दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु

3-2-21 दिवाविभानिशाप्रभाभास्कारान्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसङ्ख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि टः कृञः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मणि सुपीति च द्वयमप्यनुवर्तते। तत्र यथायोगं सम्बन्धः। दिवादिषूपपदेषु करोतेर्धातोष्टप्रत्ययो भवति। अहेत्वाद्यर्थ आरम्भः। दिवाशब्दोऽधिकरणवचनः सुपीत्यस्य विशेषणम्। दिवा करोति प्राणिनश्चेष्टायुक्त ानिति दिवाकरः। विभां करोतीति विभाकरः। निशाकरः। प्रभाकरः। भास्करः। सकारस्य निपातनाद् विसर्जनीयजिह्वामूलीयौ न भवतः। कारकरः। अन्तकरः। अनन्तकरः। आदिकरः। बहुकरः। नान्दीकरः। किंकरः। लिपिकरः। लिबिकरः। बलिकरः। भक्तिकरः। कर्तृकरः। चित्रकरः। क्षेत्रकरः। संख्या — एककरः। द्विकरः। त्रिकरः। जङ्घाकरः। बाहुकरः। अहस्करः। यत्करः। तत्करः। धनुष्करः। अरुष्करः॥ किंयत्तद्बहुषु कृञोऽज्विधानम्॥ किंकरा। यत्करा। तत्करा। बहुकरा। अथवाजादिषु पाठः करिष्यते॥

Siddhanta Kaumudi

Up

एषु कृञष्टः स्याद् अहेत्वादावपि । दिवाकरः । विभाकरः । निशाकरः । कस्कादित्वात्सः । भास्करः । बहुकरः । बहुशब्दस्य वैपुल्यार्थं संख्यापेक्षया पृथग्ग्रहणम् । लिपिलिबिशब्दौ पर्यायौ । संख्या । एककरः । द्विकरः । कस्कादित्वादहस्करः । नित्यं समासेऽनुत्तरपदस्थस्य <{SK159}> इति षत्वम् । धनुष्करः । अरुष्करः ।<!किंयत्तद्बहुषु कृञोऽज्विधानम् !> (वार्तिकम्) ॥ इति वार्तिकम् । किंकरा । यत्करा । तत्करा । हेत्वादौ टं बाधित्वा परत्वादच् । पुंयोगे ङीष् । किंकरी ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दी- किम्लिपि लिबिबलिभक्तिकर्तृचित्रक्षेत्र- संख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु>> - दिवाविभा । दिवा, विभाष निशा, प्रभा, भास्, कार, अन्त,अनन्त, आदि, बहु, नानदी, किम् लिपि लिबि, बलि, भक्ति, कर्तृ, चित्र, क्षेत्र , सङ्ख्या, जङ्घा, बाहु, अहर्, यद् , तद्, धनुस्रुस् — एषां सप्तमविंशतेद्र्वन्द्वात्सप्तमी । एष्विति ।उपपदेष्वि॑ति शेषः । अहेत्यादिष्वपीति । हेतुताच्छील्यानुलोम्येषु अगम्येष्वपीत्यर्थः । हेत्वादिग्रहणस्य अननुवृत्तेरिति भावः । एतेन अहेत्वाद्यर्थमिदं सूत्रमुक्तं भवति । अत्र कर्मणीति सुपति चानुवृत्तं यथायोगमन्वेति । दिवाकर इति । दिवेत्याकारान्तमव्ययमह्नीत्यर्थे । तस्याऽधिकरणशक्तिप्रधानस्यापि वृत्तिविषये कर्मत्वं बोध्यम् । दिवा = अहनि अर्थात् प्राणिनश्चेष्टायुक्तान् करोतीति वा विग्रहः । विभाकर इति । विभां करोतीति विग्रहः । निशाकर इति । निशां करोतीति विग्रहः । एवं प्रभाकरः । भाः करोतीति विग्रहेअतः कृकमी॑त्यत्राऽत इति तपरकरणात्सत्वस्याऽप्राप्तेःकुप्वो॑रिति जिह्वामूलीयविसर्गावाशङ्क्याह — कस्कादित्वादिति । कारकरः, अन्तकरः, अनन्तकरः, आदिकर इति सिद्धवत्कृत्य आह — बहुकर इति । ननु सङ्ख्याग्रहणेनैव सिद्धे बहुग्रहणं व्यर्थमित्यत आह — बहुशब्दस्येति । वैपुल्यवाचिनस्तस्य न सङ्ख्याशब्दत्वमितबहुगमवतुडति सङ्ख्ये॑त्यत्रोक्तम् । नान्दीकरः किह्कर इति सिद्धवत्कृत्य आह — लिपिलिशब्दाविति । तथा च लिपिकरः लिबिकरः क्षेत्रकर इत्यन्तं सिद्धवत्कृत्य आह — सङ्ख्येति । 'उदाह्यियते' इति शेषः । जङ्घाकरः बाहुकर इति सिद्धवत्कृत्य अहस्करशब्देकुप्वो॑रिति जिह्वामूलीयविसर्गावाशङ्क्याह — कस्कादित्वादिति । नञि जहातेरुत्पन्ने अहन्शब्दे हन्शब्दस्योत्तरपदतया तद्विसर्गस्य उत्तरपदस्थत्वात्अतः कृकमी॑त्यस्य न प्राप्तिरिति भावः । धनुष्करशब्दे आह — नित्यं समास इति । प्रत्ययवयवत्वात्इदुदुपधस्य चे॑त्यस्य न प्राप्तिरिति भावः । कृञोऽज्विधानमिति । टस्याऽपवादः । किङ्करेति । टप्रत्यये तु टित्त्वान्ङीपस्यादिति भावः । हेत्वादिषु पूर्वविप्रतिषेधाश्रयणस्य निर्मूलत्वादिति भावः । तर्हि किङ्करीति कथमित्यत आह — पुंयोगे ङीषिति । कर्मणि भृतौ । कर्मणीत्यनुवृत्तौ पुनः कर्मग्रहणं तु कर्मशब्दस्वरूपग्रहणाऽर्थम् । कर्मकरो भृतक इति । वेतनं गृहीत्वा यः परार्थ कर्म करोति स भृतक इत्युच्यते ।

