विभाषा बहोर्धाविप्रकृष्टकाले

5-4-20 विभाषा बहोः धा अविप्रकृष्टकाले प्रत्ययः परः च आद्युदात्तः च तद्धिताः सङ्ख्यायाः क्रियाभ्यावृत्तिगणने

Sampurna sutra

Up

बहोः अविप्रकृष्टकाले क्रिया-अभ्यावृत्तिगणने विभाषा धा

Neelesh Sanskrit Brief

Up

कस्मिंश्चित् अविप्रकृष्टे काले क्रियायाः पौनःपुन्यम् दर्शयितुम् 'बहु' शब्दात् विकल्पेन 'धा' प्रत्ययः भवति । पक्षे 'कृत्वसुच्' प्रत्ययः अपि विधीयते ।

Kashika

Up

बहुशब्दात् क्रियाभ्यावृत्तिगणने वर्तमानाद् विभाषा धा प्रत्ययो भवति। कृत्वसुचोऽपवादः। पक्षे सोऽपि भवति। अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशेषणम्। क्रियाणामुत्पत्तयश्चेदासन्नकाला भवन्ति, न विप्रकृष्टकालाः। बहुधा दिवसस्य भुङ्क्ते, बहुकृत्वो दिवसस्य भुङ्क्ते। अविप्रकृष्टकाल इति किम् ? बहुकृत्वो मासस्य भुङ्क्ते॥

Siddhanta Kaumudi

Up

अविप्रकृष्ट आसन्नः । बहुधा दिवसस्य भुङ्क्ते । आसन्नकाले किम् । बहुकृत्वो मासस्य भुङ्क्ते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अभ्यावृत्तिः' इत्युक्ते पौनःपुन्यम् (repetition) । यत्र काचन क्रिया पुनः पुनः भवति, तत्र तस्याः क्रियायाः आवर्तनस्य गणनार्थम् सङ्ख्यावाचकशब्दात् <<संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्>> 5.4.17 इत्यनेन औत्सर्गिकरूपेण 'कृत्वसुच्' इति प्रत्ययः स्वार्थे विधीयते । 'बहु' इति सङ्ख्यावाचकः शब्दः अस्ति, अतः अस्मात् शब्दात् अपि अनेन सूत्रेण 'कृत्वसुच्' प्रत्ययः भवितुमर्हति । परन्तु यदि क्रियायाः पौनःपुन्यम् कस्मिंश्चित् अविप्रकृष्टकाले (in a short span of time) भवति, तर्हि 'बहु' शब्दात् 'धा' प्रत्ययः अपि विकल्पेन भवितुमर्हति । पक्षे 'कृत्वसुच्' तु भवत्येव । यथा - दिवसस्य बहुवारम् भुङ्क्ते इत्येव = दिवसस्य बहुधा भुङ्क्ते । अत्र भोजनक्रियायाः पौनःपुन्यम् 'दिवस' इत्यस्मिन् लघुकाले भवति । The action of 'eating' is repeated multiple times over a short span of times, like a day. अतः अत्र 'बहुधा' इति शब्दः भवितुमर्हति । परन्तु 'मासे /वर्षे बहुवारं भुङ्क्ते' इत्यत्र 'धा' प्रत्ययस्य प्रयोगः नैव भवति । When we say 'eats multiple times in a month, the action is being repeated over a larger span of time, and hence the धा प्रत्यय is not used in this context. अत्र उदाहरणे 'दिवसस्य' इति षष्ठीविभक्तिः प्रयुज्यते, यतः <<कृत्वोऽर्थप्रयोगे कालेऽधिकरणे>> 2.3.64 इत्यनेन 'कृत्वसुच्' प्रत्ययस्य अर्थे कालवाचिशब्दात् अधिकरणे विवक्षिते षष्ठी विभक्तिः भवति । एवमेव अग्रे अपि सर्वेषु उदाहरणेषु ज्ञेयम् । स्मर्तव्यम् - कालस्य व्याप्तिः 'समीपस्था / निकटा' अस्ति वा - इति तु सन्दर्भात् एव ज्ञायते । Whether a certain duration of time is considered 'close enough' will depend on the context । कानिचन उदाहरणानि पश्यामश्चेत् स्पष्टं स्यात् - 1. एकस्य निमिषस्य बहुधा श्वसीति । Somebody breaths multiple times in a second. अत्र श्वसनक्रियायाः पौनःपुन्यस्य विषये निमिषम् यावत् कालः निकटः गृह्यते । परन्तु अस्मिन् सन्दर्भे 'दिवस' इति कालः निकटः न गृह्यते । अतः 'एकस्मिन् दिवसे बहुवारम् श्वसीति' इत्यत्र धा-प्रत्ययः न भवति । Everyone will breath at least a few thousand times in a day. Hence, the span of a 'day' cannot be considered 'small' when the action of breathing is being considered. 2. चन्द्रः एकस्य वर्षस्य बहुधा सूर्यम् ग्रासते । अत्र सूर्यग्रहणस्य विषये वर्षस्य व्याप्तिः अपि लघुः एव, यतः वर्षे सूर्यग्रहणम् एकवारं द्विवारं वा भवति । In context of an eclipse, the period of year is also a close enough, because the number of eclipses in a period is very limited । अतः कस्मिंश्चित् वर्षे सूर्यग्रहणं त्रिवारं भवति चेत् 'बहुधा' इति प्रयोगं कर्तुम् शक्यते । पक्षे सर्वदा 'बहुकृत्वः' शब्दस्य प्रयोगः भवत्येव । तदर्थम् 'अविप्रकृष्टकाले' इति नैव आवश्यकम् । यथा - दिवसस्य बहुकृत्वः भुङ्क्ते ; मासस्य बहुकृत्वः भुङ्क्ते ; वर्षस्य बहुकृत्वः भुङ्क्ते - आदयः । ज्ञातव्यम् - यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> 4.1.82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः विशेषरूपेण पुनः उच्यते । अयम् विकल्पः प्रत्ययस्य वैकल्पिकप्रयोगार्थम् नास्ति, अपि तु 'धा' प्रत्ययार्थम् एव अस्ति । इत्युक्ते, वर्तमानसूत्रेण 'धा' प्रत्ययः विकल्प्यते, पक्षे<<संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्>> 5.4.17 इत्यनेन 'कृत्वसुच्' प्रत्ययः तु नित्यम् भवति । महाविभाषायाः प्रयोगः अस्मिन् सूत्रे न क्रियते ।

