6-4-32 जान्तनशां विभाषा असिद्धवत् अत्र आभात् नलोपः उपधायाः न क्त्वि
जान्तनशां उपधायाः क्त्वि नलोपः विभाषा
जकारान्तधातूनाम् विषये, तथा 'नश्' इत्यस्य विषये क्त्वा प्रत्यये परे उपधा-नकारस्य वैकल्पिकः लोपः भवति ।
The उपधा नकार of the जकारान्त verb roots and the verb root 'नश्' is optionally removed when followed by the क्त्वा प्रत्यय.
जान्तानामङ्गानां नशेश्च क्त्वाप्रत्यये परतो विभाषा नकारलोपो न भवति। रङ्क्त्वा, रक्त्वा। भङ्क्त्वा, भक्त्वा। नशः — नंष्ट्वा,नष्ट्वा। इट्पक्षे नशित्वा॥
जान्तानां नशेश्च नलोपो वा स्यात् क्त्वि परे । भक्त्वा । भङ्क्त्वा । रक्त्वा । रङ्क्त्वा । मस्जिनशोः-<{SK2517}> इति नुम् । तस्य पक्षे लोपः । नष्ट्वा । नंष्ट्वा । रधादिभ्यश्च <{SK2514}> इतीट् । पक्षे नशित्वा ॥<!झलादाविति वाच्यम् !> (वार्तिकम्) ॥ नेह । अञ्जित्वा । ऊदित्वाद्वेट् । पक्षे अक्त्वा । अङ्क्त्वा । जनसन-<{SK2504}> इत्यात्वम् । खात्वा । खनित्वा । द्यतिस्यति-<{SK3074}> इतीट् । दित्वा । सित्वा । मित्वा । स्थित्वा । दधातोर्हिः <{SK3076}> । हित्वा ॥
येषु धातुषु उपधा-स्थाने नकारः अस्ति तथा अन्तिम-स्थाने जकारः अस्ति, तेषामुपधानकारस्य क्त्वा-प्रत्यये परे <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन प्राप्तः लोपः वर्तमानसूत्रेण विकल्प्यते । यथा - रन्ज्, भन्ज् - एतेषाम् विषये अयं नकारलोपः विकल्पेन भवति । तथा च, 'नश्' अस्य धातोः <<मस्जिनशोर्झलि>> 7.1.60 अनेन सूत्रेण नुमागमे कृते तस्यापि <<अनिदितां हलः उपधायाः क्ङिति>> 6.4.24 इत्यनेन प्राप्तः लोपः वर्तमानसूत्रेण विकल्प्यते । प्रक्रियाः एताः - 1. भन्ज् + क्त्वा → भज् + त्वा / भन्ज् + त्वा [<<जान्तनशां विभाषा>> 6.4.32 इति वैकल्पिकः नकारलोपः] → भग् त्वा / भन् ग् त्वा [<<चोः कुः>> 8.2.30 इति कुत्वम् गकारः] → भक्त्वा / भङ्क्त्वा [नकारपक्षे <<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः । उभयोः पक्षयोः <<खरि च>> 8.4.55 इति चर्त्वम् । नकारपक्षे <<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः] एवमेव रञ्ज् इत्यस्य रङ्क्त्वा / रक्त्वा एते द्वे रूपे भवतः 2. नश् + क्त्वा → नन् श् + त्वा [<<मस्जिनशोर्झलि>> 7.1.60 इत्यनेन झलादि-प्रत्यये परे नश्-धातोः नुमागमः] → नश् त्वा / नन्श् त्वा [<<जान्तनशां विभाषा>> 6.4.32 इति वैकल्पिकः नकारलोपः] → नष्ट्वा, नंष्ट्वा [<<व्रश्चभ्रस्ज..>> 8.2.36 इति शकारस्य षकारः । नकारश्रवणपक्षे <<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः । उभयोः पक्षयोः <<ष्टुना ष्टुः>> 8.4.41 इति ष्टुत्वे तकारस्य टकारः]
मक्त्वा, मङ्त्वा, नष्ट्वा, नंष्ट्वा । मस्जिनशोर्झलि इति तुम् । अन्तग्रहणं विस्पष्टार्थम् वर्णग्रहणादेव तदन्तविधिलाभात् ॥