शे मुचादीनाम्

7-1-59 शे मुचादीनाम् इदितः नुम्

Sampurna sutra

Up

index: 7.1.59 sutra: शे मुचादीनाम्


मुचादीनाम् शे नुम्

Neelesh Sanskrit Brief

Up

index: 7.1.59 sutra: शे मुचादीनाम्


मुचादि-अन्तर्गणस्य धातूनाम् श-प्रत्यये परे नुम्-आगमः भवति ।

Neelesh English Brief

Up

index: 7.1.59 sutra: शे मुचादीनाम्


The verb roots that belong to the मुचादि-अन्तर्गण, get a नुम्-आगम when followed by 'श' प्रत्यय.

Kashika

Up

index: 7.1.59 sutra: शे मुचादीनाम्


शे प्रत्यये परतो मुचादीनम् नुमागमो भवति। मुच्लृ मुञ्चति। लुप्लृ लुम्पति। विद्लृ विन्दति। लिपि लिम्पति। सिच् सिञ्चति। कृती कृन्तति। खिद खिन्दति। पिश पिंशति। शे इति किम्? मोक्ता। मोक्तुम्। मोक्तव्यम्। मुचादीनाम् इति किम्? तुदति। नुदति। शे तृम्फादीनामुपसङ्ख्यानं कर्तव्यम्। के पुनः तृम्फादयः? तृफ तृम्फ तृप्तौ दृफ ड्र्म्फ उत्क्लेशे, गुफ गुम्फ ग्रन्थे, उभ उम्भ पूरणे, शुभ शुम्भ शोभार्थे इत्यत्र ये सानुषङ्गाः तृम्फादयः तेषामनिदितां हल उपधायाः क्ङिति 6.4.24 इति अनुनासिकलोपे कृते नुम् विधीयते, स च विधानसामर्थ्यात् न लुप्यते। तृम्फति। दृम्फति। गुम्फति। उम्भति। शुम्भति। ये तु निरनुषङ्गाः तेषां तृफति, दृफति, गुफति, उभति, शुभति इत्येवं भवति।

Siddhanta Kaumudi

Up

index: 7.1.59 sutra: शे मुचादीनाम्


नुम् स्यात् । मुञ्चति । मुञ्चते । मोक्ता । मुच्यात् । मुक्षीष्ट । अमुचत् । अमुक्त । अमुक्षाताम् ।{$ {!1431 लुपॢ!} छेदने$} । लुम्पति । लुम्पते । अलुपत् । अलुप्त ।{$ {!1432 विद्लृ!} लाभे$} । विन्दति । विन्दते । विवेद । विविदे । व्याघ्रभूत्यादिमते सेट्कोऽयम् । वेदिता । भाष्यादिमतेऽनिट्कः । वेत्ता । परिवेत्ता । परिर्वर्जने । ज्येष्ठं परित्यज्य दारानग्नींश्च लब्धवानित्यर्थः । तृन्तृचौ ।{$ {!1433 लिप!} उपदेहे$} । उपदेहो वृद्धिः । लिम्पति । लिम्पते । लेप्ता । लिपिसिचि - <{SK2418}> इत्यङ् । तङि तु वा । अलिपत् । अलिपत । अलिप्त ।{$ {!1434 षिच!} क्षरणे$} । सिञ्चति । सिञ्चते । असिचत् । असिचत । असिक्त । अभिषिञ्चति । अभ्यषिञ्चत् । अभिषिषेच ॥ अथ त्रयः परस्मैपदिनः ॥{$ {!1435 कृती!} छेदने$} । कृन्तति । चकर्त । कर्तिता । कर्तिष्यति । कर्त्स्यति । अकर्तीत् ।{$ {!1436 खिद!} परिघाते$} । खिन्दति । चिखेद । खेत्ता । अयं दैन्ये दिवादौ रुधादौ च ।{$ {!1437 पिश!} अवयवे$} । पिंशति । पेशति । अयं दीपनायामपि । त्वष्टा रूपाणि पिंशतु । वृत् । मुचादयो वृत्ताः तुदादयश्च । इति तिङन्ततुदादिप्रकरणम् ।

Laghu Siddhanta Kaumudi

Up

index: 7.1.59 sutra: शे मुचादीनाम्


मुच्-लिप्-विद्-लुप्-सिच्-कृत्-खिद्-पिशां नुम् स्यात् शे परे। मुञ्चति, मुञ्चते। मोक्ता। मुच्यात्। मुक्षीष्ट। अमुचत्, अमुक्त। अमुक्षाताम्।॥ {$ {! 7 लुप्लृ !} छेदने $} ॥ लुम्पति, लुम्पते। लोप्ता। अलुपत्। अलुप्त। ॥ {$ {! 8 विद्लृ !} लाभे $}॥ विन्दति, विन्दते। विवेद, विवेदे। व्याघ्रभूतिमते सेट्। वेदिता। भाष्यमतेऽनिट्। परिवेत्ता॥॥ {$ {! 9 षिच !} क्षरणे $} ॥ सिञ्चति, सिञ्चते॥

