5-4-12 अमु च छन्दसि प्रत्ययः परः च आद्युदात्तः च तद्धिताः किमेत्तिङव्ययघात् आमु अद्रव्यप्रकर्षे
index: 5.4.12 sutra: अमु च च्छन्दसि
किम्-एत्-तिङ्-अव्यय-घात् अद्रव्यप्रकर्षे आमु अमु च छन्दसि
index: 5.4.12 sutra: अमु च च्छन्दसि
'किम्' शब्दः, एकारान्तशब्दाः, तिङन्तशब्दाः तथा च अव्ययवाचकशब्दाः - एतेषाम् 'घ'प्रत्ययान्तरूपेभ्यः यदि द्रव्यस्य प्रकर्षः न निर्दिश्यते, तर्हि वेदेषु स्वार्थे 'आमु' तथा 'अमु' एतौ प्रत्ययौ स्वार्थे प्रयुक्तौ दृश्येते ।
index: 5.4.12 sutra: अमु च च्छन्दसि
किमेत्तिङव्ययघादद्रव्यप्रकर्षे अमु प्रत्ययो भवति छन्दसि विषये। चकारादामु च। प्रतरं न आयुः। प्रतरां नय। स्वरादिषु अमाम् इति पठ्यते, तस्मात् तदन्तस्य अव्ययत्वम्।
index: 5.4.12 sutra: अमु च च्छन्दसि
किमेत्तिङव्ययघादित्येव । प्रतं नयं प्रतरम् (प्रतं न॑यं प्रत॒रम्) ॥
index: 5.4.12 sutra: अमु च च्छन्दसि
किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5.4.11 इत्यनेन सूत्रेण 'किम्', 'एदन्तशन्दाः', 'तिङन्ताः' तथा 'अव्ययानि' - एतेभ्यः अद्रव्यप्रकर्षे विहितात् तरप् / तमप् -प्रत्ययात् नित्यम् 'आम्' प्रत्ययः विधीयते । वेदेषु अस्मिन्नेव सन्दर्भे 'अम्' इति प्रत्ययः अपि कृतः दृश्यते । अस्य साधुत्वार्थम् वर्तमानसूत्रस्य निर्माणं कृतमस्ति ।
उदाहरणानि -
अत्र 'प्रतरम्' इति शब्दः 'प्र' इत्यस्मात् अव्ययात् 'तरप्' प्रत्यये कृते तत 'अम्' प्रत्ययं कृत्वा सिद्ध्यति । 'अतिशयेन विशेषः / प्रमुखः' इति अर्थः ।
अत्र 'प्रतराम्' इति शब्दः प्र' इत्यस्मात् अव्ययात् 'तरप्' प्रत्यये कृते तत 'आम्' प्रत्ययं कृत्वा सिद्ध्यति ।
विशेषः - अम्-प्रत्ययान्तशब्दाः तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति । स्वरादिगणे अपि 'अम्' इति प्रत्ययः पाठ्यते, अतः स्वरादिनिपातमव्ययम् 1.1.37 इत्यनेनापि अस्य अव्ययसंज्ञा भवति ।
index: 5.4.12 sutra: अमु च च्छन्दसि
प्रतरामिति। प्रशब्दार्थस्य प्रकर्षस्य प्रकर्षे तरप् प्रकृष्टतर इतिवत्। अत्राअप्युदित्करणम् ठिच एकाचोऽम्प्रत्ययवच्चऽ इत्यत्रास्यापि ग्रहणं मा भूदिति। यदि स्यादत्रापि यद् दृष्ट्ंअ कार्यं तदप्यतिदिश्येत, तत्र को दोषः? इह - स्त्रियम्मन्यः, यस्येतिलोपः प्राप्नोति ॥