1-1-41 अव्ययीभावः च अव्ययम्
index: 1.1.41 sutra: अव्ययीभावश्च
अव्ययीभावः अव्ययम्
index: 1.1.41 sutra: अव्ययीभावश्च
अव्ययीभावसमासेन निर्मितस्य शब्दस्य 'अव्यय' इति संज्ञा भवति ।
index: 1.1.41 sutra: अव्ययीभावश्च
The word formed using an अव्ययीभाव समास are known as अव्यय.
index: 1.1.41 sutra: अव्ययीभावश्च
अव्ययीभावसमासोऽव्ययसंज्ञो भवति । किं प्रयोजनम् ? लुङ्मुखस्वरोपचाराः । लुक् - उपाग्नि, प्रत्यग्नि शलभाः पतन्ति । मुखस्वरः- उपाग्निमुखः, प्रत्यग्निमुखः । मुखं स्वाङ्गम् 6.2.167 इत्युत्तरपदान्तोदात्तत्वं प्राप्तम्, नाव्ययदिक्शब्द... 6.2.168 इति प्रतिषिध्यते । तस्मिन् प्रतिषिद्धे पूर्वपदप्रकृतिस्वर एव भवति । उपचारः - उपपयःकारः, उपपयःकामः । विसर्जनीयस्थानिकस्य सकारस्य 'उपचारः' इति संज्ञा । तत्र अव्ययीभावस्य अव्ययत्वे अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य 8.3.46 इति पर्युदासः सिद्धो भवति । सर्वम् इदं काण्डं स्वरादावपि पठ्यते । पुनर्वचनमनित्यत्वज्ञापनार्थम् । तेन अयं कार्यनियमः सिद्धो भवति । इह च पुरा सूर्यस्योदेतोराधेयः (काठकसंहिता 8.3), पुरा क्रूरस्य विसृपो विरप्शिन् (तैत्तिरीयसंहिता 1.1.9.3) - इति न लोकाव्ययनिष्ठाखलर्थतृनाम्2.3.69 इति षष्ठीप्रतिषेधो न भवति ॥
index: 1.1.41 sutra: अव्ययीभावश्च
अधिहरि ॥
index: 1.1.41 sutra: अव्ययीभावश्च
अधिहरि॥
index: 1.1.41 sutra: अव्ययीभावश्च
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । स्वरादिनिपातमव्ययम् 1.1.37 इत्यस्मात् सूत्रात् अव्ययीभावश्च 1.1.41 इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं अन्तिमम् (पञ्चमम्) सूत्रम् । अव्ययीभावसमासेन निर्मितानां शब्दानाम् अनेन सूत्रेण अव्ययसंज्ञा भवति ।
अव्ययीभावः 2.1.5 अस्मिन् अधिकारे विद्यमानैः षोडशभिः सूत्रैः 'अव्ययीभाव'समासस्य विधानम् क्रियते । एतैः सर्वैः सूत्रैः सिद्धानि समस्तपदानि प्रकृतसूत्रेण अव्ययसंज्ञां प्राप्नुवन्ति । कानिचन उदाहरणानि एतादृशानि -
अव्ययं विभक्तिसमीपसमृद्धि.. 2.1.6 इत्यनेन सूत्रेण 'हरौ इति' इत्यस्मिन् अर्थे 'अधिहरि' इति प्राप्तं समस्तपदम् अव्ययसंज्ञकं भवति ।
यथासादृश्ये 2.1.7 इत्यनेन 'यथाध्यापकम्', 'यथाध्यापकम्' एतादृशानि अव्ययानि सिद्ध्यन्ति ।
आङ् मर्यादाभिविध्योः 2.1.13 इत्यनेन 'आकुमारम्' 'आपाटलिपुत्रम्' एतादृशानि अव्ययानि सिद्ध्यन्ति ।
सर्वाणि समस्तपदानि कृत्तद्धितसमासाश्च 1.2.46 इत्यनेन प्रातिपदिकसंज्ञकानि सन्ति । एतेषु अव्ययीभावसमासेन सिद्धानां समस्तपदानां प्रकृतसूत्रेण अव्ययसंज्ञा विधीयते । एतेभ्यः विहितानाम् सुप्-प्रत्ययानाम् अग्रे अव्ययादाप्सुपः 2.4.82 इत्यनेन लुक् भवति ।
