बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्

5-4-42 बह्वल्पार्थात् शस् कारकात् अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः

Sampurna sutra

Up

बहु-अल्पार्थात् कारकात् शस् अन्यतरस्याम्

Neelesh Sanskrit Brief

Up

'बहु' तथा 'अल्प' एतयोः अर्थयोः प्रयुक्तात् शब्दात् कारकस्य विषये विकल्पेन शस्-प्रत्ययः भवति ।

Kashika

Up

बह्वर्थादल्पार्थात् च कारकाभिधायिनः शब्दात् शस् प्रत्ययो भवत्यन्तरस्याम्। विशेषानभिधानात् च सर्वं कर्मादिकारकं गृह्यते। बहूनि ददाति, बहुशो ददाति। अल्पं ददाति, अल्पशो ददाति। बहुभिर्ददाति, बहुशो ददाति। अल्पेन, अल्पशः। बहुभ्यः, बहुशः। अल्पाय, अल्पश इत्येवमाद्युदाहार्यम्। बह्वल्पार्थादिति किम् ? गां ददाति। अश्वं ददाति। कारकादिति किम्? बहूनां स्वामी। अल्पानां स्वामी। अर्थग्रहणात् पर्यायेभ्योऽपि भवति। भूरिशो ददाति। स्तोकशो ददाति॥ बह्वल्पार्थान् मङ्गलवचनम्॥ यत्र मङ्गलं गम्यते तत्रायं प्रत्यय इष्यते। बहुशो ददातीत्याभ्युदयिकेषु कर्मसु। अल्पशो ददातीत्यनेष्टेषु कर्मसु॥

Siddhanta Kaumudi

Up

बहूनि ददाति बहुशः । अल्पानि अल्पशः ।<!बह्वल्पार्थन्मङ्गलामङ्गलवचनम् !> (वार्तिकम्) ॥ नेह । बहूनि ददात्यनिष्टेषु । अल्पं ददात्याभ्युदयिकेषु ॥

Laghu Siddhanta Kaumudi

Up

बहूनि ददाति बहुशः। अल्पशः। <<आद्यादिभ्यस्तसेरुपसंख्यानम्>> (वार्त्तिकम्) । आदौ आदितः। मध्यतः। अन्ततः। पृष्ठतः। पार्श्वतः। आकृतिगणोऽयम्। स्वरेण, स्वरतः। वर्णतः॥

Neelesh Sanskrit Detailed

Up

'बहु' इत्यस्मिन् अर्थे तथा च 'अल्प' इत्यस्मिन् अर्थे प्रयुक्ताः शब्दाः यदि कारकरूपेण (यथा - कर्मकारकम् / करणकारकम् / सम्प्रदानकारकम् / अपादानकारकम् / अधिकरणकारकम् - एतेषु कस्मिंश्चित् सन्दर्भे) प्रयुज्यन्ते, तदा तेभ्यः स्वार्थे विकल्पेन शस्-प्रत्ययः भवति । कानिचन उदाहरणानि पश्यामश्चेत् सूत्रार्थः स्पष्टः स्यात् - 1.'बहून् पश्यति' - अस्मिन् वाक्ये 'बहु' शब्दः कर्मकारकरूपेण प्रयुक्तः अस्ति । अतः अत्र 'बहु' शब्दात् स्वार्थे विकल्पेन शस्-प्रत्ययः भवति । बहु + शस् → बहुशः । यथा - बहुशः पश्यति । 'बहून् पश्यति' इत्येव अस्य अर्थः । 2. 'भूरिभ्यः स्वीकरोति' - अत्र अपादाननरूपेण 'भूरि' (many) शब्दः प्रयुज्यते । अतः अत्रापि स्वार्थे शस्-प्रत्ययः भवति । भूरिभ्यः स्वीकरोति' इत्येव = भूरिशः स्वीकरोति । 3. 'अल्पेभ्यः ददाति' - अस्मिन् वाक्ये 'अल्प' शब्दः सम्प्रदानरूपेण प्रयुक्तः अस्ति । अतः अत्र 'अल्प' शब्दात् स्वार्थे विकल्पेन शस्-प्रत्ययः भवति । अल्प + शस् → अल्पशः । यथा - अल्पशः ददाति । 'अल्पेभ्यः ददाति' इत्येव अर्थः । 4. 'स्तोके विद्यते' - अस्मिन् वाक्ये 'स्तोक' (little) शब्दः अधिकरणरूपेण प्रयुक्तः अस्ति । अतः अत्रापि स्वार्थे शस्-प्रत्ययः भवति । 'स्तोके विद्यते' इत्येव = स्तोकशः विद्यते । सूत्रे 'अन्यतरस्याम्' इति उच्यते, अतः प्रत्ययं विना अपि प्रयोगः भवितुमर्हति । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!बह्वल्पार्थान्मङ्गलामङ्गलवचनम् !> । इत्युक्ते, 'बहुशः' इति शब्दः 'माङ्गल्यार्थे', तथा 'अल्पशः' इति शब्दः 'अमाङ्गल्यार्थे' एव प्रयोक्तव्यः । यथा - 'यज्ञार्थम् बहुशः धनम् ददाति', (= माङ्गल्यार्थे प्रयोगः) । 'चौरेभ्यः अल्पशः धनम् ददाति' (= अमाङ्गल्यार्थे / अनिष्टार्थे प्रयोगः) । 'बहुशः' शब्दस्य प्रयोगः अमाङ्गल्यार्थे नैव क्रियते । तथैव, 'अल्पशः' शब्दस्य प्रयोगः माङ्गल्यार्थे न भवति । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'कारकात्' इति उच्यते । अतः 'बहूनाम् स्वामी', 'अल्पस्य ग्रहणम्' एतादृशेषु वाक्येषु शस्-प्रत्ययः न भवति, यतः अत्र 'बहु' तथा 'अल्प' एतौ शब्दौ सम्बन्धरूपेण प्रयुज्येते, न हि कारकरूपेण । 2. वस्तुतः तु इदम् सूत्रम् <<समर्थानां प्रथमात् वा>> 4.1.82 इत्यत्र निर्दिष्टायां महाविभाषायाम् विधीयते । इत्युक्ते, अत्र महाविभाषया एव विभाषाग्रहणं भवति । एवं सत्यपि सूत्रे 'अन्यतरस्याम्' इति स्वीक्रियते । एतत् अस्य ज्ञापकम् यत् पूर्वस्मिन् सूत्रे विकल्पः नैव विधीयते । इत्युक्ते, <<सस्नौ प्रशंसायाम्>> 5.4.40 इत्यनेन सूत्रेण उक्तौ प्रत्ययौ नित्यौ भवतः, न हि विकल्पेन - इति ज्ञापयितुमस्मिन् सूत्रे 'अन्यतरस्याम्' इति निर्दिष्टमस्ति । 3. वर्तमानसूत्रेण उक्तः 'शस्' प्रत्ययः तद्धितप्रत्ययः अस्ति । द्वितीयाबहुवचनस्य 'शस्' इति सुप्-प्रत्ययः तु सर्वथा भिन्नः अस्तीति स्मर्तव्यम् । वर्तमानसूत्रेण विहितस्य 'शस्' प्रत्ययस्य विषये शकारस्य इत्संज्ञा न भवति । विभक्तिसंज्ञकस्य शस्-प्रत्ययस्य विषये यानि कार्याणि भवन्ति (यथा - <<जश्शसोः शिः>> 7.1.20 इत्यादीनि) , तानि अत्र न कर्तव्यानि । 4. शस्-प्रत्यये सकारस्य अपि प्रयोजनाभावात् इत्संज्ञा न भवति । 4. अनेन सूत्रेण निर्मिताः शस्-प्रत्ययान्तशब्दाः <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति ।

