4-3-113 तसिः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन एकदिक्
तसिश्च प्रत्ययो भवति तेनैकदिगित्येतस्मिन् विषये। पूर्वेण घादिष्वणादिषु च प्राप्तेष्वयमपरः प्रत्ययो विधीयते। स्वरादिपाठादव्ययत्वम्। सुदामतः। हिमवत्तः। पिलुमूलतः॥
स्वरादिपाठादव्ययत्वम् पीलुमूलेन एकदिक् पीलुमूलतः ॥
<<तसिश्च>> - तसिश्च ।तेनैकदिगि॑त्यर्थे तृतीयान्तात्तसिश्च स्यादित्यर्थः । इकार उच्चारणार्थः । स्वरादिपाठादिति ।स्वरादिनिपातमव्यय॑मिति प्रकरणेतद्धितश्चासर्वविभक्ति॑रित्यत्र 'तसिलादयः' इतिपरिगणने तसेः पाछादित्यर्थः ।
स्वरादिपाठादव्ययत्वमिति । तस्मिन्नेवार्थे विधैइयमानस्याप्यस्य लिङ्गसंख्यानुपादानमपि स्वाभाविकं वेदितव्यम् ॥