Neelesh Sanskrit Detailed

Up

index: 7.1.59 sutra: शे मुचादीनाम्


'मुचादिगणः' नाम तुदादिगणस्य कश्चन अन्तर्गणः । अस्मिन् गणे अष्ट धातवः पाठिताः सन्ति, ये एकया कारिकया दीयन्ते -

मुञ्चतिर्लुम्पतिश्चैव विन्दतिर्लिम्पतिस्तथा । सिञ्चतिः कृञ्चतिश्चैव खिदिः पिशिर्मुचादयः ।

अस्याम् कारिकायामुक्ताः अष्ट धातवः (धातुपाठस्य क्रमाङ्कसहिताः) एते -

  1. मुच्ऌँ मोक्षणे

  2. लुप्ऌँ छेदने

  3. विद्ऌँ लाभे

  4. लिपँ उपदेेहे

  5. षिचँ क्षरणे

  6. कृतीँ छेदने

  7. खिदँ परिघाते

  8. पिशँ अवयवे

एतेषाम् सर्वेषाम् श-विकरणप्रत्यये परे नुमागमः भवति । . 'नुम्' अयमागमः मित्-आगमः अस्ति, अतः मिदचोऽन्त्यात्परः 1.1.47 इत्यनेन अन्त्यात् अचः परः आगच्छति ।

यथा, मुच्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

मुच् + लट् [वर्त्तमाने लट् 3.2.123 इति लट्]

→ मुच् + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]

→ मुच् + श + तिप् [तुदादिभ्यः शः 3.1.77 इति श-विकरणप्रत्ययः]

→ मुन् च् + अ + तिप् [शे मुचादीनाम् 7.1.59 इति नुमागमः]

→ मुं च् अ ति [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]

→ मुञ्चति [अनुस्वारस्य ययि परसवर्णः 8.4.48 इति परसवर्णः ञकारः]

एवमेव अन्येषाम् धातूनाम् लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपाणि एतानि भवन्ति -

  1. लुप् → लुम्पति / लुम्पते

  2. विद् → विन्दति / विन्दते

  3. लिप् → लिम्पति / लिम्पते

  4. सिच् → सिञ्चति / सिञ्चते

  5. कृत् → कृन्तति

  6. खिद् → खिन्दति

  7. पिश् → पिंशति । अत्र अनुस्वारस्य परसवर्णः न भवति यतः अत्र अग्रे यय्-वर्णः नास्ति ।

अत्र एकम् वार्तिकम् ज्ञातव्यम् - <!शे तृम्फादीनामुपसङ्ख्यानं कर्तव्यम्!> ।

'तृम्फादिगणः' इति तुदादिगणस्य कश्चन अन्यः अन्तर्गणः अस्ति । अस्मिन् गणे तुदादिगणस्य सर्वे अनिदितः धातवः समाविश्यन्ते । एतेषां सर्वेषाम् अनिदितां हलः उपधायाः क्ङिति6.4.24 इत्यनेन कित्/ङित् प्रत्यये परे नकारलोपे कृते अनेन वात्तिकेन श-विकरणे परे पुनः नुमागमः भवति । यथा, तृम्फ्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -

तृन्फ् + लट् [वर्त्तमाने लट् 3.2.123 इति लट्]

→ तृन्फ् + तिप् [तिप्तस्.. 3.4.78 इति प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]

→ तृन्फ् + श + तिप् [तुदादिभ्यः शः 3.1.77 इति श-विकरणप्रत्ययः]

→ तृफ् + श + तिप् [शकारस्य सार्वधातुकमपित् 1.2.4 इत्यनेन ङित्वद्भावे कृते अनिदितां हलः उपधायाः क्ङिति6.4.24 इति नकारलोपः]

→ तृन् फ् + श + तिप् [ <!शे तृम्फादीनामुपसङ्ख्यानं कर्तव्यम्!> अनेन वार्तिकेन पुनः नुमागमः]

→ तृं फ् अ ति [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]

→ तृम्फति [अनुस्वारस्य ययि परसवर्णः 8.4.48 इति परसवर्णः मकारः]

तृम्फादिगणे समाविष्टाः धातवः तथा तेषाम् लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपाणि एतानि -

