5-3-7 पञ्चम्याः तसिल् प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः
पञ्चम्याः किम्-सर्वनामबहुभ्यः अद्व्यादिभ्यः तसिल्
सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् पञ्चम्यन्तात् 'तसिल्' प्रत्ययः भवति ।
पञ्चम्यन्तेभ्यः किंसर्वनामबहुभ्यस्तसिल् प्रत्ययो भवति। कुतः। यतः। ततः। बहुतः॥
पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् स्याद्वा ॥
पञ्चम्यन्तेभ्यः किमादिभ्यस्तसिल् वा स्यात्॥
अनेन सूत्रेण 'तसिल्' इति विभक्तिसंज्ञकः प्रत्ययः पाठ्यते । अस्मिन् प्रत्यये सकारोत्तरः इकारः उच्चारणार्थः अस्ति, लकारश्च इत्संज्ञकः अस्ति । द्वयोः अपि प्रक्रियायाः प्रारम्भे लोपः भवति, अतः 'तस्' इत्येव प्रयोगे दृश्यते । <<किंसर्वनामबहुभ्योऽद्व्यादिभ्यः>> 5.3.2 इत्यनेन भिन्नेभ्यः शब्देभ्यः विभक्तिसंज्ञकाः तद्धितप्रत्ययाः उच्यन्ते । वर्तमानसूत्रेण उक्तः 'तसिल्' प्रत्ययः अपि विभक्तिसंज्ञकः एव अस्ति, अतः अयम् प्रत्ययः अपि एतेभ्यः सर्वेभ्यः शब्देभ्यः विधीयते । कानिचन उदाहरणानि पश्यामः - 1) कस्मात् इत्येव = कस्मात् + तसिल् ['कस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्] → किम् + तस् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति पञ्चमीप्रत्ययस्य लुक्] → कु + तस् [<<किमः कः>> 7.2.103 इत्यनेन विभक्तिसंज्ञके प्रत्यये परे 'किम्' इत्यस्य 'क' इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे <<कु तिहोः>> 7.2.104 इति 'कु' आदेशः ] → कुतः [<<ससजुषो रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] 2) अमुष्मात् इत्येव = अमुष्मात् + तसिल् ['अस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्] → अदस् + तस् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति पञ्चमीप्रत्ययस्य लुक्] → अदस् + तरुँ [<<ससजुषोः रुँः>> 8.2.66 इति रुँत्वम्] → अमु + तरुँ [<<अदसोऽसेर्दादु दो मः>> 8.2.80 इति 'अदस्' इत्यस्य अमु' आदेशः ।] → अमुतः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] 3) यस्मात् इत्येव = यस्मात् + तसिल् ['यस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्] → यद् + तस् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति पञ्चमीप्रत्ययस्य लुक्] → य + तस् [<<त्यदादीनामः>> 7.2.102 इति दकारस्य अकारादेशः । <<अतो गुणे>> 6.1.97 इति पररूप-एकादेशः ] → यतः [<<ससजुषो रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] 4) अस्मात् इत्येव = अस्मात् + तसिल् ['अस्मात्' शब्दात् स्वार्थे प्रत्ययविधानम्] → इदम् + तस् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति पञ्चमीप्रत्ययस्य लुक्] → इ + तस् [<<इदम इश्>> 5.3.3 इति 'इदम्' इत्यस्य 'इ' आदेशः ।] → इतः [<<ससजुषो रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] एवमेव 'बहुतः', 'सर्वतः', 'विश्वतः', 'उभयतः', 'ततः', 'अन्यतः', 'पूर्वतः', 'एकतः' - आदयः शब्दाः सिद्ध्यन्ति । एते सर्वे <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अव्ययसंज्ञां अपि स्वीकुर्वन्ति । विशेषः - 1. अनेन सूत्रेण पञ्चमीविभक्त्यन्तात् प्रत्ययः उच्यते, न हि 'पञ्चमीसमर्थात्' इति स्मर्तव्यम् । अत्र समर्थाधिकारः न प्रचलति, अतः अत्र स्वार्थे एव प्रत्ययविधानम् क्रियते, सामर्थ्यम् नापेक्षते । 2. तसिल्-प्रत्यये परे <<तसिलादिष्वाकृत्वसुचः>> 6.3.35 इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति । यथा - बह्व्याः इत्येव = बह्वी + तसिल् → बहु + तसिल् [पुंवद्वावः] → बहुतः ।
<<पञ्चम्यास्तसिल्>> - तदेव तसिलादिप्रत्ययेषु प्राग्दिशीयेषु परेषु कतिपयान् आदेशान्विधाय तसिलादिप्रत्ययान्वक्तुमुपक्रमते — पञ्चम्यास्तसिल् । किमादिभ्य इति किंसर्वनामबहुभ्य इत्यर्थः । वा स्यादिति ।समर्थाना॑मित्यतो वाग्रहणस्याऽनुवृत्तेरिति भावः ।
तसिल्प्रत्ययो भवतीति। यदि पुनः'पञ्चम्याः' 'सप्तम्याः' इति षष्ठ।लश्रयेण पञ्चम्यादीनां तसिलादय आदेशा विज्ञायेरन्, सुब्लुक्स्वरगुणदीर्घत्वैत्वौत्वस्मायादिविधिप्रतिषेधः। सुब्लुक् - ठव्ययात्यप्ऽ, ततस्त्यः, तत्रत्यः,'सुपो धातुप्रातिपदिकयोः' इति तसित्रलोर्लुक् प्राप्नोति। स्वरः - तदा, यदा, ठनुदातौ सुप्पितौऽ इत्यनुदातत्वं प्राप्नोति। गुणः - कुतः,'घेङिति' इति गुणः प्राप्नोति। दीर्घत्वम् - तर्हि, ठतो दीर्गो यञिऽ,'सुपि च' इति दीर्घत्वं प्राप्नोति। एत्वम् - तर्हि, ठतो दीर्घो यञिऽ'सुपि च' इति दीर्घत्वं प्राप्नोति। एत्वम् - तेषु, तत्र,'बहुवचने झल्येत्' प्राप्नोति। औत्वम्-कस्मिन्, कुत्र, ठौत्ऽ ठच्च घेःऽ इत्यौत्वं प्राप्नोति। स्मायादितस्मात्, तस्मिन्, तत्र,'ङसिड्योः स्मात्स्मिनौ' इति स्मात्स्मिनौ प्राप्नुतः। तस्मात्'पञ्चम्याः सप्तम्या इति पञ्चमी, तसिलादयश्च प्रत्ययाः' इति युक्तम्। अत एव ठितराभ्यःऽ इति पञ्चमीनिर्द्देशः; इतरथा ठितरासाम्ऽ इति वक्तव्यं स्यात्। यदि तर्हि तसिलादयः प्रत्ययाः, नादेशाः,'तसेश्च' इति तस्यतेर्धातोरपि दोषः;'प्रतियोगे पञ्चम्यास्तसिः' , ठपादाने चाहीयरुहोःऽ इत्यत्रअप्यदेशत्वात्पञ्चम्यादेशस्य तसेस्तसिलादेशविदानात् ? प्रत्ययपक्षेऽपि न दोषः; तसेरितीकारो विवक्षितः, तेन धातोर्न भविष्यति ॥