सदिरप्रतेः

8-3-66 सदिः अप्रतेः पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः प्राक् सितात् अड्व्यवाये अपि उपसर्गात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सदेः सकारस्य उपसर्गस्थाद् निमित्तादप्रतेरुत्तरस्य मूर्धन्य आदेशो भवति। निषीदति। विषीदति। न्यषीदत्। व्यषीदत्। निषसाद। विषसाद। अप्रतेरिति किम्? प्रतिसीदति॥

Siddhanta Kaumudi

Up

प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सदिरप्रतेः>> - प्राक्सतादिति ।उपसर्गात्सुनोतीत्यादिसूत्रोपात्ता॑ इति शेषः । तेषामिति । पञ्चदशानामित्यर्थः । न्यषेधदिति । अकारेम व्यवहितत्वादिणः परत्वाऽभावादप्राप्तौ वचनम् । अभ्युषुणोदित्यप्युदाहार्यम् ।

Padamanjari

Up

'सदिः' इति षष्ठ।ल्र्थे प्रथमा । निषसादेति । सदिस्वञ्ज्योः परस्य लिटीति प्रतिषेधादभ्यासात् परस्य न भवति ॥