5-4-67 मद्रात् परिवापणे प्रत्ययः परः च आद्युदात्तः च तद्धिताः डाच् कृञः
index: 5.4.67 sutra: मद्रात् परिवापणे
मद्रात् परिवापणे कृञः डाच्
index: 5.4.67 sutra: मद्रात् परिवापणे
कृ-धातोः योगे विद्यमानात् 'मद्र' शब्दात् 'परिवापण' अस्मिन् सन्दर्भे स्वार्थे डाच्-प्रत्ययः भवति ।
index: 5.4.67 sutra: मद्रात् परिवापणे
कृञः इत्येव। मद्रशब्दात् परिवापणे डाच् प्रत्ययो भवति कृञो योगे। परिवापणं मुण्डनम्। मद्रशब्दो मङ्गलार्थः। मङ्गलं मण्डनं करोति मद्राकरोति। भद्राच् चेति वक्तव्यम्। भद्राकरोति नापितः कुमारम्। परिवापणे इति किम्? भद्रं करोति।
index: 5.4.67 sutra: मद्रात् परिवापणे
मद्रशब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्राकरोति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः ॥<!भद्राच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ भद्राकरोति । अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति । भद्रं करोति ॥। इति तद्धिताधिकारे स्वार्थिकप्रकरणम् ।
index: 5.4.67 sutra: मद्रात् परिवापणे
'परिवापणम्' (= मुण्डनम्, removing all the hairs from the head) इत्यस्मिन् सन्दर्भे प्रयुक्तः यः 'मद्र' (= मङ्गलम्, भद्रम्, auspicious ) शब्दः , सः यदा 'कृ' धातोः योगे प्रयुज्यते तदा तस्मात् स्वार्थे डाच्-प्रत्ययः भवति ।
यथा - मद्रम् परिवापणम् करोति इत्येव = मद्रा करोति । प्रक्रिया इयम् -
मद्र + डाच्
→ मद्र् + आ [टेः 6.4.143 इति टिलोपः]
→ मद्रा
यत्र 'मुण्डनम्' इति अर्थः न विद्यते, तत्र वर्तमानसूत्रस्य प्रयोगः न भवति । यथा - मद्रम् कार्यम् करोति ।
अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!भद्राच्चेति वक्तव्यम्!> । 'भद्र' शब्दात् अपि अस्मिन्नेव विषये डाच्-प्रत्ययः भवति इत्यर्थः । यथा - भद्रम् परिवापणम् करोति इत्येव = भद्राकरोति (माङ्गल्यार्थम् मुण्डनं करोति इत्याशयः) ।
ज्ञातव्यम् -
अ) निपातसंज्ञायाः कारणात् स्वरादिनिपातमव्ययम् 1.1.37 इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति ।
आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् कुगतिप्रादयः 2.2.18 इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - 'मद्राकृत्य', 'मद्राकृतः' - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'मद्रा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् ।
इ) गतिसंज्ञकाः शब्दाः ते प्राग्धातोः 1.4.80 इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'मद्रा करोति' इत्येव वक्तव्यम्, न हि 'करोति मद्रा' इति ।
index: 5.4.67 sutra: मद्रात् परिवापणे
मद्रात् परिवापणे - मद्रात्परिवापणे ।डा॑जिचि शेषः । मङ्गलार्थ इति । मङ्गलपर्याय इत्यर्थः । परिवापणंमुण्डनमिति । 'केशान्वपते' इत्यादौ तथा दर्शनादिति भावः । माङ्गल्यमुण्डनेनेति । चौलेनेत्यर्थः । मद्रं करोप्ति भद्रं करोतीति । क्षेमं करोतीत्यर्थः । अत्र परिवापणाऽप्रतीतेर्न डाजिति भावः । * इति बालमनोरमायाम् तद्धितप्रक्रिया । *अथ तद्धितेषु रक्ताद्यर्थकाः । — — — — — — — — -