Padamanjari

Up

दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रत्रेत्रसंख्याजङ्घाबाह्वहर्यतद्धनुररुष्षु॥ यथायोगमिति। तत्र दिवाशब्दोऽह्रीति सप्तम्यन्तस्यार्थे वर्तत इति तस्य कर्मत्वानुपपतेः'सुपि' इत्यनेनाभिसम्बन्धः, शेषाणां तु कर्मणीत्यनेन। यदि तु दोषामन्यमहः, दिवामन्या रात्रिरितिवद् वृत्तिविषये कर्मत्वमभ्युपगम्येत, तदा दिवाशब्दस्यापि कर्मणीत्यनेन संबन्धः। सकारस्येति। भास्करान्तेति भाशब्दस्य प्रत्ययसन्नियोगेन सकारो निपात्यते, तस्माद्भास्कर इत्यत्र विसर्जनीयजिह्वामूलीयौ न भवतः। अथ वा - सकारस्य विसर्जनीयजिह्वामूलीयौ न भवतः, कुतः? निपातनात्। भास्करान्तेति सूत्रे सकारोच्चारणमेव निपातनम्। कारकर इति। कर एव कारः, प्रज्ञादित्वात्स्वार्थेऽण। अनन्तकर इति। अन्तकरशब्देन नञ्समासेऽप्येतद्रूपं सम्भवति, स्वरे हि दोषः स्यात् - सतिशिष्टोऽव्ययपूर्वपदप्रकृतिस्वरः प्रसज्येत, इष्यते हि गतिकारकोपपदात्कृदिति कृदुतरपदप्रकृतिस्वरेणान्तोदातत्वम्। बहुकर इति। बहुशब्दो वैपुल्यवचनः, संख्यावचनस्य तु चसंख्याग्रहणेनैव सिद्धम्। लिपिलिबिशब्दौ पर्यायौ। अहस्कर इति। अहन् रोः सुपिऽ इति रोफः, पूर्ववत्सत्वम्। धनुष्करः, अरुष्कर इति।'नित्यं समासे' नुतरपदस्थस्यऽ इति षत्वम्,'किंयतद्वहुषु कृञो' ज्विधानम्ऽ इति वार्तिकेन सूत्रस्य बाधितत्वाट्टस्याभावाद्धेत्वादिष्वन्यत्र किंकरीत्यसाधुरित्याहुः। क्वचिद् ग्रन्थः - अथ वा वचादिषु पाठः करिष्यत इति। तत्रायमर्थः - इह किमादिग्रहणमपनीय पचादिष्वेव'किंयतद्वहुषु कृञः' इति पठितव्यमिति॥