5-4-19 एकस्य सकृत् च प्रत्ययः परः च आद्युदात्तः च तद्धिताः सङ्ख्यायाः क्रियाभ्यावृत्तिगणने सुच्
index: 5.4.19 sutra: एकस्य सकृच्च
क्रियागणने एकस्य सकृत्, सुच् च
index: 5.4.19 sutra: एकस्य सकृच्च
क्रियायाः गणने कर्तव्ये 'एक' शब्दात् सुच्-प्रत्ययः भवति, तथा च 'एक' शब्दस्य 'सकृत्' इति आदेशः अपि भवति ।
index: 5.4.19 sutra: एकस्य सकृच्च
एकशब्दस्य सकृतित्ययमादेशो भवति सुच् च प्रत्ययः क्रियागणेन। कृत्वसुचोऽपवादः। अभ्यावृत्तिस् त्विह न सम्भवति। सकृद् भुङ्क्ते। सकृदधीते। एकः पाकः इत्यत्र न भवति, अनभिधानात्।
index: 5.4.19 sutra: एकस्य सकृच्च
सकृदित्यादेशः स्याच्चात्सुच् । सकृद्भुङ्क्ते । संयोगान्तस्य <{SK54}> इति सुचो लोपः न तु हल्ङ्याप् - <{SK252}> इति । अभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् ॥
index: 5.4.19 sutra: एकस्य सकृच्च
यदि काचित् क्रिया एकवारम् एव भवति, तर्हि तस्याः गणनायाः निर्देशार्थम् 'एक' शब्दात् 'सुच्' इति प्रत्ययः भवति, तथा च प्रक्रियायाम् 'एक' शब्दस्य 'सकृत्' इति आदेशः अपि भवति ।
सुच् प्रत्यये चकारस्य इत्संज्ञा, लोपः च भवति । सकारोत्तरः उकारः उच्चारणार्थः अस्ति । प्रक्रियायाम् केवलम् 'स्' इत्यवशिष्यते । तस्यापि संयोगान्तस्य लोपः 8.2.23 इत्यनेन लोपः भवति, अतः 'सकृत्' इत्येव अवशिष्यते । प्रक्रिया इयम् -
एकवारम् इत्येव
= एक + सुच् [वर्तमानसूत्रेण सुच्-प्रत्ययः]
→ सकृत् + स् [इत्संज्ञालोपः]
→ सकृत् [संयोगान्तस्य लोपः 8.2.23 इति सकारलोपः]
→ सकृत्
यथा - देवदत्तः सकृत् भुङ्क्ते । एकवारं भुङ्क्ते इत्याशयः ।
स्मर्तव्यम् -
यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4.1.82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथाप्यत्र विकल्पः न विधीयते । भाष्ये अस्मिन् सन्दर्भे उच्यते - 'आमादयः प्राङ्मयटः नित्याः' । इत्युक्ते, किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे 5.4.11 इत्यस्मात् आरभ्य वर्तमानसूत्रपर्यन्तम् विहिताः सर्वे प्रत्ययाः नित्याः एव भवन्ति । अतः वर्तमानसूत्रस्य सन्दर्भे अपि सुच्-प्रत्ययान्तरूपम् एव प्रयोक्तव्यम् ।इत्युक्ते, 'एकवारं भुङ्क्ते' विग्रहवाक्यम् प्रयोक्तव्यम्, नो चेत् 'सकृत् भुङ्क्ते' इति तद्धितान्तशब्दः प्रयोक्तव्यः । परन्तु 'एकवारं भुङ्क्ते' इति निर्देशयितुम् केवलम् 'एकः भुङ्क्ते' इति प्रयोगः न साधु ।
अनेन सूत्रेण निर्मितः 'सकृत्' शब्दः तद्धितश्चासर्वविभक्तिः 1.1.38 इत्यनेन अव्ययसंज्ञकः भवति । अतः सर्वासु विभक्तिषु लिङ्गेषु वचनेषु च अस्य 'सकृत्' इत्येव रूपं प्रयुज्यते । यथा - सीता सकृत् गच्छति; पुष्पाणि सकृत् विकसन्ति; वयं सकृत् ब्रूमः - आदयः ।
