव्ययेभ्यः सप्तानां विभक्तीनामुत्पत्त्यभ्युपगमात् । तथाहितद्धितश्चे॑ति प्रकृतसूत्रे भाष्ये तावत्द्व्येकयोर्द्विवचनैकवचने॑बहुषु बहुवचन॑मिति सूत्रविन्यासं भङ्क्त्वा 'एकवचनं'द्वयोर्द्विवचने॒॑बहुषु बहुवचन॑मिति सूत्रन्यासं कृत्वा एकवचनमुत्सर्गतः करिष्यते, द्विबह्वोरर्थयोस्तस्य द्विवचनबहुवचने बाधके इत्यादि स्थितम् । ततश्च एकवचन॑मित्यनेन ङ्याप्प्रातिपदिकादेकवचनं भवतीति सामान्यविधिना द्वित्वबहुत्वाऽभावे एकवचनमिति लभ्यते । एवं च द्विबहुत्वाऽभावे सति एकत्वे तदभावे च एकवचनमिति फलति । तत्र द्वित्वबहुत्वयोर्द्विवचनबहुवचनोक्त्यैव ततोऽन्यत्र एकवचनस्य सिद्धत्वात् 'एकवचनम्' इति सूत्रं कर्मत्वाद्यभावेऽपि प्रापणार्थं संपद्यते । तथाच अलिङ्गसंख्येभ्योऽव्ययेभ्य एकवचनं प्रवर्तमानं विनिगमनाविरहात्सर्वविभक्त्येकवचनं भवति । अत एव 'अव्ययादाप्सुपः' इत्यत्र प्रत्याहारग्रहणमर्थवत् । तस्मात्सर्वा विभक्तियो यस्मादिति न विग्रहः, किन्तु सर्वशब्दोऽत्र सर्व पटो दग्ध इतिवदवयवकार्त्स्न्ये वर्तते । एवंच सर्वा वचनत्रयात्मिका विभक्तिर्यस्मान्नोत्पद्यते । किन्त्वेकवचनान्येवोत्पद्यन्ते, स तद्धितान्तोऽव्ययसंज्ञः स्यादिति फलतीत्यभिप्रेत्याह — यस्मादिति । सर्वेति । वचनत्रयात्मिकेत्यर्थः । नोत्पद्यत इति ।किन्त्वेकवचनान्येवोत्पद्यन्ते॑ इति शेषः । स्यादेतत्-तिङ्श्चे-त्यनुवृत्तौप्रशंसायां रूप॑मिति रूपप्प्रत्ययेईषदसमाप्तौ कल्प॑बिति कल्पप्प्रत्यये च पचतिरूपं पचतिकल्पमिति रूपम् । प्रशस्तं पचति, ईषत् पचतीत्यर्थः । अत्राप्यव्ययत्वं स्यात्, अरुआवविभक्तितद्धितान्तत्वात् । किञ्च उभयशब्देऽतिव्याप्तिः, तस्याप्यसर्वविभक्तितद्धितान्तत्वादित्यत आह-परिगणनमिति । वार्तिकमेतत् । तसिलादय इति । 'पञ्चम्यास्तसिल्' इत्यारभ्यद्वित्र्योश्च धमु॑ञित्यर्थः । शस्प्रभृतय इति ।बह्वल्पार्था॑दित्यरभ्यअव्यक्तानुकरणा॑दिति डाजन्ता इत्यर्थः । अमामिति ।अमु च च्छन्दसी॑त्यम्,किमेत्तिङव्यये॑त्यमा च गृह्रते । कृत्वोऽर्था इति ।सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्,द्वित्रिचतुभ्र्यःसुच्,विभाषा बहोर्थे॑ति त्रय इत्यर्थः । तसिवती इति ।तेनैकदिक्, 'तसिश्च' इति तसि#ः 'तेन तुल्यम्' इत्यादिविहितो वतिश्च गृह्रते ।प्रतियोगे पञ्चम्यास्तसिः॑ इत्यस्य तु शस्प्रभृतित्वादेव सिद्धम् । एवं च स्वरादिषु वदित्यस्य प्रयोजने चिन्त्यम् । नानाञाविति ।निनञ्भ्यां नानाञौ न सहे॑ति विहातौ नानाञौ । इति परिगणनंकर्तव्यमित्यन्वयः । परिगणनेनैव सिद्धेतद्धितश्चे॑ति सूत्रं न कर्तव्यमिति भावः ।