  1. तृम्फ् (तृप्तौ) - तृम्फति

  2. तुम्प् (हिंसायाम्) - तुम्पति

  3. तुम्फ् (हिंसायाम्) - तुम्फति

  4. दृम्फ् (हिंसायाम्) - दृम्फति

  5. ऋम्फ् (हिंसायाम्) - ऋम्फति

  6. गुम्फ् (ग्रन्थे) - गुम्फति

  7. उम्भ् (पूरणे) - उम्भति

  8. शुम्भ् (शोभायाम्) - शुम्भति

  9. तृन्ह् (हिंसायाम्) - तृंहति ।

ज्ञातव्यम् -

  1. वर्तमानसूत्रेण निर्दिष्टः नुमागमः केवलं श-प्रत्यये परे एव भवति, अन्यत्र न । यथा, मुच्-धातोः क्त-प्रत्ययान्तरूपम् 'मुक्तम्' इत्यत्र श-विकरणप्रत्ययः न आगच्छति, अतः अत्र नुमागमः न भवति ।

  2. यद्यपि एते सर्वे धातवः अनिदितः सन्ति, तथापि अनेन सूत्रेण प्रोक्तस्य नुमागमस्य अनिदितां हलः उपधायाः क्ङिति6.4.24 इत्यनेन लोपः न जायते, यतः तादृशं कुर्मश्चेत् वर्तमानसूत्रस्य प्रयोजनमेव विनश्यति । अतः वर्त्तमानसूत्रस्य विधानसामर्थ्यात् एतेषाम् नुमागमस्य लोपः न करणीयः ।

Balamanorama

Up

index: 7.1.59 sutra: शे मुचादीनाम्


शे मुचादीनाम् - अचि विभाषा ।ग्रो यङी॑त्यतो ग्र इत्यनुवर्तते । 'कृपो रो लः' इत्यतो रो ल इति । तदाह — गिरतेरिति । अजादाविति ।धातोः कार्यमुच्यमानं तत्प्रत्यये भवतीति परिभाषालब्धस्य प्रत्ययस्य अचा विशेषणात्तदादिविधिः । तेन गिरावित्यादौ नेतिमृजेर्वृद्धि॑रिति सूत्रभाष्ये स्पष्टम् । दृङ् आदरे इति । ह्रस्वान्तोऽयम् ।उश्चे॑ति कित्त्वान्न गुणः । आदृतेति ।ह्रस्वादङ्गा॑दिति सलोपः । प्रच्छ ज्ञीप्सायामिति । ज्ञातुमिच्छा - ज्ञीप्सा । अनिडयम् । पृच्छतीति । शस्य ङित्त्वात्ग्रहिज्ये॑ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः । पप्रच्छतुरिति । संयोगात्परत्वेन कित्त्वाऽभावान्न संप्रसारणमिति भावः । भारद्वाजनियमात्थलि वेडिति म्तवाह — पप्रच्छिथ पप्रष्ठेति । इडभावपक्षे व्रश्चादिना छस्य षः, थस्य ष्टुत्वेन ठ इति भावः । पप्रच्छिव । प्रष्टेति । छस्य व्रश्चेति । सूत्रे सतुक्कस्य छस्य ग्रहणात् । किरादयो वृत्ता इति । नचैवं सति 'किरश्च पञ्चभ्यः' इत्यत्र पञ्चग्रहणं व्यर्थं, किरादीनां पञ्चत्वादिति वाच्यं, स्यरुदादिभ्यः सार्वधातुके॑ इत्युत्तरार्थत्वात् । सृज विसर्गे । अनिट् । सृजति.ससर्ज । ससृजतुः । अजन्ताऽकारवत्त्वाऽभावेऽपिविभाषा सृजिदृशो॑रिति थलि वेडिति मत्वाह — ससर्जिथ सरुआष्ठेति । इडभावेव्रश्चे॑तिजस्यषः, थस्य ष्टुत्वेन ठः, पित्त्वेनाऽकित्त्वात्सृजिदृशो॑रित्यमागम इति भावः । ससृजिव । टु मस्जो । मज्जतीति । सस्य श्चुत्वेन शः, तस्य जश्त्वेन ज इति भावः । ममङ्क्थेति । मस्जेर्द्वित्वे हलादिशेषे ममस्ज् थेति स्तितेस्को॑रिति सकारलोपे ममज् थ इतिस्थिते जस्य कुत्वेन गकारे,मस्जिनशो॑रिति नुमि, तस्यानुस्वारे, तस्य परसवर्णो ङकारः, गस्य चर्त्वेन क इति बोध्यम् । यद्यपि अकारात्परत्र नुमि सत्यपि इदं सिध्यति, तथापिअन्त्यात्पूर्वो नु॑मित्यस्य॑ 'मग्न' इत्यादौ नलोपः फलम् । अन्यथा उपधात्वाऽभावान्नस्य लोपो न स्यादिति भावः । एवं - मङ्क्तेति । मङक्ष्यतीत्यत्र तु सस्य षत्वं विशेषः । 'रुजो भङ्गे' इत्यारभ्य 'विच्छ गतौ' इत्यतः प्रागनिटः ।अनुदात्तस्य चर्दुपधस्ये॑त्यम्विकल्पं मत्वाह - स्प्रष्टा स्पर्ष्टेति । णुद प्रेरणे । णोपदेशोऽयम् । 'विश प्रवेशने' इत्यारभ्य 'सद्लृ शातने' इत्यन्ता अनिटः । तत्र अदुपधस्य थलि वेट् । अन्यस्य तु नित्यमेवेट् । मृशेः 'अनुदात्तस्य चे' त्यम्विकल्पः । तदाह - अम्राक्षीत् - अमर्क्षीदिति ।स्पृशमृशे॑ति सिज्वेति भावः । सिजभावेशल इगुपधा॑दिति क्सं मत्वाह — अमृक्षदिति । णुदधातुर्णोपदेशः । ननु तनादिगण एवाऽस्मिन्स्वरितेत्सु पठितस्य किमर्थमिह पाठ इत्यत आह - कत्र्रभिप्रायेऽपीति । षद्लृधातोर्भ्वादौ पठितादेव सीदतीत्यादिसिद्धेरिह पाठो व्यर्थ इत्यत आह - इह पाठ इति । सीदन्तीति । शविकरणाच्छत्रन्तान्ङीपिआच्छीनद्यो॑रिति नुम्विकल्पार्थ इह पाठ इत्यर्थ- । भ्वादावेव पाठे तुशप्श्यनोर्नित्य॑मिति नित्यो नुम् स्यादिति भावः ।तर्हि भ्वाद्यन्तर्गणे ज्वलादावस्य पाठो व्यर्थ इत्यत आह - ज्वलादाविति । 'ज्वलितिकसन्तेभ्यः' इति कर्तरि णप्रत्ययार्थ इति भावः । तदुदाहृत्य दर्शयति - साद इति । उभयत्र पाठस्य फलान्तरमाह - स्वरार्थश्चेति । तदेव विशदयति - शबनुदात्तैति ।अनुदात्तौ सुप्पितौ॑ इति पित्स्वरेणेति भावः । शस्तूदात्त इति । 'प्रत्ययः'आद्युदात्तश्चे॑त्यनेनेति भावः । ननु 'शद्लृ शातने' इत्स्य भ्वादौ पाटादेव सिद्धे इह पाठो व्यर्थ इत्यत आह - स्वार्थ एवेति । प्रागुक्तपित्त्वाऽपित्त्वकृतस्वरभेदार्थ एवेत्यर्थः । मुच्लृ मोक्षणे ।

