5-3-46 एधाच् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः धा अन्यतरस्याम् द्वित्र्योः
द्वि-त्र्योः धः अन्यतरस्याम् एधाच्
'द्वि' तथा 'त्रि' एताभ्याम् विहितस्य 'धा' प्रत्ययस्य विकल्पेन 'एधाच्' इति आदेशः भवति ।
द्वित्र्योः संबन्धिनो धाप्रत्ययस्य एधाजादेशो भवत्यन्यतरस्याम्। चकारो विकल्पानुकर्षणार्थः। द्वेधा, द्वैधम्, द्विधा। त्रेधा, त्रैधम्, त्रिधा॥
द्वेधा । त्रेधा ॥
<<संख्याया विधार्थे धा>> 5.3.42 तथा <<अधिकरणविचाले च>> 5.3.43 एतयोः सूत्रयोः सङ्ख्यावाचिभ्यः शब्देभ्यः 'धा' इति प्रत्ययः भवति । 'द्वि' तथा 'त्रि' एताभ्याम् विहितस्य अस्यैव 'धा' प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'एधाच्' इति आदेशः विधीयते । अस्मिन् आदेशे चकारस्य इत्संज्ञा भवति । प्रक्रिया एतादृशी - द्वि / त्रि + धा → द्वि / त्रि + एधाच् ['धा' इत्यस्य 'एधाच्' आदेशः ] → द्व् / त्र् + एधा [<<यस्येति च>> 6.4.148 इति इकारलोपः] → द्वेधा, त्रेधा । यथा - द्वेधा भुङ्क्ते (= द्वाभ्यां प्रकाराभ्यां भुङ्क्ते) । त्रेधा वदति (= त्रिभिः प्रकारैः वदति) । एका राशी द्वेधा त्रेधा वा कुरु । अयमादेशः विकल्पेन भवति, अतः पक्षे 'द्विधा' तथा 'त्रिधा' एते रूपे अपि भवतः । ज्ञातव्यम् - 1. अनेन सूत्रेण निर्मितयोः 'द्वेधा' तथा 'त्रेधा' शब्दयोः <<तद्धितश्चासर्वविभक्तिः>> 1.1.38 इत्यनेन अव्ययसंज्ञा भवति । 2. 'द्वि' तथा 'त्रि' एताभ्यां विहितस्य 'धा' प्रत्ययस्य <<द्वित्र्योश्च धमुञ्>> 5.3.45 इत्यनेन विकल्पेन धमुञ्-आदेशः अपि भवति । 'धमुञ्' इत्यत्र ञकारस्य इत्संज्ञा भवति, उकारश्च उच्चारणार्थः अस्ति । द्वयोः अपि लोपे कृते 'धम्' इत्येव प्रयोगे दृश्यते, येन 'द्वैधम्' तथा 'त्रैधम्' एते रूपे सिद्ध्यतः ।
<<एधाच्च>> - एधाच्च । द्वित्रिभ्यां परस्य धाप्रत्ययस्यं एधाजित्यादेशः स्यादित्यर्थः ।पञ्चम्यास्तसि॑लित्यारभ्यएधाच्चे॑त्यन्तैर्विहितप्रत्ययान्तानामव्ययत्वम् ।
योगविभागो यथासंख्यनिरासार्थः ॥