इदुदुपधस्य चाप्रत्ययस्य

8-3-41 इदुदुपधस्य चाप्रत्ययस्य पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः षः

Sampurna sutra

Up

इदुदुपधस्य अप्रत्ययस्य विसर्जनीयस्य कुप्वोः षः

Neelesh Sanskrit Brief

Up

इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति ।

Neelesh English Brief

Up

A विसर्ग present after an इकार or an उकार which is not made from a प्रत्यय is converted to ष in presence of a कवर्ग or a पवर्ग.

Kashika

Up

इकारोपधस्य उकारोपधस्य चाप्रत्ययस्य विसर्जनीयस्य षकार आदेशो भवति कुप्वोः परतः। निर्दुर्बहिराविश्चतुर्प्रादुस्। निस् — निष्कृतम्। निष्पीतम्। दुस् — दुष्कृतम्। दुष्पीतम्। बहिस् — बहिष्कृतम् । बहिष्पीतम्। आविस् — आविष्कृतम्। आविष्पीतम्। चतुर् — चतुष्कृतम्। चतुष्कपालम्। चतुष्कलम्। चतुष्कण्टकम्। चतुष्पीतम्। प्रादुस् — प्रादुष्कृतम्। प्रादुष्पीतम्। अप्रत्ययस्येति किम्? अग्निःकरोति। वायुः करोति। मातुः करोति। पितुः करोति। अत्र <<रात् सस्य>>८.२.२४ इति सकारलोपे कृते रेफस्य यो विसर्जनीयः, तस्याप्रत्ययविसर्जनीयत्वात् षत्वं प्राप्नोति। कस्कादिषु ८.३.४८ तु भ्रातुष्पुत्रग्रहणं ज्ञापकमेकादेशनिमित्तत्वात् षत्वप्रतिषेधस्य॥ पुम्मुहुसोः प्रतिषेधो वक्तव्यः॥ पुँस्कामा। मुहु कामा। नैष्कुल्यम्। दौष्कुल्यम्। दौष्पुरुष्यम्। नि३ष्कुलम्। दु३ष्कुलम्। दु३ष्पुरुषः। बहिरङ्गलक्षणयोर्वृद्धिप्लुतयोरसिद्धत्वात् षत्वं प्रवर्तते॥

Siddhanta Kaumudi

Up

इकारोकारोपधस्याप्रत्ययस्य विसर्गस्य षः स्यात्कुप्वोः । निष्प्रत्यूहम् । आविष्कृतम् । दुष्कृतम् । अप्रत्ययस्य किम् । अग्निः करोति । वायुः करोति ॥<!एकादेशशास्त्रनिमित्तकस्य न षत्वम् !> (वार्तिकम्) ॥ कस्कादिषु भ्रातुष्पुत्रशब्दस्य पाठात् । तेनेह न । मातुः कृपा ।<!मुहुसः प्रतिषेधः !> (वार्तिकम्) ॥ मुहुः कामा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

