तत्र तस्येव

5-1-116 तत्र तस्य इव प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा वतिः

Sampurna sutra

Up

index: 5.1.116 sutra: तत्र तस्येव


'तत्र, तस्य इव' (इति) वतिः

Neelesh Sanskrit Brief

Up

index: 5.1.116 sutra: तत्र तस्येव


'इव' अस्मिन् अर्थे षष्ठीसमर्थात् तथा च सप्तमीसमर्थात् 'वति' प्रत्ययः भवति ।

Kashika

Up

index: 5.1.116 sutra: तत्र तस्येव


तत्र इति सप्तमीसमर्थात् तस्य इति षष्ठीसमर्थाच् च इवार्थे वतिः प्रत्ययो भवति। मथुरायाम् इव मथुरावत् स्रुघ्ने प्राकारः। पाटलिपुत्रवत् साकेते परिखा। षष्ठीसमर्थात् देवदत्तस्य इव देवदत्तवत् यज्ञादत्तस्य गावः। यज्ञदत्तस्य इव यज्ञदत्तवत् देवदत्तस्य दन्ताः।

Siddhanta Kaumudi

Up

index: 5.1.116 sutra: तत्र तस्येव


मथुरायामिव मथुरावत् स्रुघ्ने प्रकारः । चैत्रस्येव चैत्रवन्मैत्रस्य गावः ॥

Laghu Siddhanta Kaumudi

Up

index: 5.1.116 sutra: तत्र तस्येव


मथुरायामिव मथुरावत् स्रुग्ध्ने प्राकारः। चैत्रस्येव चैत्रवन्मैत्रस्य गावः॥

Neelesh Sanskrit Detailed

Up

index: 5.1.116 sutra: तत्र तस्येव


'इव' इति किञ्चन अव्ययम् । समानम् / तुल्यम् इति अस्य अर्थः । अस्मिन्नेव अर्थे सप्तमीसमर्थात् तथा षष्ठीसमर्थात् अनेन सूत्रेण 'वति' प्रत्ययः भवति । यथा -

  1. सप्तमीसमर्थस्य उदाहरणम् -

एतत् वाक्यम् स्वीकुर्मः - 'मथुरायाम् यादृशः दुर्गः (fort) अस्ति, तादृशः एव द्वारकायामपि वर्तते' । अस्मिन् वाक्ये द्वारकायाम् विद्यमानस्य दुर्गस्य निर्देशः मथुरायाम् विद्यमानेन दुर्गेण सह तुलनाम् कृत्वा क्रियते । अस्यां स्थितौ 'मथुरायाम् इव दुर्गः द्वारकायामस्ति' इति उच्यते । एवं स्थिते अत्र वर्तमानसूत्रेण 'मथुरा'शब्दात् 'इव' अस्मिन् अर्थे 'वति' प्रत्ययः भवति - 'मथुरावत् द्वारकायाम् दुर्गः (वर्तते)' - इति ।

एवमेव अन्यानि उदाहरणानि - पाटलिपुत्रवत् साकेते परिखा वर्तते । गृहे मन्दिरवत् पूजा चलति । रात्रौ दिनवत् प्रकाशः दृश्यते । सुखवत् दुःखे सन्तोषः कर्तव्यः ।

  1. षष्ठीसमर्थस्य उदाहरणम् -

एतत् वाक्यम् स्वीकुर्मः - 'देवदत्तस्य यादृशी धेनुः विद्यते, तादृशी एव यज्ञदत्तस्य अपि वर्तते' । अस्मिन् वाक्ये यज्ञदत्तस्य धेनोः निर्देशः देवदत्तस्य समीपे विद्यमानया धेनुना सह तुलनाम् कृत्वा कृतः अस्ति । अस्यां स्थितौ 'देवदत्तस्य इव धेनुः यज्ञदत्तस्य अस्ति' इति उच्यते । एवं स्थिते अत्र वर्तमानसूत्रेण 'देवदत्त'शब्दात् 'इव' अस्मिन् अर्थे 'वति'प्रत्ययः भवति - 'देवदत्तवत् यज्ञदत्तस्य धेनुः (वर्तते)' - इति ।

एवमेव अन्यानि उदाहरणानि - रामवत् लक्ष्मणस्य पूजा कर्तव्या । नदीवत् सरसः जलम् पेयम् । सूर्यवत् चन्द्रस्य अस्तः सम्भवति । यज्ञदत्तवत् देवदत्तस्य दन्ताः ।

विशेषः - सूत्रपाठे वति-प्रत्ययः चतुर्षु अर्थेषु पाठ्यते - तेन तुल्यं क्रिया चेद्वतिः 5.1.115, तत्र तस्येव 5.1.116, तदर्हम् 5.1.117, तथा च उपसर्गाच्छन्दसि धात्वर्थे 5.1.118 । एते चत्वारः अर्थाः सामान्यरूपेण 'वत्यर्थाः' नाम्ना ज्ञायन्ते । एतेभ्यः द्वितीयः अर्थः वर्तमानसूत्रेण दीयते ।