Balamanorama

Up

<<बह्वल्पार्थाच्छस् कारकादन्यतरस्याम्>> - बह्वल्पार्थादिति । वार्तिकमिदम् । मह्गलाऽमङ्गलेगम्ये एवायं शसित्यर्थः । बहूनि ददात्यनिष्टेष्विति । भयादिनिमित्तेष्वित्यर्थः । अल्पं ददात्याभ्युदयिकेष्विति । अभ्युदयः=श्रेयः, तत्प्रयोजनकेष्विष्टापूर्तेष्वित्यर्थः । आभ्युदयिकेषु बहुदानम्, अनिष्टेषु अल्पदानं च मङ्गलम् । तद्विपरीतदानं त्वमङ्गलमिति भावः । अर्थग्रहणाद्भूरिशो ददाति, स्तोकशो ददाति इत्याद्यप्युदाहार्यम् ।

Padamanjari

Up

कारकाभिधायिनः शब्दादिति। पञ्चकपक्षे प्रातिपदिकात्, त्रिकपक्षे सुबन्तात्। गहादिषु'मध्यमध्यमं चाण्चरणे' इत्यविशेषाभिधानेऽपि पृथिवीमध्यस्य मध्यमभाव इत्युक्तम्, इह तु न तथेत्याहाविशेषाभिधानाच्चेति। एवमादीति। आदिशब्देनापादानाधिकरणयोरुदाहरणपरिग्रहः - बहुभ्य आगच्छति बहुश आगच्छति; बहुषु निदधाति बहुशो निदधाति; एवमल्पेब्योऽल्पशः, अल्पेष्वल्पशः। बहूनां स्वामीति। शेषे षष्ठीविधानान्न कारकाभिधायी बहुशब्दः। पर्यायेब्योऽपीति। अपिशब्दाद्विशेषेभ्योऽपि। तत्र वृतौ पर्यायस्योदाहरणम्। विशेषस्य तु - त्रिशो ददातीति, वीप्साया अन्यत्र। वीप्सायां तूतरेण सिद्धम्। आब्युदयिकेष्विति। अब्युदयप्रयोजनेषु अग्न्याधेयादिषु अनिष्टेषु भयादिनिमितेषु दानेषु। प्रायिकं चैतन्मह्गलवचनम्, अन्यत्रापि हि दृश्यते। ठपेतापोढनुक्तपतितापत्रस्तैरल्पशःऽ इति कारकत्वं समासक्रियां प्रति पञ्चभ्याः कर्मत्वातदभिधायित्वाच्चाल्पशब्दस्य द्रष्टव्यम्। उदीरितं च - ठल्पा पञ्चमी सम्स्यतेऽ इति ॥