ह्रस्व-इकारात् / ह्रस्व-उकारात् परः विद्यमानः विसर्गः यदि प्रत्यय-निर्मितः नास्ति, तर्हि तस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति - इति अस्य सूत्रस्य आशयः । सामान्यरूपेण ह्रस्व-इकारात् ह्रस्व-उकारात् परः यः विसर्गः दृश्यते, सः प्रत्ययस्यैव वर्तते । यथा - मुनिः (सुँ-प्रत्ययस्य विसर्गः), मतिभिः (भिस्-प्रत्ययस्य विसर्गः), सर्पिः ('इस्' इति उणादिप्रत्ययस्य विसर्गः), धनुः (उस्-इति उणादिप्रत्ययस्य विसर्गः), आदयः । केषुचन एव शब्देषु प्रत्ययभिन्नः विसर्गः दृश्यते । काशिकायाम् एतेषाम् शब्दानामावली दत्ता अस्ति - निस्-निर्-दुस्-दुर्-बहिस्-आविस् -चतुर्-प्रादुस् । एतेषामन्तिमवर्णस्य यदि विसर्गादेशः भवति, तर्हि तस्य वर्तमानसूत्रेण षकारादेशः विधीयते । एतेषाम् सर्वेषामन्तिमवर्णस्य विसर्गः कथं भवति? - 1. निस् तथा दुस् - एतयोः <<प्रादयः>> 1.4.58 इत्यनेन निपातसंज्ञा भवति । 'बहिस्' तथा 'आविस्' - एतयोः <<ऊर्यादिच्विडाचश्च>> 1.4.61 इत्यनेन निपातसंज्ञा भवति । 'प्रादुस्' - इत्यस्य <<साक्षात्प्रभृतीनि च>> 1.4.74 इत्यनेन निपातसंज्ञा भवति । एतादृशम् एतेषां सर्वेषाम् निपातसंज्ञायाम् सत्याम् <<स्वरादिनिपातमव्ययम्>> 1.1.37 इत्यनेन अव्ययसंज्ञा अपि भवति । अव्ययात् परस्य सुप्-प्रत्ययस्य <<अव्ययादाप्सुपः>> 2.4.82 इत्यनेन लोपः भवति, परन्तु <<प्रत्ययलोपे प्रत्ययलक्षणम्>> 1.1.62 इत्यनेन अव्ययस्य पदत्वमपि जायते । अतः एतेषां सकारः पदान्ते विद्यमानः वर्तते । अस्यामवस्थायाम् <<ससजुषोः रुः>> 8.2.66 इत्यनेन सकारस्य रुँत्वम् भवति । अग्रे खर्-वर्णे परे रेफस्य <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इत्यनेन विसर्गः भवति । 2. निर् , दुर्, चतुर् एतेषु शब्देषु तु मूलरूपेणैव रेफः अस्ति । तस्यापि <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इत्यनेन खर्-वर्णे परे विसर्गः भवति । अनेन प्रकारेण एतेषाम् सर्वेषाम् खर्-वर्णे परे विसर्गः जायते । अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति । उदाहरणानि एतानि - 1. निस् + कृतम् = निष्कृतम् 2. दुस् + पातकम् = दुष्पातकम् । 3. बहिस् + कृतम् = बहिष्कृतम् । 4. आविस् + पतितम् = आविष्पतितम् । 5. प्रादुस् + पीतम् = प्रादुष्पीतम् 6. निर् + पीतम् = निष्पीतम् । 7. दुर् + कृत्यम् = दुष्कृत्यम् । 8. चतुर् + कपालम् = चतुष्कपालम् । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!पुम्मुहुसोः प्रतिषेधो वक्तव्यः!> । इत्युक्ते, पुम्-शब्दस्य विषये, मुहुस्-शब्दस्य विषये च अस्य सूत्रस्य प्रसक्तिः नास्ति । अत्र वस्तुतः पुम्-शब्दस्य विषये अस्य वार्त्तिकस्य आवश्यकता नास्ति, यतः पुम्-शब्दस्य मकारः 'डुम्सुन्' अस्य उणादिप्रत्ययस्य अस्ति, अतः तस्य विसर्गः भवति चेदपि वर्तमानसूत्रेण तस्य षत्वम् न विधीयते । मुहुस्-शब्दः तु स्वरादिगणे अस्ति, अतः तस्य सकारः प्रत्ययनिर्मितः नास्ति । अतः तस्य विषये अनेन वार्त्तिकेन षत्वम् निषिध्यते । यथा - मुहुस् + कामा → मुहुर् कामा [<<स्वरादिनिपातमव्ययम्>> 1.1.37 इति अव्ययसंज्ञा । अतः पदत्वात् <<ससजुषोः रुँः>> 8.2.66 इति पदत्वम् ] → मुहुः कामा [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] → मुहु≍कामा, मुहुःकामा [<<कुप्वोः ≍क≍पौ च>> 8.3.37 इति विकल्पेन उपध्मानीयः ] ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'इत्' तथा 'उत्' अत्र तपरकरणम् कृतमस्ति । अतः ह्रस्व-इकारात् / ह्रस्व-उकारात् परस्यैव विसर्गस्य अत्र ग्रहणं भवति, दीर्घात् परस्य न । यथा - गीः + कृतम् = गी≍कृतम्, गीःकृतम् । 2. अनेन सूत्रेण कृतः षकारादेशः नित्यम् भवति, विकल्पेन न । 3. अत्र निर्दिष्टः चतुर्-शब्दः सङ्ख्यावाची अस्ति । यथा - चत्वारः बालकाः, चत्वारि फलानि - आदयः । अन्यः अपि एकः चतुर्-शब्दः कृत्वर्थे प्रयुज्यते (यथा - सः चतुः पठति = सः चतुर्वारम् पठति), तस्य चतुर्-शब्दस्य विसर्गस्य <<द्विस्त्रिश्चतुरिति कृत्वोऽर्थे>> 8.3.43 इत्यनेन विकल्पेन एव षत्वं विधीयते । 4. ऋकारान्तशब्दानाम् पञ्चमी-षष्ठी-विभक्तेः रूपस्य विषये किञ्चित् अधिकम् ज्ञातव्यमस्ति । यथा, 'पितुः' इत्यत्र विहितः विसर्गः प्रत्ययस्य अस्ति वा? प्रक्रियां पश्यामश्चेत् स्पष्ट् भवेत् - पितृ + ङसिँ [पञ्चम्येकवचनस्य प्रत्ययः] → पितृ + अस् [इत्संज्ञालोपः] → पित् ऋ अ स् [स्पष्टतायै 'तृ = त् + ऋ' इति लिखितमस्ति ।] → पित् उर् स् [<<ऋत उत्>> 6.1.111 इत्यनेन ऋकार-अकारयोः एकः उकारादेशः, सः च रपरः] → पितुर् [<<रात्सस्य>> 8.2.24 इति सकारलोपः] → पितुः [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इत्यनेन विसर्गः] अत्र निर्मितः विसर्गः पूर्वपरयोः 'एकादेशः' अस्ति । <<आद्यन्तवदेकस्मिन्>> 1.1.21 इत्यनेन अयम् एकादेशः पूर्वशब्दस्य अवयवः अपि अस्ति, परशब्दस्य अवयवः अपि अस्ति । इत्युक्ते, अयम् विसर्गः 'पितृ' इति प्रत्ययभिन्नस्य शब्दस्य अपि अवयवः अस्ति, तथा 'अस्' प्रत्ययस्यापि अवयवः अस्ति । अस्याम् स्थितौ किम् भवति? अस्य प्रश्नस्य उत्तरम् ज्ञातुम् एकस्य वार्तिकस्य साहाय्यम् स्वीक्रियते - <!एकादेशशास्त्रनिमित्तकस्य न षत्वम् !> । कः अर्थः? 'कस्कादिगणः' नाम कश्चन गणः गणपाठे पाठितः अस्ति । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । अस्मिन्नेव गणे आचार्येन 'भ्रातुष्पुत्र' नाम शब्दः निर्दिष्टः अस्ति । इत्युक्ते, भ्रातु-शब्दस्य विसर्गस्य पुत्र-शब्दे परे केनापि सूत्रेण षत्वम् यद्यपि न भवति, तथापि षत्वम् करणीयमेव, इत्यर्थः । अस्य शब्दस्य कस्कादिगणे निर्देशात् एतत् स्पष्टम् भवति यत् भ्रातुः / मातुः / पितुः एतादृशानाम् शब्दानाम् विसर्गस्य कवर्गे / पवर्गे परे षत्वम् वर्तमानसूत्रेण न भवेत् - इति - अन्यथा अस्य शब्दस्य कस्कादिगणे समावेशस्य प्रयोजनमेव विनश्येत् । अतः अस्मिन् वार्त्तिके उक्तमस्ति - <!एकादेशशास्त्रनिमित्तकस्य न षत्वम् !> । 'एकदेशेन' निर्मितः यः विसर्गः, तस्य षत्वम् न करणीयम् इति ।

