5-4-18 द्वित्रिचतुर्भ्यः सुच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्
द्वि-त्रि-चतुर्भ्यः क्रिया-अभ्यावृत्तिगणने सुच्
क्रियायाः पौनःपुन्यस्य गणनार्थम् 'द्वि', 'त्रि' तथा 'चतुर्' एतेभ्यः शब्देभ्यः 'सुच्' प्रत्ययः भवति ।
द्वि त्रि चतुर् इत्येतेभ्यः संख्याशब्देभ्यः क्रियाभ्यावृत्तिगणने वर्तमानेभ्यः सुच् प्रत्ययो भवति। कृत्वसुचोऽपवादः। द्विर्भुङ्क्ते। त्रिर्भुङ्क्ते। चतुर्भुक्तम्। चकारः स्वरार्थः॥
कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः । रात्सस्य <{SK280}> । चतुः ॥
'अभ्यावृत्तिः' इत्युक्ते पौनःपुन्यम् (repetition) । यत्र काचन क्रिया पुनः पुनः भवति, तत्र तस्याः क्रियायाः आवर्तनस्य गणनार्थम् सङ्ख्यावाचकशब्दात् <<संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्>> 5.4.17 इत्यनेन औत्सर्गिकरूपेण 'कृत्वसुच्' इति प्रत्ययः स्वार्थे विधीयते । परन्तु 'द्वि', 'त्रि', तथा 'चतुर्' एतेभ्यः शब्देभ्यः 'कृत्वसुच्' प्रत्ययस्य अपवादस्वरूपेण 'सुच्' इति प्रत्ययः भवति । यथा - 1. द्विवारं भुङ्क्ते इत्येव = द्वि + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः] → द्वि + स् [चकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः । उकारः उच्चारणार्थः, तस्यापि लोपः भवति । ] → द्विः [<<ससजुषो रुँः>> 8.2.66 इति रुत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] यथा - द्विः भुङ्क्ते । 2. त्रिवारं भुङ्क्ते इत्येव = त्रि + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः] → त्रि + स् [चकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → त्रिः [<<ससजुषो रुँः>> 8.2.66 इति रुत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] यथा - त्रिः भुङ्क्ते । 3. चतुर्वारं भुङ्क्ते इत्येव = चतुर् + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः] → चतुर् + स् [चकारस्य <<हलन्त्यम्>> 1.3.3 इति इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति लोपः] → चतुर् [<<रात्सस्य>> 8.2.24 इति सकारलोपः] → चतुः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] यथा - चतुः भुङ्क्ते । स्मर्तव्यम् - 1. अनेन सूत्रेण सिद्धाः 'द्विः', 'त्रिः', 'चतुः' एते शब्दाः <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अव्ययसंज्ञकाः भवन्ति । 2. 'सुच्' प्रत्यये चकारस्य इत्संज्ञा स्वरनिर्देशार्थमस्ति । <<तद्धितस्य>> 6.1.164 इत्यनेन चित्-प्रत्यये परे तद्धितान्तस्य अन्तिमः स्वरः उदात्तः भवति । यथा, 'द्विः' इत्यत्र वकारोत्तरः इकारः अनेन उदात्तत्वं प्राप्नोति । 3. यद्यपि इदम् सूत्रम् <<समर्थानाम् प्रथमात् वा>> 4.1.82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, <<किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे>> 5.4.11 इत्यस्मात् आरभ्य <<एकस्य सकृच्च>> 5.4.19 इतिपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि सुच्-प्रत्ययान्तरूपाणि एव प्रयोक्तव्यानि ।इत्युक्ते, 'द्वौ वारौ भुङ्क्ते' इति विग्रहवाक्यम् प्रयोक्तव्यम्, नो चेत् 'द्विः भुङ्क्ते' इति तद्धितान्तशब्दः प्रयोक्तव्यः । परन्तु 'द्वौ वारौ भुङ्क्ते' इति निर्देशयितुम् केवलम् 'द्वौ भुङ्क्ते' इति प्रयोगः न साधु ।
<<द्वित्रिचतुर्भ्यः सुच्>> - द्वित्रिचतुभ्र्यः । क्रियाभ्यावृत्तिगणने इत्येव । सुचि चकार इत्, उकार उच्चारणार्थः । पूर्ववदव्ययत्वम् । त्रिरिति । भुङ्क्ते॑ इत्यनुषज्यते । रादिति । चतुर्शब्दात्सुचि चतुर्स् इति स्थितेरात्सस्ये॑ति सकारस्य लोपे चतुरिति रूपमित्यर्थः । अत्र 'भुङ्क्ते' इत्यनुषज्यते ।
सकृदिति। रात्सस्यऽ इति सुचो लोपः। सुचश्चकारः स्वरार्त इति।'चितः सप्रकृतेर्बह्वकजर्थम्' इति वचनाच्चतुरित्यस्यान्तोदातो भवति; अन्यथाठ्चतेरुरन्ऽ इत्युरन्प्रत्ययान्तत्वादाद्यौदातः स्यात् ॥