अस्मिन् सूत्रे 'क्रिया' इति शब्दः अनुवृत्तिरूपेण स्वीक्रियते, अतः केवलम् 'एकम् फलम्', 'एकः वृक्षः' इत्येतेषु विषयेषु वर्तमानसूत्रस्य प्रयोगः न भवति । केवलम् क्रिया निर्दिश्यते चेदेव अस्य सूत्रस्य प्रयोगः कर्तव्यः ।
अनेन सूत्रेण उक्तः 'सुच्' प्रत्ययः संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् 5.4.17 इत्यस्य अपवादरूपेण नैव विधीयते, यतः अत्र क्रियायाः अभ्यावृत्तिः नैव सम्भवति । When an action is done only once, there is no question of having a repetition. । अतएव अस्मिन् सूत्रे केवलम् 'क्रियागणने' इत्यनुवर्तते, न हि 'अभ्यावृत्तिः' इति ।
'सुच्' प्रत्यये चकारस्य इत्संज्ञा स्वरनिर्देशार्थमस्ति । तद्धितस्य 6.1.164 इत्यनेन चित्-प्रत्यये परे तद्धितान्तस्य अन्तिमः स्वरः उदात्तः भवति । यथा, 'सकृत्' इत्यत्र ककारोत्तरः ऋकारः अनेन उदात्तत्वं प्राप्नोति ।
index: 5.4.19 sutra: एकस्य सकृच्च
एकस्य सकृच्च - एकस्य सकृच्च । शेषपूरणेन सूत्रं व्याचष्टे — सकृदित्यादेशः स्यादिति । सकृद्भुङ्क्ते इति । एकशब्दात्सुच्, प्रकृतेः सकृदित्यादेशश्च । अत्र एकशब्दः क्रियाविशेषणम् ।एकत्वविशिष्टा भुजिक्रियेत्यर्थः ।स्वादु पचती॑त्यादिवदेकं भुङ्क्ते इति प्रयोगे प्राप्ते इदं सूत्रमिति कैयटः । 'एको भुङ्क्ते' इत्यत्र तु नायं विधिः प्रवर्तते, क्रियाग्रहणमनुवर्त्त्य क्रियाविशेषणस्यैव एकशब्दस्य ग्रहणादित्यास्तां तावत् । ननुसंयोगान्तस्ये॑ति सुचो लोप इत्यनुपपन्नम् । 'हल्ङ्याब्भ्यः' इत्येव हि सुलोपोऽत्र युक्तः तस्मिन्कर्तव्ये संयोगान्तस्ये॑ति सुचो लोप इत्यनुपपन्नम् । 'हल्ङ्याब्भ्यः' इत्येव हि सुलोपोऽत्र युक्तः, तस्मिन्कर्तव्ये संयोगान्तलोपस्य त्रैपादिकस्याऽसिद्धत्वादित्यत आह — नतु हल्याङ्यबितीति । सिच इवेति ।अभैत्सी॑त्यत्रि सिचो लोपनिवृत्तयेहल्ङ्या॑वित्यत्र सिग्रहणेन सिचो न ग्रहणं, तत्साहचर्यात्सुग्रहणेनापि सुजयं न गृह्रत इति भावः ।
index: 5.4.19 sutra: एकस्य सकृच्च
सकृदिति ।'संयोगान्तस्य लोपः' इति सुचो लोपः। सुचश्चकारोऽत्राप्यन्तोदातार्थः, अन्यथा ठिण्बीकापाशल्यतिमर्चिभ्यः कन्ऽ इति कन्प्रत्ययान्त एकशब्द आद्यौदात इति तस्य स्थाने भवन्सकृच्छब्द आन्तर्यत आद्यौदातः स्यात्। एकः पाक इत्यत्रेत्यादि। अपर आह - ठभ्यावृत्तिग्रहणादेव सिद्धे पूर्वसूत्रे क्रियाग्रहणं क्रियाविशेषप्रतिपत्यर्थम्, तेन साध्यस्वभावैव क्रिया गृह्यते। पाकादिभिस्तु शब्दैः सिद्धस्वभावाऽभिधीयते, यादृशी च पूर्वसूत्रे क्रिया गृहीता तादृश्येवात्राप्यनुवर्ततेऽ इति। तत्र च पाकादिशब्दप्रयोगे प्रत्ययाभाव इति घञन्ताद्यन्तप्रयोगेऽपि कृत्वोऽर्थप्रत्ययः क्वचित् लिङ्गाद्'द्विर्वचने' चिऽ इति साधनीयो मनीषिभिः ॥