अव्ययीभावश्च
1-1-41 अव्ययीभावः च अव्ययम्
Sampurna sutra
Up
अव्ययीभावः अव्ययम्
Neelesh Sanskrit Brief
Up
अव्ययीभावसमासेन निर्मितस्य शब्दस्य 'अव्यय' इति संज्ञा भवति ।
Neelesh English Brief
Up
The word formed using an अव्ययीभाव समास are known as अव्यय.
Kashika
Up
अव्ययीभावसमासोऽव्ययसंज्ञो भवति। किं प्रयोजनम्? लुङ्मुखस्वरोपचाराः। लुक् — उपाग्नि। प्रत्यग्नि शलभाःपतन्ति। मुखस्वरः — उ॒पा॒ग्निमु॑खः। प्र॒त्य॒ग्निमु॑खः। <<मुखं स्वाङ्गम्>> ६.२.१६७ इत्युत्तरपदान्तोदात्तत्वं प्राप्तम्, <<नाव्ययदिक्छब्द०>> ६.२.१६८ इति प्रतिषिध्यते। तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वर एव भवति। उपचारः — उपपयःकारः। उपपयःकामः। विसर्जनीयस्थानिकस्य सकारस्य उपचार इति संज्ञा। तत्राव्ययीभावस्याव्ययत्वे <<अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य>> ८.३.४६ इति पर्युदासः सिद्धो भवति। सर्वमिदं काण्डं स्वरादावपि पठ्यते। पुनर्वचनम् — नित्यत्वज्ञापनार्थम्। तेनायं कार्यनियमः सिद्धो भवति। इह च पुरा सूर्यस्योदेतोराधेयः (काठ०सं० ८.३), पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन् (तै०सं० १.१.९.३) इति <<न लोकाव्ययनिष्ठा०>> २.३.६९ इति षष्ठीप्रतिषेधो न भवति॥
Siddhanta Kaumudi
Up
अधिहरि ॥
Laghu Siddhanta Kaumudi
Up
अधिहरि॥
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । <<स्वरादिनिपातमव्ययम्>> 1.1.37 इत्यस्मात् सूत्रात् <<अव्ययीभावश्च>> 1.1.41 इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं अन्तिमम् (पञ्चमम्) सूत्रम् । अव्ययीभावसमासेन निर्मितानां शब्दानाम् अनेन सूत्रेण अव्ययसंज्ञा भवति ।
अव्ययीभावसमासः
<<अव्ययीभावः>>
2.1.5 अस्मिन् अधिकारे विद्यमानैः षोडशभिः सूत्रैः 'अव्ययीभाव'समासस्य विधानम् क्रियते । एतैः सर्वैः सूत्रैः सिद्धानि समस्तपदानि प्रकृतसूत्रेण अव्ययसंज्ञां प्राप्नुवन्ति । कानिचन उदाहरणानि एतादृशानि -
1. <<अव्ययं विभक्तिसमीपसमृद्धि..>>
2.1.6 इत्यनेन सूत्रेण 'हरौ इति' इत्यस्मिन् अर्थे 'अधिहरि' इति प्राप्तं समस्तपदम् अव्ययसंज्ञकं भवति ।
2. <<यथासादृश्ये>>
2.1.7 इत्यनेन 'यथाध्यापकम्', 'यथाध्यापकम्' एतादृशानि अव्ययानि सिद्ध्यन्ति ।
3. <<आङ् मर्यादाभिविध्योः>>
2.1.13 इत्यनेन 'आकुमारम्' 'आपाटलिपुत्रम्' एतादृशानि अव्ययानि सिद्ध्यन्ति ।
सुबुत्पत्तिः, पदसंज्ञा
सर्वाणि समस्तपदानि <<कृत्तद्धितसमासाश्च>>
1.2.46 इत्यनेन प्रातिपदिकसंज्ञकानि सन्ति । एतेषु अव्ययीभावसमासेन सिद्धानां समस्तपदानां प्रकृतसूत्रेण अव्ययसंज्ञा विधीयते । एतेभ्यः विहितानाम् सुप्-प्रत्ययानाम् अग्रे <<अव्ययादाप्सुपः>>
