कृन्मेजन्तः
1-1-39 कृन्मेजन्तः अव्ययम्
Sampurna sutra
Up
मेजन्तः कृत् अव्ययम्
Neelesh Sanskrit Brief
Up
मकारान्तः उत 'एच्' वर्णान्तः कृत् प्रत्ययः यस्य अन्ते विद्यते सः शब्दः 'अव्यय' नाम्ना ज्ञायते ।
Neelesh English Brief
Up
A word that ends in - (a) a मकारान्त कृत्-प्रत्यय, or (b) a कृत्-प्रत्यय that ends in the एच् letter - is known as 'अव्यय'.
Kashika
Up
कृद् यो मकारान्त एजन्तश्च तदन्तं शब्दरूपमव्ययसंज्ञं भवति। स्वादुंकारं भुङ्क्ते। सम्पन्नंकारं भुङ्क्ते । लवणंकारं भुङ्क्ते। एजन्तः — वक्षे रायः। ता वा॒मेषे॒ रथा॑नाम् (ऋ० ५.६६.३)। क्रत्वे॒ दक्षा॑य जी॒वसे॑ (ऋ० १०.५७.४)। ज्योक् च॒ सूय᐀्ं॑ दृ॒शे (ऋ० १०.५७.४)। वक्षे इति वचेः <<तुमर्थे सेसेन०>> ३.४.९ इति सेप्रत्यये कुत्वे षत्वे च कृते रूपम्। एषे इति इणः सेप्रत्यये गुणे षत्वे च कृते रूपम्। जीवसे इति जीवेरसेप्रत्यये रूपम्। दृशे इति दृशेः केन्प्रत्ययो निपात्यते — <<दृशे विख्ये च>> ३.४.११ इति। अन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थम्। इह मा भूत् — आधये, चिकीर्षवे, कुम्भकारेभ्य इति॥
Siddhanta Kaumudi
Up
कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारं स्मारम् । जीवसे । पिबध्यै ॥
Laghu Siddhanta Kaumudi
Up
कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात्। स्मारं स्मारम्। जीवसे। पिबध्यै॥
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे पाठितासु संज्ञासु अन्यतमा अस्ति 'अव्यय' इति संज्ञा । <<स्वरादिनिपातमव्ययम्>> 1.1.37 इत्यस्मात् सूत्रात् <<अव्ययीभावश्च>> 1.1.41 इति यावत्सु पञ्चसु सूत्रेषु अव्ययसंज्ञा पाठ्यते । एतेषु इदं तृतीयं सूत्रम् । विशिष्टानाम् कृदन्तशब्दानाम् अनेन सूत्रेण अव्ययसंज्ञा दीयते ।
अष्टाध्याय्याम् <<धातोः>> 3.1.91 अस्मिन् अधिकारे सर्वे कृत्-प्रत्ययाः विहिताः सन्ति । एतेषु ये कृत्-प्रत्ययाः मकारान्ताः सन्ति, ये च 'एच्' प्रत्याहारान्ताः अन्ति, तैः सिद्धाः शब्दाः प्रकृतसूत्रेण अव्ययसंज्ञकाः भवन्ति ।
मकारान्ताः कृत्प्रत्ययाः
अष्टाध्याय्याम् आहत्य चत्वारः कृत्प्रत्ययाः मकारान्ताः सन्ति -
1)
णमुल्-प्रत्ययः - <<आभीक्ष्ण्ये णमुल् च>>
3.4.22 तथा च <<अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ>>
3.4.59 एतयोः निर्दिष्टः णमुल्-प्रत्ययः ('णम्' इति दृश्यरूपम्) मकारान्तः अस्ति । अस्य प्रयोगेण सिद्धम् कृदन्तम् अव्ययसंज्ञकम् भवति । यथा, स्मृ + णमुल् --> 'स्मारम्' इति अव्ययम् । उच्चैस् + कृ + णमुल् --> 'उच्चैःकारम्' इति अव्ययम् ।
2)
खमुञ्-प्रत्ययः - <<कर्मण्याक्रोशे कृञः खमुञ्>>
3.4.25 अनेन निर्दिष्टः खमुञ्-प्रत्ययः ('खम्' इति दृश्यरूपम्) मकारान्तः अस्ति । अस्य प्रयोगेण सिद्धम् कृदन्तम् अपि अव्ययसंज्ञकम् भवति । यथा, चोर + कृ + खमुञ् --> 'चोरंकारम्' इति अव्ययम् ।
3)
तुमुन्-प्रत्ययः - <<तुमुण्वुलौ क्रियायां क्रियार्थायाम्>>
3.3.10 इत्यनेन निर्दिष्टः तुमुन्-प्रत्ययः ('तुम्' इति दृश्यरूपम्) मकारान्तः अस्ति । अस्य प्रयोगेण अपि अव्ययानि सिद्ध्यन्ति । यथा, कृ + तुमिन् --> 'कर्तुम्' इति अव्ययम् ।