Padamanjari

Up

index: 7.1.59 sutra: शे मुचादीनाम्


मुचादयः मुच्लृ मोक्षणे इत्यारभ्य तुदादिष्वा गणान्ताद्वेदितव्याः । के पुनस्तृफादय इति । व्यवस्थावाचिन्यादिशब्दे निरनुषङ्गाणामपि ग्रहणप्रसङ्गादिति प्रश्नः । प्रकारवाची आदिशब्दः, प्रकारश्च सादृश्चम्, तच्च नकारानुषक्ततयेत्युतरम् । यदि सानुषाङ्गणां पुनर्नुम् विधीयते, एषं सति परस्य नकारस्यानुस्वारपरसवर्णयोः कृतयोर्नकारमकारयोः श्रवणप्रसङ्गः इत्यत आह - तेषामिति । अथास्य नुमोऽपि लोपः कस्मान्न भवति तत्राह - चेति । विधानसामर्थ्यादिति । अयं च मुचादिष्वेव एलोपाभावस्य हेतुः । तृम्फादिषु तु परनकारलोपस्य चिणो लुग्न्यायेनासिद्धत्वादेव पूर्वनकारस्य लोपाभावः सिद्धः । अथ मुचादिष्वेव तृम्फादयः कस्मान्न पठिताः इत्यत आह - ये त्विति । अयमभिप्रायः - सानुषाङ्गाणां निरनुषङ्गाणां च तन्त्रेणार्थनिर्देशः । तत्र यदि सर्वे मुचादिषु पठ।लेरन्, निरनुषङ्गाणामपि नुम्प्रसङ्गः । सानुषाङ्गाणां निष्कृष्य पाठे द्विरर्थनिर्द्देशेन गौरवप्रसङ्ग इति ॥