6-1-74 आङ्माङोः च तुक् संहितायाम् छे
आङ्-माङोः छे तुक् संहितायाम्
आङ्-इत्यस्य माङ्-इत्यस्य च छकारे परे संहितायाम् तुगागमः भवति ।
The words आङ् and माङ् get a तुक्-आगम when followed by a छकार, in the context of संहिता.
तुगित्यनुवर्तते, छ इति च। आङ ो ङित ईषदादिषु चतुर्ष्वर्थेषु वर्तमानस्य, माङ श्च प्रतिषेधवचनस्य छकारे परतस्तुगागमो भवति। <<पदान्ताद् वा>> ६.१.७६ इति विकल्पे प्राप्ते नित्यं तुगागमो भवति। ईषदर्थे — ईषच्छाया आच्छाया। क्रियायोगे — आच्छादयति। मर्यादाभिविध्योः — आच् छायायाः आच्छायम्। माङ ः खल्वपि — माच् छैत्सीत्। माच् छिदत्। ङिद्विशिष्टग्रहणं किम् ? आ छाया, आच् छाया। प्रमा छन्दः, प्रमाच् छन्दः॥
एतयोश्छे परे तुक्स्यात् । पदान्ताद्वे <{SK149}>ति विकल्पापवादः । आच्छादयति । माच्छिदत् ॥
'आङ्' तथा 'माङ्' इत्येतौ द्वौ निपातसंज्ञकौ शब्दौ । एतयोः द्वयोः अपि शब्दयोः छकारे परे संहितायाम् तुगागमः भवति । क्रमेण विवरणम् एतादृशम् —
1) 'ईषद्' (किञ्चित्) अस्मिन् अर्थे — आ + छाया = आच्छाया ।
2) 'मर्यादा' (boundary that is not included) — आ + छत्रम् = आच्छत्रम् ।
3) 'अभिविधिः' (boundary that is included) अस्मिन् अर्थे अस्मिन् अर्थे — आ + छदिः = आच्छदिः ।
4) 'उपसर्गः' अस्मिन् अर्थे — आ + छादयति = आच्छादयति ।
यत्र आङ्-शब्दः उपसर्गार्थे प्रयुज्यते, तत्र संहितैकपदे नित्या, नित्या धातूपसर्गयोः इति वचनम् अनुसृत्य संहिता नित्या अस्ति, अतः तुगागमः अपि नित्यः एव ज्ञातव्यः। अन्येषु त्रिषु अर्थेषु तु संहिता विवक्षाम् अपेक्षते, अतः — संहितायां सत्याम् तुगागमसहितम् रूपम् (यथा - आच्छाया), तथा च संहितां विना तुगागमरहितम् रूपम् (यथा - आ छाया) — इति उभयथा प्रयोगः सम्भवति ।
<<आङ्माङोश्च>> - आङ्भाङोश्च । छे तुगित्यनुवर्तते । तदाह-एतयोरिति । आङ्भाङोरित्यर्थः । ननु दीर्घादित्येव सिद्धे किमर्थमिदमित्यत आह-विकल्पापवाद इति । आच्छादयति । माच्छिददिति । तुकि पूर्ववत्प्रक्रिया । दीर्घात् । छे तुगित्यनुवर्तते ।
आङ्भाडोर्ङिद्विश्ष्टयोरुपादाने प्रयोजनमाहः -आङे ङ्तीति। अर्थविशेषसम्पादनार्थं ङिद्विशिष्टयोरुपादानमित्यर्थः। आच्छायाया इति। ठाङ् मर्यादावचनेऽ इति कर्मप्रवचनीयसंज्ञा,'पञ्चम्यपाङ्परिभिः' इति पञ्चमी। आच्छायमिति। ठाङ् मर्यादाभिविध्योःऽ इत्यव्ययीभावः। माच्छिददिति। ठिरितो वाऽ इत्यङ्। आछाया, आच्छायेति। स्मरणे चात्राकारः,'वाक्यस्मरणयोरैङ्त्' । प्रमेति। प्रमूर्वान्माङ्ः ठातश्चोपसर्गेऽ इत्यङ्, अत्र धातोर्ङ्त्वेऽइपि टाबन्तो न ङ्त्,'गामादाग्रिहणेष्वविशेषः' इति लाक्षणीकस्याप्यस्य ग्रहणस्य प्रसङ्गः। अत्रोभयत्रापि'पदान्ताद्वा' इति विकल्प एव भवति ॥