4)
कमुल्-प्रत्ययः - <<शकि णमुल्कमुलौ>>
3.4.12 अनेन सूत्रेण णमुल् तथा कमुल् एतौ मकारान्तौ प्रत्ययौ वेदेषु कृतौ दृश्येते । एतयोः प्रयोगेण अपि अव्ययं सिद्ध्यति । वि + भज् + णमुल् --> 'विभाजम्' इति अव्ययम् । अप + लुप् + कमुल् --> 'अपलुपम्' इति अव्ययम् ।
एजन्ताः कृत्प्रत्ययाः
अष्टाध्याय्याम् कृदधिकारे एजन्ताः प्रत्ययाः एकेनैव सूत्रेण दत्ताः सन्ति - <<तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः>>
3.4.9 अस्मिन् सूत्रे पाठिताः सर्वे प्रत्ययाः एजन्ताः सन्ति । एते सर्वे वैदिकप्रत्ययाः सन्ति । एतेषाम् प्रयोगेण अपि अव्ययाः सिद्ध्यन्ति । यथा - पा + शध्यै --> 'पिबध्यै' इति अव्ययम् ।
सुबुत्पत्तिः, पदसंज्ञा
सर्वाणि कृदन्तानि <<कृत्तद्धितसमासाश्च>>
1.2.46 इत्यनेन प्रातिपदिकसंज्ञकानि सन्ति । एतेषु मकारान्तप्रत्ययनिर्मितानाम् एजन्तप्रत्ययनिर्मितानां च कृदन्तानाम् प्रकृतसूत्रेण अव्ययसंज्ञा विधीयते । एतेभ्यः विहितानाम् सुप्-प्रत्ययानाम् अग्रे <<अव्ययादाप्सुपः>>
2.4.82 इत्यनेन लुक् भवति ।
कर्तुम् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा । <<कृन्मेजन्तः>> 1.1.39 इत्यनेन अव्ययसंज्ञा ।]
--> कर्तुम् + सुँ [<<स्वौजस्...>> 4.1.2 इत्यनेन सुबुत्पत्तिः]
--> कर्तुम् + ० [<<अव्ययादाप्सुपः>> 2.4.82 इत्यनेन अव्ययसंज्ञकात् विहितस्य सुप्-प्रत्ययस्य लुक्]
--> कर्तुम् [<<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इति प्रत्ययस्य लोपे कृते अपि तल्लक्षणा <<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा ]
अनेन प्रकारेण पदसंज्ञायाम् जातायाम् एव अस्य शब्दस्य वाक्ये प्रयोगः भवति । अतः 'रामः रक्षणं कर्तुम् गच्छति' अस्मिन् वाक्ये विद्यमानः 'कर्तुम्' इति शब्दः पदसंज्ञकः अस्ति, न हि प्रातिपदिकम् ।
सूत्रे 'अन्त'ग्रहणस्य प्रयोजनम्
प्रकृतसूत्रे 'कृन्मेजन्तः' इत्यस्य स्थाने 'कृन्मेच्' इत्येव उच्यते चेदपि 'मेच्' इति शब्दं 'कृत्' इत्यस्य विशेषणरूपेण स्वीकृत्य <<येन विधिस्तदन्तस्य>>
1.1.72 इत्यनेन तदन्तविधनिना 'मेच् कृत्' इत्यस्य अर्थः 'मकारान्तः / एच्-वर्णान्तः कृत्प्रत्ययः' इत्येव भवितुम् अर्हति । तथापि अस्मिन् सूत्रे 'मेजन्त' इति अन्तग्रहणम् कृतम् अस्ति । अस्मिन् विषये तत्वबोधिनीकारः वदति -
येन विधिस्तदन्तस्य इत्यनेन एव सिद्धे सूत्रे अन्तग्रहणम् औपदेशिकप्रतिपत्त्यर्थम्, तेन इह न - आधये, चिकीर्षवे । इत्युक्ते, अत्र 'अन्त'ग्रहणेन एतत् स्पष्टीक्रियते यत् केवलम् तेषाम् कृत्-प्रत्ययान्तानाम् अत्र ग्रहणम् करणीयम् ये
मूलरूपेण एजन्ताः सन्ति - यथा, से, असे, असेन् - आदयः । यत्र कृत्प्रत्ययः मूलरूपेण एजन्तः नास्ति (यथा, अण्, उ इत्यादयः) परन्तु प्रक्रियायाम् कुत्रचित् अग्रे एजन्तत्वम् गृह्णाति तत्र अस्य सूत्रस्य प्रयोगः न करणीयः । यथा, 'कुम्भ + कृ + अण् --> कुम्भकार' इत्यत्र विद्यमानः अण्-प्रत्ययः यद्यपि अकारान्तः अस्ति, तथापि अस्मात् प्रातिपदिकात् चतुर्थीबहुवचनस्य प्रत्यये कृते 'कुम्भकार + भ्यस्' इति स्थिते <<बहुवचने झल्येत्>>
