1-1-37 स्वरादिनिपातम् अव्ययम्
स्वरादिनिपातमव्ययम्
स्वरादिगणस्य शब्दाः, निपातसंज्ञकाः शब्दाः च अव्ययसंज्ञकाः भवन्ति ।
The words of the स्वरादिगण and the words which are called 'निपात' are all also known as 'अव्यय'.
स्वरादीनि शब्दरूपाणि निपाताश्चाव्ययसंज्ञानि भवन्ति। स्वर्, अन्तर्, प्रातर् एतेन्तोदात्ताः पठ्यन्ते। पुनर् आद्युदात्तः। सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, आरात्, ऋते, युगपत्, पृथक् एतेऽपि सनुतर्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते। ह्यस्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, आविस्, अवस्, अधस्, समया, निकषा, स्वयम्, मृषा, नक्तम्, नञ्, हेतौ, अद्धा, इद्धा, सामि एतेऽपि ह्यस्प्रभृतयोऽन्तोदात्ताः पठ्यन्ते। वत् (ग०सू० ४), वदन्तमव्ययसंज्ञं भवति। ब्राह्मणवत्। क्षत्रियवत्। सन्, सनात्, सनत्, तिरस् एत आद्युदात्ताः पठ्यन्ते। अन्तरा अयमन्तोदात्तः। अन्तरेण, ज्योक्, कम्, शम्, सना, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मुधा, मिथ्या। क्त्वातोसुन्कसुनः (ग०सू० ५), कृन्मकारान्तः सन्ध्यक्षरान्तः (ग०सू० ६), अव्ययीभावश्च (ग०सू० ७), पुरा, मिथो, मिथस्, प्रबाहुकम्, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्द्धम्, समम्, नमस्, हिरुक्। तसिलादिस्तद्धित एधाच्पर्यन्तः (ग०सू० ८), शस्तसी (ग०सू० ९), कृत्वसुच् (ग०सू० १०), सुच् (ग०सू० ११), आस्थालौ (ग०सू० १२), च्व्यर्थाश्च (ग०सू० १३), अम् (ग०सू० १४), आम् (ग०सू० १५), प्रतान्, प्रशान्। स्वरादिः। निपाता वक्ष्यन्ते — <<प्राग्रीश्वरान्निपाताः>> १.४.५६ इति। च, वा, ह, अह, एव, एवमित्यादयः। अव्ययप्रदेशाः — <<अव्ययादाप्सुपः>>२.४.८२ इत्येवमादयः। अव्ययमित्यन्वर्थसंज्ञा।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्॥ (गो०ब्रा० १.१.२६)
स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर्, अन्तर्, प्रातर्, पुनर्, सनुतर्, उच्चैस्, नीचैस्, शनैस्, ऋधक्, ऋते, युगपत्, आरात्, पृथक्, श्वस्, दिवा, रात्रौ, सायम्, चिरम्, मनाक्, ईषत्, जोषम्, तूष्णीम्, बहिस्, अवस्, समया, निकषा, स्वयम्, वृथा, नक्तम्, नञ्, हेतौ, इद्धा, अद्धा, सामि(गणसूत्रम् -) वत्, ब्राह्मणवत्, क्षत्रियवत्, सना, सनत्, सनात्, उपधा, तिरस्, अन्तरा, अन्तरेण, ज्योक्, कम्, शम्, सहसा, विना, नाना, स्वस्ति, स्वधा, अलम्, वषट्, श्रौषट्, वौषट्, अन्यत्, अस्ति, उपांशु, क्षमा, विहायसा, दोषा, मृषा, मिथ्या, मुधा, पुरा, मिथो, मिथस्, प्रायस्, मुहुस्, प्रवाहुकम्, प्रवाहिका, आर्यहलम्, अभीक्ष्णम्, साकम्, सार्धम्, नमस्, हिरुक्, धिक्, अथ, अम्, आम्, प्रताम्, प्रशान्, प्रतान्, मा, माङ् । आकृतिगणोऽयम् । च, वा, ह, अह, एव, एवम्, नूनम्, शश्वत्, युगपत्, भूयस्, कूपत्, कुवित्, सूपत्स, कुवित्, नेत्, चेत्, चण्, कच्चित्, किंचित्, यत्र, नह, हन्त, माकिः, माकिम्, नकिः, आकिम्, माङ्, नञ्, यावत्, तावत्, त्वै, द्वै, रै, श्रौषट्, वौषट्, स्वाहा, स्वधा, तुम्, तथाहि, खलु, किल, अथो, अथ, सुष्ठु, स्म, आदह । (गणसूत्रम् -) उपसर्गविभक्तिस्वरप्रतिरूपकाश्च । अवदत्तम्, अहयुः, अस्तिक्षीरा । अ, आ, इ, ई, उ, ऊ, ए, ऐ, ओ, औ, पशु, शुकम्, यथाकथाच, पाट्, प्याट्, अङ्ग, है, हे, भोः, अये, द्य, विषु, एकपदे, युत्, आतः । चादिरप्याकृतिगणः ॥
स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः। स्वर्। अन्तर्। प्रातर्। पुनर्। सनुतर्। उच्चैस्। नीचैस्। शनैस्। ऋधक्। ऋते। युगपत्। आरात्। पृथक्। ह्यस्। श्वस्। दिवा। रात्रौ। सायम्। चिरम्। मनाक्। ईषत्। जोषम्। तूष्णीम्। बहिस्। अवस्। समया। निकषा। स्वयम्। वृथा। नक्तम्। नञ्। हेतौ। इद्धा। अद्धा। सामि। वत्। ब्राह्मणवत्। क्षत्रियवत्। सना। सनत्। सनात्। उपधा। तिरस्। अन्तरा। अन्तरेण। ज्योक्। कम्। शम्। सहसा। विना। नाना। स्वस्ति। स्वधा। अलम्। वषट्। श्रौषट्। वौषट्। अन्यत्। अस्ति। उपांशु। क्षमा। विहायसा। दोषा। मृषा। मिथ्या। मुधा। पुरा। मिथो। मिथस्। प्रायस्। मुहुस्। प्रवाहुकम्। प्रवाहिका। आर्यहलम्। अभीक्ष्णम्। साकम्। सार्धम्। नमस्। हिरुक्। धिक्। अथ। अम्। आम्। प्रताम्। प्रशान्। प्रतान्। मा। माङ्। आकृतिगणोऽयम्। च । वा। ह। अह। एव। एवम्। नूनम्। शश्वत्। युगपत्। भूयस्। कूपत्। कुवित्। नेत्। चेत्। चणकच्चित्। यत्र। नह। हन्त। माकिः। माकिम्। नकिः। नकिम्। माङ्। नञ्। यावत्। तावत्। त्वै। द्वै। न्वै। रै। श्रौषट्। वौषट्। स्वाहा। स्वधा। वषट्। तुम्। तथाहि। खलु। किल। अथो। अथ। सुष्ठु। स्म। आदह। <=उपसर्गविभक्तिस्वरप्रतिरूपकाश्च=> (गणसूत्रम्)। अवदत्तम्। अहंयुः। अस्तिक्षीरा। अ। आ। इ। ई। उ। ऊ। ए। ऐ। ओ। औ। पशु। शुकम्। यथाकथाच। पाट्। प्याट्। अङ्ग। है। हे। भोः। अये। द्य। विषु। एकपदे। युत्। आतः। चादिरप्याकृतिगणः॥ तसिलादयः प्राक् पाशपः। शस्प्रभृतयः प्राक् समासान्तेभ्यः। अम्। आम्। कृत्वोर्थाः। तसिवती। नानाञौ। एतदन्तमप्यव्ययम्॥
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । <<स्वरादिनिपातमव्ययम्>> 1.1.37 इत्यस्मात् सूत्रात् <<अव्ययीभावश्च>> 1.1.41 इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं प्रथमम् सूत्रम् । स्वरादिगणस्य शब्दाः तथा च निपातसंज्ञकाः शब्दाः अनेन सूत्रेण अव्ययसंज्ञकाः भवन्ति ।