ज्ञातव्यम् -

  1. यदि क्रियायाः तुलना क्रियते, तर्हि तेन तुल्यं क्रिया चेद्वतिः 5.1.115 इत्यनेनैव वति-प्रत्ययः भवति । वर्तमानसूत्रेण क्रियायाः तुल्यत्वे प्रत्ययविधानं न क्रियते, अपि तु द्रव्यस्य उत गुणस्य तुल्यविधाने प्रत्ययः उच्यते । तत्रापि केवलम् षष्ठीसमर्थात् सप्तमीसमर्थादेव अत्र प्रत्ययः भवति, अन्येषु विषयेषु न । यथा - 'रामः यादृशः सत्यवचनी अस्ति तादृशः लक्ष्मणः अपि अस्ति' अस्मिन् वाक्ये अस्य सूत्रस्य प्रसक्तिः नास्ति ।

  2. वति-प्रत्ययस्य विषये केचन बिन्दवः तेन तुल्यं क्रिया चेद्वतिः 5.1.115 इत्यत्र उक्ताः सन्ति । ते अत्र संक्षेपेण निर्दिश्यन्ते । विस्तारेण पिपठिषवः तेन तुल्यं क्रिया चेद्वतिः 5.1.115 इत्यत्र पश्येयुः ।

[अ] तद्धितश्चासर्वविभक्तिः 1.1.38 अनेन सूत्रेण वति-प्रत्ययान्तशब्दाः अव्ययसंज्ञकाः भवन्ति ।

[आ] वति-प्रत्यये परे अङ्गस्य स्वादिष्वसर्वनामस्थाने 1.4.17 इत्यनेन पदसंज्ञा भवति, अतः पदविशिष्टं कार्यमपि भवितुमर्हति ।

[इ] 'वति' प्रत्यये तकारस्य इत्संज्ञा मा भूत् - इति निर्देशयितुम् इकारः स्थापितः अस्ति ।

[ई] स्त्री-शब्दात् तथा पुम्स्-शब्दात् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् 4.1.87 इति बाधित्वा वत्यर्थेषु 'वति' प्रत्ययः एव भवति ।

Balamanorama

Up

index: 5.1.116 sutra: तत्र तस्येव


तत्र तस्येव - तत्र तस्येव । तत्रेवेति तस्येवेति चार्थे सप्तम्यन्तात्षष्ठन्ताच्च वतिः स्यादित्यर्थः । अतृतीयान्तार्थ आरम्भः । अस्मादेव निर्देशादिवशब्दयोगे षष्ठर्थे सप्तम्यपीति भाष्यम् । अत्रक्रिया चे॑दिति नानुवर्तते इत्यभिप्रेत्योदाहरति — मधुरायामिव मधुरावत्स्नुघ्ने प्राकार इति । अत्र मधुरायामिवेति नाधिकरणसप्तमी, तथा सति विद्यमानेति क्रियापदासपेक्षतया असामर्थ्यात् । अत एव अस्मादेव सूत्रनिर्देशादिवशब्दायोगे षष्ठर्थे सप्तमीति भाष्यं सङ्गच्छते । मधुरासम्बन्दिप्राकारसदृशः रुआउघ्नस्य प्राकार इति बोधः । मैत्रस्य भाव इति । वृत्तमित्यर्थः ।

Padamanjari

Up

index: 5.1.116 sutra: तत्र तस्येव


किमर्थमिदमुच्यते न पूर्वेणैव सिद्धम्, न सिद्धयति, तृतीयासमर्थातत्र प्रत्ययः, इह तु सप्तमीषष्ठीसमर्थात् ? एवं तर्हि तुल्यार्थैरिति या तृतीया तयेवशब्दयोगे सर्वे विभक्तयर्था व्याप्ताः, तद्यथा - ब्राह्णण इवाधीते, ब्राह्मणेन तुल्यमधीते; ब्राह्मणमिव पश्यति, ब्राह्णेन तुल्यं पश्यति; ब्राह्मणएनेवाधीतम्, ब्राह्मणेन तुल्यमधीतम्; ब्राह्मणायेव ददाति, ब्राह्मणेन तुल्यं ददाति; ब्राह्मणादिवाधीते, ब्राह्मणेन तुल्यमधीते; ब्राह्मणस्येव क्षत्रियस्य स्वम्, ब्राह्मणेन तुल्यं क्षत्रियस्य स्वम्; ब्राह्ण इव क्षत्रिये वर्तते, ब्राह्मणेन तुल्यं क्षत्रिये वर्तत इति - ततश्च तृतीयान्तदेव पूर्वसूत्रेण प्रत्ययो भविष्यति। तथा च'पूर्ववत्सनः' इति पञ्चम्यन्ताद्वतिर्दृश्यते। एवमपि न सिद्धयति, किं कारणम् ? पूर्वत्र क्रियातुल्यत्वे प्रत्ययः, तच्चावश्यं क्रियाग्रहणं कर्तव्यम्, गवा तुल्यो गवय इत्यादौ मा भूदित्येवरमर्थः; ततश्च द्रव्यगुणयोस्तुल्यत्वे वतिर्न स्यादिति षष्ठीसप्तमयन्तादिवार्थेऽनेन विधीयते ॥