यथाशक्ति [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । अव्ययीभावश्च 1.1.41 इत्यनेन अव्ययसंज्ञा ।]
--> यथाशक्ति + सुँ [स्वौजस्... 4.1.2 इत्यनेन सुबुत्पत्तिः]
--> यथाशक्ति+ ० [अव्ययादाप्सुपः 2.4.82 इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्]
--> यथाशक्ति [प्रत्ययलोपे प्रत्ययलक्षणम् 1.1.62 इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा ]
अनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः 'रामः यथाशक्ति रक्षणं करोति' अस्मिन् वाक्ये विद्यमानः 'यथाशक्ति' इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् ।
अव्ययीभावसमासेन निर्मितः शब्दः अदन्तः अस्ति चेत् तु अव्ययादाप्सुपः 2.4.82 इत्यनेन प्राप्तः लुक् नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2.4.83 इत्यनेन निषिध्यते ।
उपकृष्ण [कृत्तद्धितसमासाश्च 1.2.46 इति प्रातिपदिकसंज्ञा । अव्ययीभावश्च 1.1.41 इत्यनेन अव्ययसंज्ञा ।]
--> उपकृष्ण + सुँ [स्वौजस्... 4.1.2 इत्यनेन सुबुत्पत्तिः]
--> उपकृष्ण + अम् [नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2.4.83 इत्यनेन अव्ययीभावसमस्तपदात् विहितस्य सुप्-प्रत्ययस्य 'अम्' आदेशः]
--> उपकृष्णम् [अमि पूर्वः 6.1.107 इति सुँ-प्रत्ययस् अम्-आदेशः । ततः सुप्तिङन्तं पदम् 1.4.14 इति पदसंज्ञा ]
अत्र सिद्धम् 'उपकृष्णम्' इति अम्-प्रत्ययान्तं पदम् एव वाक्ये प्रयोक्तव्यम्, न हि 'उपकृष्ण' इति प्रातिपदिकम् । यथा - रामः उपकृष्णम् तिष्ठति ।
index: 1.1.41 sutra: अव्ययीभावश्च
लुङ्मुखस्वरोपचारा इति । अत्र मखस्वरोपचारौ निवर्त्यपानतया प्रयोजनम्, मशकार्थो धूम इतिवत् । लुक् प्रवर्त्यमानतया । उपाग्नीति । अव्ययादिति लुक् । पूर्वपदप्रकृतित्वर एवेति । समासस्वरेणान्तोदातत्वम् । उपपयः काम इति । 'शीलिकामिभिक्षाचरिभ्यो णः' कर्मणि घञन्तेन वा बहुव्रीहिः, अत्र मुखस्वरनिवृत्तिरेव साक्षात्प्रयोजनम्, लुक् तु 'नाव्ययीभावादतोऽम्' इति विशेषप्रतिषेधात् सिद्धः, 'अतः कृकमिकंस' इत्यत्र च 'अनुतरपदस्थस्य' इति वर्तते । नन्वन्यदप्यव्ययकार्यं सम्भवति-उपाग्निकमित्यकच्, उपकुम्भमन्य इति मुम्प्रतिषेधः, उपकुम्भीभूत इति 'अस्य च्वौ' इतीत्वस्योपसङ्ख्यानिकः प्रतिषेधः, उपाग्न्यधीयानेति 'सुबामन्त्रिते' इत्यस्यौपसंख्यानिकः प्रतिषेधः, तत्कुतोऽयं कार्यनियम इत्यत आह - सर्वमिदमित्यादि । इह चेत्यादिना ङ लोकाव्यय' इत्यत्र यद्वक्ष्यति - 'अव्ययप्रतिषेधे तोसुन्कसुनोरप्रतिषेधः' इति, तस्यावक्तव्यतां दर्शयति ॥