2.4.82 इत्यनेन लुक् भवति ।
यथाशक्ति [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<अव्ययीभावश्च>> 1.1.41 इत्यनेन अव्ययसंज्ञा ।]
--> यथाशक्ति + सुँ [<<स्वौजस्...>> 4.1.2 इत्यनेन सुबुत्पत्तिः]
--> यथाशक्ति+ ० [<<अव्ययादाप्सुपः>> 2.4.82 इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्]
--> यथाशक्ति [<<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा ]
अनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः 'रामः यथाशक्ति रक्षणं करोति' अस्मिन् वाक्ये विद्यमानः 'यथाशक्ति' इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् ।
अव्ययीभावसमासेन निर्मितः शब्दः अदन्तः अस्ति चेत् तु <<अव्ययादाप्सुपः>>
2.4.82 इत्यनेन प्राप्तः लुक् <<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>>
2.4.83 इत्यनेन निषिध्यते ।
उपकृष्ण [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<अव्ययीभावश्च>> 1.1.41 इत्यनेन अव्ययसंज्ञा ।]
--> उपकृष्ण + सुँ [<<स्वौजस्...>> 4.1.2 इत्यनेन सुबुत्पत्तिः]
--> उपकृष्ण + अम् [<<नाव्ययीभावादतोऽम्त्वपञ्चम्याः>> 2.4.83 इत्यनेन अव्ययीभावसमस्तपदात् विहितस्य सुप्-प्रत्ययस्य 'अम्' आदेशः]
--> उपकृष्णम् [<<अमि पूर्वः>> 6.1.107 इति सुँ-प्रत्ययस् अम्-आदेशः । ततः <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा ]
अत्र सिद्धम् 'उपकृष्णम्' इति अम्-प्रत्ययान्तं पदम् एव वाक्ये प्रयोक्तव्यम्, न हि 'उपकृष्ण' इति प्रातिपदिकम् । यथा - रामः उपकृष्णम् तिष्ठति ।
Balamanorama
Up
Padamanjari
Up
लुङ्मुखस्वरोपचारा इति । अत्र मखस्वरोपचारौ निवर्त्यपानतया प्रयोजनम्, मशकार्थो धूम इतिवत् । लुक् प्रवर्त्यमानतया । उपाग्नीति । अव्ययादिति लुक् । पूर्वपदप्रकृतित्वर एवेति । समासस्वरेणान्तोदातत्वम् । उपपयः काम इति । 'शीलिकामिभिक्षाचरिभ्यो णः' कर्मणि घञन्तेन वा बहुव्रीहिः, अत्र मुखस्वरनिवृत्तिरेव साक्षात्प्रयोजनम्, लुक् तु 'नाव्ययीभावादतोऽम्' इति विशेषप्रतिषेधात् सिद्धः, 'अतः कृकमिकंस' इत्यत्र च 'अनुतरपदस्थस्य' इति वर्तते । नन्वन्यदप्यव्ययकार्यं सम्भवति-उपाग्निकमित्यकच्, उपकुम्भमन्य इति मुम्प्रतिषेधः, उपकुम्भीभूत इति 'अस्य च्वौ' इतीत्वस्योपसङ्ख्यानिकः प्रतिषेधः, उपाग्न्यधीयानेति 'सुबामन्त्रिते' इत्यस्यौपसंख्यानिकः प्रतिषेधः, तत्कुतोऽयं कार्यनियम इत्यत आह - सर्वमिदमित्यादि । इह चेत्यादिना ङ लोकाव्यय' इत्यत्र यद्वक्ष्यति - 'अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः' इति, तस्यावक्तव्यतां दर्शयति ॥