5-2-27 विनञ्भ्यां नानाञौ नसह प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत्
index: 5.2.27 sutra: विनञ्भ्यां नानाञौ नसह
नसह (इति) वि-नञ्-भ्याम् ना-नाञौ
index: 5.2.27 sutra: विनञ्भ्यां नानाञौ नसह
'नसह' अस्मिन् अर्थे प्रयुक्ताभ्याम् 'वि' तथा 'नञ्' एताभ्याम् शब्दाभ्याम् स्वार्थे क्रमशः 'ना' तथा 'नाञ्' प्रत्ययौ भवतः ।
index: 5.2.27 sutra: विनञ्भ्यां नानाञौ नसह
वि नञित्येताभ्यां यथासङ्ख्यं ना नाञित्येतौ प्रत्ययौ भवतः। नसह इति प्रकृतिविशेषणम्। असहार्थे पृथग्भावे वर्तमानाभ्यां विनञ्भ्यां सवार्थे नानाञौ प्रत्ययौ भवतः। विना। नाना।
index: 5.2.27 sutra: विनञ्भ्यां नानाञौ नसह
असहार्थे पृथग्भावे वर्तमानाभ्यां स्वार्थे प्रत्ययौ । विना । नाना ॥
index: 5.2.27 sutra: विनञ्भ्यां नानाञौ नसह
'नसह' इत्युक्ते 'पृथक् रूपेण' (सह नास्ति तत् नसह ) । अस्मिन् अर्थे प्रयुक्ताभ्याम् 'वि' तथा 'नञ्' एताभ्याम् शब्दाभ्याम् क्रमेण 'ना' तथा 'नाञ्' एतौ प्रत्ययौ स्वार्थे भवतः । यथा -
वि + ना = विना । यथा - 'रामः लक्ष्मणम् विना गच्छति' इत्युक्ते लक्ष्मणेन सह न गच्छति, पृथग्रूपेण गच्छति - इत्यर्थः ।
नञ् + नाञ् → नाना । अत्र प्रकृतौ ञकारस्य इत्संज्ञा भवति, प्रत्ययस्य ञकारेण ति अङ्गस्य तद्धितेष्वचामादेः 7.2.117 इति आदिवृद्धिः भवति । 'रामः लक्ष्मणम् नाना गच्छति' इत्युक्ते लक्ष्मणेन सह न गच्छति, पृथग्रूपेण गच्छति - इत्यर्थः ।
विशेषः -
अस्मिन् सूत्रे 'नसह' इति शब्दः प्रत्ययार्थम् न दर्शयति, अपितु प्रकृतिविशेषणम् दर्शयति । इत्युक्ते, 'वि' तथा 'नञ्' एतौ अव्ययौ यत्र 'पृथक् / नसह' अस्मिन् अर्थे प्रयुज्येते, तत्र ताभ्याम् वर्तमानसूत्रेण यथासङ्ख्यम् 'ना' तथा 'नाञ्' प्रत्ययौ भवतः । अस्मिन् सूत्रे प्रत्ययस्य अर्थः न उच्यते, अतः स्वार्थे प्रत्ययविधानम् भवतीति ज्ञेयम् ।
'विना' तथा 'नाना' एतौ द्वौ तद्धितान्तशब्दौ तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञां प्राप्नुवन्ति ।
'विना' तथा 'नाना' द्वयोः अपि योगे विद्यमानस्य शब्दस्य पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम् 2.3.32 इत्यनेन द्वितीया / तृतीया उत पञ्चमी विभक्तिः विधीयते । यथा - रामेण विना / रामम् विना / रामात् विना । तथैव, रामेण नाना / रामम् नाना / रामात् नाना ।
index: 5.2.27 sutra: विनञ्भ्यां नानाञौ नसह
विनञ्भ्यां नानाञौ नसह - वैः शालच्छङ्कटचौ । क्रियाविशिष्टेति । क्रियाविशिष्टकारकवाचकात्स्वार्थे शालच्शङ्कटच्प्रत्ययो स्त इति यावत् । इदं च भाष्ये स्पष्यटम् ।
index: 5.2.27 sutra: विनञ्भ्यां नानाञौ नसह
नसहेति प्रकृत्यर्थविशेषणमिति। यदि प्रत्ययार्थः स्याततो द्वौ प्रतिषेधौ प्रकृतमेवार्थ गमयत इति सहार्थ एव गम्येत, न नसह, अपि तु सहैवेति। तस्मात्प्रकृत्यर्थ एव भवति। एतच्च व्याख्यानाल्लभ्यते। यद्येवम्,सहेत्येव प्रत्ययार्थोऽस्तु, विनञोः प्रतिषेधार्थत्वात्, विगर्दभारथक इत्यादौ विशब्दस्यापि प्रतिषेधे वृत्तिर्दृष्टैव ? सत्यम्; क्रियावाचिनो विशब्दात्सहार्थे प्रत्ययो विज्ञायेत - विगतौ सह विकृतौ सहेति, नाञो ञकारो वृद्ध्यार्थः, स्वरार्थश्च ॥