तसिलादिरिति । 'पञ्चम्यास्तसिल्' इत्यारभ्य 'एधाच्च' इत्येतदन्तः । शस्तसी - 'बह्वल्पार्थाच्छस्', प्रतियोगे 'पञ्चम्यास्तसिः' । संख्यायाः 'क्रियाभ्यावृत्तिगणने कृत्वसुच्','द्वित्रिचतुर्भ्यः सुच्' । आस्थालाविति । 'इण आसिः' अयाः,'प्रत्नपूर्व'-त्वं प्रत्नथाः । च्व्यर्थाः-शंपद्यकर्तरि च्विः' 'विभाषासातिः कार्त्स्ये','देये त्रा च', अमु चच्छन्दसि','किमेतिङ्व्ययघादामु' । निपाता वक्ष्यन्त इति । अथ किमर्थं स्वरादीनां पृथग्ग्रहणं क्रियते, ते चादिष्वेव पठ।लेरम् ? न; चादीनामसत्ववचनानां निपातसंज्ञा, स्वरादीनां पुनः सत्ववचनानामसत्ववचनानां चाव्ययसंज्ञा-स्वस्ति वाचयति, स्वः प्रश्येति । क्रियासम्बन्धेऽनेकशक्तिदर्शनात् सत्ववाचित्वम् । अथ 'प्राग्रीश्वरान्निपाताः स्वरादीनि चादयोऽसत्वे' इत्येवं सूत्रन्यासः क्रियेत, कः पुनरत्र विशेषस्तत्र वा स्वरादिग्रहणं क्रियेत ? अत्र वा ? किं च ङिपात एकाजनाङ्' इति प्रगृह्यसंज्ञा स्वरादीनामप्येकाचां प्रसज्येत-'किमोऽत्','दक्षिणादाच्', 'एकाच्च तद्धितः'; केन्प्रभृतयस्तु कृत एकाचस्सन्ति । अथ 'चादिरेकाजनाङ्' इति क्रियते तदा चादीनामसत्ववचनत्वं विशेषणं न लभ्यते ? नैष दोषः; 'चादयोऽसत्वे' इत्यत्रासत्वाग्रहणं चादीनां पाठविशेषणम्, यथा-'तिङे गोत्रादीनि' इत्यत्र कुत्सनाभीक्ष्ण्यग्रहणं गोत्रादीनाम्, तेन यत्र यत्र चादिग्रहणं तत्र सर्वत्र विशिष्टनामेव ग्रहणम्, तत्रायमप्यर्थः - 'उभे संज्ञे न कर्तवंये भवतः-अव्ययम्, निपातः' इति । कथम् ? 'प्राग्रीश्वरान्निपाताः' इति वा 'अव्ययानि' इति वा सूत्रं कर्तव्यम्, ततः स्वरादीनि 'तद्धितश्चासर्वविभक्तिः' यावद् 'अव्ययीभावश्च' इति, ततः 'चादयोऽसत्वे' इत्यारभ्य यावद् 'अधिरीश्वरे', विभाषा कृञि' इति; तत्र यस्मिन् प्रदेशे निपातग्रहणं तत्र चादिग्रहणमस्तु, अव्ययप्रदेशेष्वव्ययग्रहणं निपातग्रहणं चेति, ततु तथा न कृतमित्येव । अव्ययमित्यन्वर्थसंज्ञति । सदृशम् इत्यादि । श्रुतिश्चेयमाथर्वणी प्रणवविद्यायां त्रिषु लिङ्गेषु स्त्रीपुन्नपुंसकेषु सदृशम्, लिङ्गविशेषप्रतिपादनेऽसामर्थ्यात् । विभक्तिष्वति । कारकेषु वचनेष्विति । एकत्वादिसंख्यासु, अव्ययीभावस्य शक्तिलिर्ङ्गविशेषयोगेऽपि वचनादव्ययत्वम्'यस्मान्न व्येति नाना न गच्छति यत्वधर्मान्न गृह्णातीत्यर्थस्ततस्मादव्ययम्' इति । यच्छब्दरूपं न व्येति तदव्ययमिति वा । किं पुनः प्रयोजनमन्वर्थसंज्ञाकरणे ? उपसर्ज्जनप्रतिषेधः-अत्युच्चैसौ, अत्युच्चैस इति । अतिक्रान्तप्रधानस्यात्र सत्वधर्मपरिग्रहात् उच्चैःशब्दः पठ।ल्ते, कः प्रसङ्गस्तदन्तस्य ? एतज् ज्ञापयत्याचार्यः - 'अस्त्यव्ययसंज्ञायां तदन्तविधिः' इति । तेन परमस्वः, परमोच्चैरिति स्वरादिप्राधान्ये तदन्तस्यापि भवति । कुशब्दः स्वरादिषु पठितव्योऽव्ययसंज्ञार्थः ॥