Balamanorama

Up

Padamanjari

Up

इदुतावुपधे यस्य स इदुदुपधः समुदायः, तस्य यो विसर्जनीय इति वैयधिकरण्येन सम्बन्धः । अप्रत्ययस्येत्येतदपि व्यधिकरणमेव । निर्दुर्बहिराविश्चतुष्प्रादुरिति । अन्येषां सम्भवतां प्रतिषेधस्य वक्ष्यमाणत्वान्नेदं परिगणनम्, किं तर्हि ? सम्भवप्रदर्शनम् । चतुष्कपालमिति । तद्धितार्थे द्विगुः,'संस्कृतं भक्षाः' इत्यणः'द्विगोर्लुगनपत्ये' इति लुक् । चतुष्कण्टकमिति । बहुव्रीहिः । मातुः करोतीत्यादि । चोद्यम् - अत्र हि मातृआस् इति स्थिते ठृत उत्ऽ इत्युकारो भवन्'यो ह्युभयोः स्थाने' इति न्यायेन रपरो भवति, ततश्च रात्सस्यऽ इति प्रत्ययसकारस्य लोपे कृते रेफस्य विसर्जनीयो भवति । परिहरति - करकादिष्विति । एकादेशनिमितादिति । कर्मधारयः, एकादेशरूपनिमितादित्यर्थः, एकादेशशास्त्रं वा निमितं यस्योकारस्य तस्मादित्यर्थः । पुम्मुहुसोरिति । अव्युत्पन्नावेताविति प्रतिषेध उच्यते । तत्र पुंसः प्रतिषेधेन नार्थः । षत्वं कस्मान्न भवति ? विसर्जनीयाभावात्, उक्तं हि'सम्पुंकानां सत्वम्' इति, तत्र सत्वस्यासिद्धत्वाभावाद्विसर्जनीयाभावः । तच्चावश्यं सत्वं वक्तव्यम्, रुविधौ विसर्जनीयस्य षत्यपतिषेधेऽपि'कुप्वोः ःकःपौ च' इत्येव विधिः प्राप्नोति - मुहुः कामो यस्याः सा मुहुः कामा, तत्र'कुप्वोः ःकःपौ च इत्येष एव विधिर्भवति । क्वचितु मुहुस्कामेति सत्वं पठ।ल्ते सो' पपाठः, न ह्यत्र सत्वसम्भवः; सूत्रवार्तिकयोरनिबद्धत्वात् । नैष्कुल्यमिति । ब्राह्मणाअदित्वात् ष्यञ् । नि3ष्कुलं दु3ष्कुलमिति ।'गुरोरनृतः' इत्यादिना प्लुतः । बहिरङ्गलक्षणयोरिति । बहिर्भूततद्धितापेक्षत्वाद्वद्विर्बहिरङ्गा, प्लुतोऽपि दूराद्धूतादिकमर्थं वाक्यं चापेक्षत इति बहिरङ्गः ॥