index: 1.1.38 sutra: तद्धितश्चासर्वविभक्तिः
इह यद्यपि संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधस्तथापि केवलस्य तद्धितस्य संज्ञायाः प्रयोजनाभावात् तदन्तविधिर्विज्ञायत इत्याह-तद्धितान्तः शब्द इति । अकच् तावत्प्रातिपदिकस्य सुबन्तस्य वा विधीयते । 'अव्ययादाप्सुपः' इत्यत्राप्यव्ययाद्विहितस्य सुपो लुक्, न तु परस्य; अत्युच्चैसावित्यादावपि प्रसङ्गात् । 'तत्पुरुषे तुल्यार्थ',ङाव्ययदिक्च्छब्द','खित्यनव्ययस्य' इत्यत्रापि पूर्वपदस्याव्ययस्य ग्रहणम् । सर्वा विभक्तिर्यस्य सम्बन्धिनी न भवति सोऽसर्वविभक्तिः । किं पुनरिदं तद्धितस्य वशेषणम् ? आहोस्वितदान्तस्य ? कथञ्चेदं तद्धितस्य विशेषणम्, कथं वा तदन्तस्य ? यदि सर्वा विभक्तिर्यस्य सम्बन्धिनी न भवति - कारणत्वेन यस्योत्पतौ सर्वा विभक्तिः कारणं न भवति, यथा 'पञ्चम्यास्तसिल्' इत्यादाविति कार्यमन्यपदार्थः, तदा तद्धितस्य विशेषणं भवति - तद्धितस्यैव ह्युत्पत्तिर्न तदन्तस्य । एवंविशिष्टेन तद्धितेन तदन्तविधौ-तादृशतद्धितान्तोऽव्ययमित्यर्थो भवति । अथ तु सर्वा विभक्तिर्यस्य कार्यत्वेन सम्बन्धिनी न भवति-यस्मात्सर्वा विभक्तिर्नोत्पद्यत इति कारणमन्यपदार्थः, तदा तदन्तसाय विशेषणं भवति । न हि तद्धितमात्राद्विभक्तियुत्पत्तिप्रसङ्गः । तत्र पूर्वस्मिन् पक्षे विना, नानेत्यत्र न स्याद्; न हि विनञ्भ्यमामित्यत्र प्रतिनियता काचिद्विभक्तिराश्रीयत इति सर्वविभक्त्यन्ताभ्यां विनञ्भ्यां नानाञौ भवतः । अव्ययेभ्यस्तु निः सङ्ख्येभ्यः सामान्यविहिताः स्वादयो विद्यन्त एवेति पक्षे येऽपि भवदादिप्रयोगे तसिलादयो विधीयन्त - 'इतराभ्योषऽपि दृश्यन्त' इति, तेऽपि स भवाÄस्ततो भवांस्तं भवन्तं ततो भवन्तमित्यादिसर्वविभक्त्यन्तेभ्य उत्पद्यन्त इति तत्रापि न स्यात् । 'तस्यापत्यम्' 'तत्र भवः' इत्यादौ च षष्ठ।लदिकैकैव विभक्तिर्निमितम्, न तु सर्वेतत्यौपगवादावतिप्रसङ्गश्चेति द्वितीयं पक्षमाश्रित्याह - यस्मादित्यादि । तत इत्यादौ 'प्राग्दिशो विभक्तिः' इति तसिलादीनां विभक्तित्वात्यदाद्यत्वम् । कथं पुनरेतेऽसर्वविभक्तयः; यावता यत्र च सङ्ख्या सम्भवति तत्रायमुपदेशाः, अव्ययेभ्यस्तु निःसङ्ख्येभ्य इत्यस्मिन्पक्षे 'अव्ययादाप्सुपः' इति ज्ञापकाश्रयणे च सर्वविभक्तयः; अथ सङ्ख्याकर्मादयश्च स्वादीनामर्थास्तेन सहास्यैकवाक्यतेति पक्षः, ततोऽविभक्तित्वमेवासत्वभूतार्थानामापद्येत ? उच्यते; 'द्व्येकयोर्द्विवचनैकवचने' इत्यत्रैकस्मिन्नित्यपनीय 