8-3-61 स्तौतिण्योः एव षणि अभ्यासात् पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः
index: 8.3.61 sutra: स्तौतिण्योरेव षण्यभ्यासात्
स्तौतेः ण्यन्तानां च षभूते सनि परतः अभ्यासातिणः उत्तरस्य आदेशसकारस्य मूर्धन्यादेशो भवति। तुष्टूषति। ण्यन्तानाम् सिषेवयिषति। सिषञ्जयिषति। सुष्वापयिषति। सिद्धे सत्यारम्भो नियमार्थः, स्तौतिण्योः एव षणि अभ्यासाद् यथा स्यात्, अन्यस्य मा भूत्। सिसिक्षति। सुसूषति। एवकारकरणमिष्टतोऽवधारणार्थम्। स्तौतिण्योः षणि एव इति हि विज्ञायमाने तुष्टाव इत्यत्र न स्यात्, इह च स्यादेव सिसिक्षतीति। षणि इति किम्? अन्यत्र नियमो मा भूत्, सिषेच। को विनतेऽनुरोधः? अविनते नियमो मा भूत्, सुषुप्सति। तिष्ठासति। कः सानुबन्धेऽनुरोधः? षशब्दमात्रे नियमो मा भूत्, सुषुपिष इन्द्रम्। अभ्यासातिति किम्? अभ्यासात् या प्राप्तिः तस्या नियमो यथा स्यात्, धातोः या प्राप्तिस् तस्या नियमो मा भूत्, प्रतीषिषति। अधीषिषति।
index: 8.3.61 sutra: स्तौतिण्योरेव षण्यभ्यासात्
अभ्यासेणः परस्य स्तौतिण्यन्तयोरेव सस्य षः स्यात्षभूते सनि नान्यस्य । तुष्टूषति । द्युतिस्वाप्योः - <{SK2344}> इत्युत्वम् । सुष्वापयिषति । सिषाधयिषति । स्तौतिण्योः किम् । सिसिक्षति । उपसर्गात्तु स्थादिष्वभ्यासेन च -<{SK2277}> इति षत्वम् । परिषिषिक्षचि । षणि किम् । तिष्ठासति । सुषुप्सति । अभ्यासादित्युक्तेर्नेह निषेधः । इण् । प्रतीषिषति । इक् । अधीषिषति ॥
index: 8.3.61 sutra: स्तौतिण्योरेव षण्यभ्यासात्
षत्वभूत् इति । षत्वं प्राप्ते, कृतषत्व इत्यर्थः । आदेशसकारस्येति । प्रत्ययसकारस्त्वसम्भवान्न सम्बध्यते । सुष्वापयिषतीति ।'द्यौतिस्वाप्योः' इत्यभ्यासस्य सम्प्रसारणम् । सिसिक्षतीति ।'सिचि क्षरणे' । सुसूषत इति ।'षूङ् प्राणिप्रसवे' । परस्मैपदपाठे तु'षू प्रेरणे' - इत्यस्य रूपम् । यदि सिद्धे सत्यारम्भो नियमार्थः, एवकारस्तहि किमर्थः ? तत्राह - एवकारकरणमिति । अथ विपरीतेऽवधारणे को दोषः ? इत्यत आह - स्तौतिण्योः षण्येवेति । इह च स्यादेवेति । षण्येवेत्यनेन ह्यवधारणेन प्रत्ययान्तरे स्तौतिण्योः षत्वं व्यवच्छिन्नम्, न तु धात्वन्तरस्य षणि, ततश्चाभिहितदोषद्वयप्रसङ्गः । सिषेचेति । षणीत्यनुच्यमाने प्रत्ययमात्रे नियमः स्याद् - अभ्यासात्परस्य यदि षत्वं भवति स्तौतिण्योरेवेति, ततश्च सिषेचेत्यादौ न स्यात् । को विनतेऽनुरोध इति । विनतमिति पत्वणत्वयोः प्रातिशाख्येषु प्रसिद्धिः - एकवर्णमनोकारं विनते सुस्मेति, नः पर इति यथा । अनुरुध्यते आनुकूल्येन प्राप्यत इत्यनुरोधःउप्रयोजनम् । कृतषत्वस्य निर्देशे किं प्रयोजनमित्यर्थः । सुषुप्सतीति । रुदविदऽ इत्यादिना सनः कित्वम्,'वचिस्वपि' इत्यादिना सम्प्रसारणम् । सनीत्युच्यमाने सन्मात्रे नियमः स्यात्, ततश्च यथा - षत्वभूते सनिधात्वन्तरस्य षत्वं न भवति, एवमिहाषत्वभूतेऽपि न स्यात् । कः सानुबन्धेऽनुरोध इति । नकारानुबन्धवतो ग्रहणे किं प्रयोजनमित्यर्थः । णत्वस्य तु प्रयोजनं न पृच्छति; तस्य लक्षणप्राप्तत्वात् । सुषुपिष इन्द्रमिति । स्वपेर्लिट्, छान्दसत्वाद्'व्यत्ययो बहुलम्' इति थास्,'थासः सेः' , ठसंयोगाल्लिट् कित्ऽ इति लिटः कित्वात् पूर्ववत्सम्प्रसारणम्, द्विर्वचनम्, क्रादिनियमादिट्, इन्द्रशब्दे परतो यादेशः,'लोपः शाकल्यस्य' इति यलोपः । अत्र नियमाभावादभ्यासात् परस्य षत्वं भवत्येव,'ष' इत्युच्यमाने तु यावान् कश्चित् षशब्दस्तत्र सर्वत्र नियमः स्यात्, तस्मात्सानुबन्धकग्रहणम् । अभ्यासादिति किमिति । अभ्यासाद् या प्राप्तिस्तस्या नियमो यथा स्यादुपसर्गाद् या प्राप्तिस्तस्या नियमो मा भूत्; अभिषिषिक्षतीत्येततावदप्रयोजनम्, कथम् ? असिद्धमुपसर्गात्पत्वम्, तस्यासिद्धत्वान्नियमो न भविष्यति । स्यादेतत् - यथा ठत एकहल्मध्येऽ इत्यत्र लिटा आदेशो विशेष्यते, तथेह सनाभ्यासः, सनि योऽभ्यासस्तस्मात् स्तौतिण्योरेवेति, तेन यङ् योऽभ्यासिस्तस्मात्षणि धात्वन्तरस्यापि षत्वं भवति, स्वपेर्यङ्, स्वपिस्यमिव्येञां यङ्ऽ ईति सम्प्रसारणम्, सोषुप्यतेः सन्, इट्, ठतो लोपःऽ,'यस्य हलः' , सोषुपिषते - तदेतद्भवति प्रयोजनमिति ? तन्न; अन्तरङ्गमत्र षत्वम्, बहिरङ्गो नियमः; तस्मादनर्थकमभ्यासग्रहणमिति प्रश्नः । परिहरति - प्रतिषिषतीति । इणो बोधनार्थत्वाद् गम्यादेशाभावोऽजादेरिति सशब्दस्य द्विर्वचनम्,'सन्यतः' इतीत्वम् । तत्राभ्यासाश्रये प्रत्ययस्य षत्वे कृतेऽस्य नियमस्याभावाद् धात्वाश्रयं षत्वमभ्यासस्य प्रवर्तते । ननु षणीति परसप्तमी, ततश्च षणि परे स्तौतिण्योरेवेति षत्वनियमः क्रियमाणस्तुल्यजातीयस्य षण्वस्य सिसिक्षतीत्यादेः षत्वं निवर्तयति । प्रतीषिषतीत्यत्र तु सनि एव द्विर्वचनमिति षण्परत्वाभावादयं नियमो न प्रवतिष्यते ।'सन्यतः' इतीत्वमपि तर्हि न प्रापनोति, समुदायस्य सयूपत्वातस्य च सन्परत्वाभावात् । तस्मात्सन्प्रदेशेषु सत्सप्तमी विज्ञेया, ततश्च यथेत्वं प्रवर्तते तथा षत्वनियमोऽपि स्यादित्यभ्यासग्रहणम् ॥