श्रुशृणुपॄकृवृभ्यश्छन्दसि

6-4-102 श्रुशृणुपॄकृवृभ्यः छन्दसि असिद्धवत् अत्र आभात् क्ङिति हेः धिः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

श्रु शृणु पृ कृ वृ इत्येतेभ्य उत्तरस्य हेर्धिरादेशो भवति छन्दसि विषये। श्रु॒धी हव॑मिन्द्॒र (ऋ० २.११.१)। गिरः॑ शृणु॒धी (ऋ० ८.१३.७)। पू॒र्धि (ऋ० ८.७८.१०)। उ॒रु ण॑स्कृधि (ऋ० ८.७५.११)। अपा॑ वृधि (ऋ० १.७.६)। शृणुधीत्यत्र धिभावविधानसामर्थ्याद् <<उतश्च प्रत्ययाद्०>> ६.४.१०६ इति हेर्लुग् न भवति। <<अन्येषामपि दृश्यते>> ६.३.१३७ इति दीर्घत्वम्। अतोऽन्यत्र <<व्यत्ययो बहुलम्>> ३.१.८५ इति शप्, तस्य <<बहुलं छन्दसि>> २.४.७३ इति लुक्॥

Siddhanta Kaumudi

Up

श्रुधी हवम् (श्रु॒धी हव॑म्) । शृणुधी गिरः (शृणुधी॒ गिरः॑) । रायस्पूर्धि (रा॒यस्पू॑र्धि) । उरुणस्कृधि (उ॒रुण॑स्कृधि) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

उरुकृदुरुणस्कृधीति । नश्च धातुस्थोरुषुभ्यः इति णत्वम्, कः करत् इति विसर्जनीयस्य सत्वम् । अन्यषामपि दृश्यत इति । दीर्घत्वमिति । न केवलं शृणुधी गिर इत्यत्र, श्रुधी हवम्, अपावृधीत्यत्राप्यनेनैव दीर्घत्वम् । अतोऽन्यत्रेति । शृणुधीत्यतोऽन्यषु सर्वोदाहरणेषु ॥