अम्नरूधरवरित्युभयथा छन्दसि

8-2-70 अम्नः ऊधरवर् इति उभयथा छन्दसि पदस्य पूर्वत्र असिद्धम् रुः रः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अम्नस् ऊधस् अवस् इत्येतेषां छन्दसि विषय उभयथा भवति, रुर्वा रेफो वा। अम्नस् — अ॒म्न॑ ए॒व॑ (मै०सं० १.६.१०)। अम्नरेव। ऊधस् — ऊध एव (काठ०सं० ७.५)। ऊध॑र् (ऋ०१०.१००.११) एव। अवस् — अ॒वः (शौ०सं० २०.२५.२) एव। अवरेव। यदा रुत्वं तदा <<भोभगोअघोअपूर्वस्य योऽशि>>८.३.१७ इति यकारः॥ छन्दसि भाषायां च विभाषा प्रचेतसो राजन्युपसंख्यानं कर्तव्यम्॥ प्रचेता॒ राज॒न् (ऋ०१.२४.१४), प्रचेतो॒ राज॒न् (तै०सं० १.५.११.३)॥ अहरादीनां पत्यादिषूपसंख्यानं कर्तव्यम्॥ अहर्पतिः, अहःपतिः। गीर्पतिः, गीःपतिः। धूर्पतिः, धूःपतिः। विसर्जनीयबाधनार्थमत्र पक्षे रेफस्यैव रेफो विधीयते॥

Siddhanta Kaumudi

Up

रुर्वा रेफो वा । अम्न एव । अम्नरेव । ऊध एव । ऊधरेव । अवएव । अवरेव ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

नित्यं रुत्वे प्राप्ते पक्षे रोऽपि यथा स्यादित्ययमारम्भः । अम्नस्शब्द ईषदर्थे, अम्नरस्तमित इति यथा । अवःउरक्षणम् । प्रचेता राजन्निति । सकारस्य रेफः, तस्य रो रिऽ इति लोपः,'ढ्रलोपे पूर्वस्य दीर्घो' णःऽ इति दीर्घः । अहरादीनामित्यादि । उभयत्राप्यादिशब्दः प्रकारे । इदमपि च्छन्दसि भाषायां च ॥