7.3.103 इत्यनेन अदन्त-अङ्गस्य एकारादेशे कृते 'कुम्भकारे' इति एजन्तम् रूपम् सिद्ध्यति । परन्तु एतत् एजन्तम् रूपम् अत्र न स्वीकरणीयम्, केवलम् प्रत्ययस्य औपदेशिस्वरूपम् (अकारान्तत्वम्) एव आश्रित्य अव्ययसंज्ञायाः निर्णयः करणीयः - इति अत्र 'अन्त'ग्रहणेन ज्ञाप्यते । वस्तुतस्तु 'कुम्भकारेभ्यः' इत्यादिषु उदाहरणेषु <<लक्षणप्रतिपदोक्तयोः प्रतिपदपक्तस्यैव ग्रहणम्>>, तथा च <<सन्निपातविधिरनिमित्तको तद्विघातस्य>> इत्यादिभिः भिन्नाभिः परिभाषाभिः अपि अव्ययत्वं निषेधयितुम् शक्यते, अतः अस्मिन् सूत्रे 'अन्त'ग्रहणम् नैव आवश्यकम् । तथापि अत्र स्थापितम् अन्तग्रहणम् एतासाम् परिभाषाणाम् अनित्यत्वज्ञापनार्थम् अस्ति इति प्रौढमनोरमायां निर्दिश्यते ।
Balamanorama
Up
<<कृन्मेजन्तः>> - कृन्मेजन्तः । कृत्-मेजन्त इति छेदः । म् च एच्च मेचौ , तौ अन्ते यस्येति बहुव्रीहिः । तदाह — कृद्योमान्त इति । तदन्तमिति । केवलस्य कृतः प्रयोगाऽनर्हत्वात्संज्ञाविधावपि तदन्तविधिरिति भावः । स्मारं स्मारमिति ।आभीक्ष्ण्ये णमुल्चे॑ति स्मृधातोर्णमुल्,अचो ञ्णिती ति वृद्धिः, रपरत्वम्,नित्यवीप्सयो॑रिति द्वित्वं, मान्तकृदन्तत्वादव्ययत्वम् । जीवसे इति । 'तुमर्थे सेसेनसे' इत्यादिनाऽसेप्रत्ययः । पिबध्यै इति । 'तुमर्थे से' इत्यादिना शध्यैप्रत्ययः । शित्त्वात्सार्वधातुकत्वम् ।पाघ्राध्मे॑ति पिबादेश इति भावः । शप्तु न, कत्र्रर्थे सार्वधातुके तद्विधेः, 'अव्ययकृतो भावे' इति सिद्धान्तादित्याहुः ।
Padamanjari
Up
अत्रापि पूर्ववतदन्तस्य संज्ञेति स्थिते मेजन्तग्रहणं कदन्तस्य विशेषणम् - 'कृदन्तम्मेजन्तमब्ययम्' इति । कृत एव वा-कृद्यो मेजन्तस्तदन्तमव्यमिति । तत्राद्यो पक्षे प्रतामौ प्रतामः, लवमाचष्टे इति णिचि क्विपि णिलोपे ऊठि 'एत्येधत्यूठ्सु' इति वृद्धौ लौरत्रापि प्राप्नोति, भवति ह्यएतत् प्रत्ययलक्षणेन कृदन्तम्, मेजन्तं च श्रूयत इतीमं दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह - कृद्य इति । नन्वत्रापि कारयाञ्चकार - आमन्तस्य न प्राप्नोति, पूर्वत्र तु लिटः कृत्वात्सिद्धम्, अत्रापि स्वरादिष्वामिति पाठात् सिद्धम् । अथापि तत्र तद्धितस्य पाठः; एवमपि कृदन्तत्वादुत्पन्नानां सुपाम् 'आमः' इति लुग्भविष्यति, 'लेः' इति हि तत्र नानुवर्तते । स्वादुङ्कारमिति । श्वादुमि णमुल्' स्वादुमित्यर्थग्रहणात्सम्पन्नङ्कारमित्यपि भवति, स्वादुमिति । निपातनात्पूर्वपदस्य मान्तत्वम् । 'येन विधिस्तदन्तस्य' इत्येव सिद्धेरपार्थकमन्तग्रहणं तत्राह-अन्तग्रहणमित्यादि । नित्ययोगे बहुव्रीहिविज्ञानादौपदेशिकप्रतिपतिः । आधय इति । आङ्पूर्वाद्धाञः 'उपसर्गे घोः किः',चतुर्थ्येकवचने 'घेर्ङिति' आधये, भवत्ययं संप्रत्येजन्तः, नोपदेशे । एवं चिकीर्षवे-करोतेः सन्नन्तात् शनाशंसभिक्ष उः ', कुम्भकारशब्दः कर्मण्यणन्तः 'बहुवचने झल्येत्', अत्राव्ययसंज्ञायाम् 'अव्ययात्' इति लुक् स्यात्, सन्निपातपरिभाषयाऽप्येतत्सिद्धम्, तथा लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति । अन्तग्रहणं तु यत्नान्तरं द्रष्टव्यम् ॥