'एकवचनम्' इति पृथक् सूत्रं कर्तव्यम्, ततः 'द्विबह्वोर्द्विवचनबहुवचने' इति, ततश्चैकवचनमेकस्मिन्नपि भविष्यति, सङ्ख्याकर्माद्यभावे चाप्राप्तप्रापणार्थत्वादेकवचनमित्यस्य सूत्रस्य, द्वित्वबहुत्वयोस्तु प्राप्तं द्विवचनबहुवचनाभ्यां बाध्यते, ततश्चासत्ववचनेभ्योऽपि सप्तानां विभक्तीनां सप्ताप्येकवचनानि भवन्ति । अव्ययीभावादप्येवमेव, तावतापि नाव्ययीभावात् 'तृतीयासप्तम्योः' इत्यस्योपपतेः, तदिदमुच्यते-'एकवचनमुत्सर्गतः करिष्यते' इति । एवं स्थिते यस्मात्सर्वा विभक्तिर्नोत्पद्यत इत्येकवचनेन विग्रहोऽवयवकार्त्स्न्यवृत्तिः सर्वशब्दो यस्य त्रिकस्य विभक्तिशंज्ञा विहिता तन्निरवशेषं यस्मान्नोत्पद्यते, किन्तु तदेकदेश एवत्यर्थस्तदाह - यस्मान् सर्वा विभक्तिरिति । यदि तु सर्वा विभक्तय इति बहुवचनेन विगृह्यएत ततः सर्वान्नीन इतिवत् प्रकार कार्त्स्न्यऽपि सर्वशब्दस्य संभवाद् एकवचनमात्रोत्पतावपि सर्वा विभक्तयः, सप्ताप्येकवचनान्यसत्ववचनेभ्य उत्पद्यन्त इति न स्यादसर्वविभक्तित्वमिति भावः । इह 'तेनैक दिक्' 'तसिश्च' इत्येकस्मिन्नर्थे विधीयमानयोरप्यण्तसोरण् द्रव्यप्रधानः, तसिस्तु द्रव्योपसर्जनतृतीयार्थप्रधान इति तस्यासत्ववचनता । तद्धित इति किमिति । असर्वविभक्तिरव्ययमित्येवास्तु, मा भूत्सर्वमेय प्रकरणं ये हि स्वरादयः, ये च निपाताः, ये च कृन्मेजन्ताः, ये च क्त्वादयः, यश्चाव्ययीभावः, सर्वे तेऽसर्वविभक्तय इति प्रश्नः । एकः द्वौ, बहव इति । एतेभ्योऽपि सप्तस्वपि विभक्तिष्वेकैकमेव वचनमुत्पद्यत इति स्यादतिप्रसङ्ग इति कर्तव्यं तद्धितग्रहणम् । तस्मिंश्च कृते प्रकरणमपि कर्तव्यमिति भावः । विशत्यादयस्तु कृतैकशेषा द्विवचनबहुवचनान्ता अपि भवन्तीति नासर्वविभक्तयाः । एवं द्वयत्रयोभयशब्दा अयजन्ताः । एवमपि गोदयोरदूरभवो ग्रामः 'अदूरभवश्च' इत्यणः 'वरणादिभ्यश्च' इति लुपि युक्तवद्भावात् सर्वासु विभक्तिषु द्विवचनस्योत्पतेरस्त्यतिप्रसङ्गः । स्यादयं पर्यनुयोगः - यदि तद्धितान्तो गोदशब्दः,वयं तु 'लुब्योगाप्रख्यानाद्' 'योगप्रमाणे च तदभावे दर्शनं स्याद' इत्यधीयाना नैवं पर्यनुयोज्याः; एवमपि शङ्खायास्संज्ञासङ्घसूत्राध्ययनेषु' संज्ञायां स्वार्थ उत्पाद्यः, पञ्चैव पञ्चकाः शकुनयः - अत्र प्राप्नोति, पचतिरूपं पचतिकल्पमित्यादौ च एकवचनमेवोत्पद्यत इति स्यादेवातिप्रसङ्गः । तस्मातद्धितानां पाठ एवाश्रयणीयः, तदाह - शिद्धं तु पाठातसिलादयः प्राक् पाशपः, शस्प्रभृतयः प्राक् समासान्तेभयः, मान्तः कृत्वोर्थाः, तसिवती नानाञाविति' ॥