Balamanorama

Up

<<विभाषा बहोर्धाऽविप्रकृष्टकाले>> - विभाषा बहोर्धा । अविप्रकृष्टकालिकक्रियाजन्मगणनवृत्तेर्बहुशब्दाद्धाप्रत्ययो वा स्यात् । पक्षे कृत्वसुच् । बहुधा बहुकृत्वो वा दिवसस्य भुङ्क्ते इति । दिवसे प्रातःसङ्गवाद्यव्यवहितकालिकोत्पत्तिविशिष्टा भोजनक्रियेत्यर्थः ।कृत्वोऽर्थप्रयोगे कालेऽधिकरणे॑ इति दिवसात्षष्ठीति हरदत्तः । शेषत्वविवक्षायां षष्ठी इति तु नवीनाः ।

Padamanjari

Up

अविप्रकृष्टकालग्रहणं क्रियाभ्यावृत्तिविशेषणमिति। यद्यप्येवम्, तथापि गणनग्रहणेनैवास्य शाब्दोऽन्वय इति नपुंसकलिङ्गमेव भवति, न स्त्रीलिङ्गम्। गणनस्याविप्रकृष्टकालत्वं गण्यमानानामभ्यावृत्तिनामविप्रकृष्टकालत्वे सतीत्यर्थप्राप्तं वृत्तिकारेण दर्शितम्। बहुधा दिवसस्य भुङ्क्ते इति।'कृत्वो' र्थप्रयोगे कालेऽधिकरणेऽ इति षष्ठी, अविप्रकृष्टकालत्वं चाभ्यावृतीनां ततत्क्रियावशेन व्यवतिष्ठते। बहुकृत्वो मासस्य भुङ्क्ते इति। अत्राभ्यावृतेर्विप्रकृष्टकालताऽशक्तिदारिद्र।लद्यपेक्षया द्रष्टव्या ॥