6-1-158 अनुदात्तं पदम् एकवर्जम् संहितायाम्
अनुदात्तम् पदम् एकवर्जम्
पदम् एकवर्जमनुदात्तम् भवति ।
परिभाषेयं स्वरविधिविषया। यत्रान्यः स्वर उदात्तः स्वरितो वा विधीयते, तत्रानुदात्तं पदमेकं वर्जयित्वा भवतीत्येतदुपस्थितं द्रष्टव्यम्। अनुदात्ताच्कमनुदात्तम्। कः पुनरेको वर्ज्यते ? यस्यासौ स्वरो विधीयते। वक्ष्यति — <<धातोः>> ६.१.१६२ अन्त उदात्तो भवतीति। गो॒पा॒यति॑। धू॒पा॒याति॑। धातोरन्त्यमचं वर्जयित्वा परिशिष्टमनुदात्तं भवति। धातुस्वरं श्नास्वरो बाधते। लु॒नाति॑। पु॒ना॒ति॑। श््नास्वरं तस्स्वरः। लु॒नी॒तः। पु॒नी॒तः। तस्स्वरमाम्स्वरः। लु॒नी॒त॒स्त॒राम्। पु॒नी॒त॒स्त॒राम्।
आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च।
पृथक्स्वरनिवृत्त्यर्थमेकवर्जं पदस्वरः॥
आगमस्य — <<चतुरनडुहोरामुदात्तः>> ७.१.९८ च॒त्वारः॑। अ॒न॒ड्वाहः॑। आगमस्वरः प्रकृतिस्वरं बाधते। विकारस्य — अ॒स्थनि॑, द॒धनि॑ इत्यनङ्स्वरः प्रकृतिस्वरं बाधते। प्रकृतेः — गो॒पा॒यति॑। धू॒पा॒याति॑। प्रकृतिस्वरः प्रत्ययस्वरं बाधते। प्रत्ययस्य — क॒र्तव्य॑म्। ह॒र्तव्य॑म्। प्रत्ययस्वरः प्रकृतेः स्वरस्य बाधकः। परनित्यान्तरङ्गापवादैः स्वरैर्व्यवस्था सतिशिष्टेन च । यो हि यस्मिन् सति शिष्यते, स तस्य बाधको भवति। तथाहि — गोपायतीत्यत्र धातुस्वरापवादः प्रत्ययस्वरस्तेनैव धातुस्वरेण प्रत्ययान्तस्य धातोः सतिशिष्टत्वाद् बाध्यते। का॒र्ष्णो॒त्त॒रा॒स॒ङ्ग॒पु॒त्र इत्यत्र च समासस्वरापवादो बहुव्रीहिस्वरः सतिशिष्टेन समासान्तोदात्तत्वेन बाध्यते। विकरणस्वरस्तु सतिशिष्टोऽपि सार्वधातुकस्वरं न बाधते। लु॒नी॒त इति तस एव स्वरो भवति॥ विभक्तिस्वरान्नञ्स्वरो बलीयानिति वक्तव्यम्॥ अति॑स्र इत्यत्र <<तिसृभ्यो जसः>> ६.१.१६६ इति सतिशिष्टोऽपि विभक्ति — स्वरो नञ्स्वरेण बाध्यते॥ विभक्ति निमित्तस्वराच्च नञ्स्वरो बलीयानिति वक्तव्यम्॥ अच॑त्वारः, अन॑नड्वाह इति। यस्य विभक्तिर्निमित्तमामः, तस्य यदुदात्तत्वं तद् नञ्स्वरेण बाध्यते। पदग्रहणं किम् ? देव॑दत्त॒ गाम॒भ्याज॑ शु॒क्लाम् इति वाक्ये हि प्रतिपदं स्वरः पृथग् भवति। परिमाणार्थं चेदं पदग्रहणं पदाधिकारस्य निवृतिं करोति। तेन प्रागेव पदव्यपदेशात् स्वरविधिसमकालमेव शिष्टस्यानुदात्तत्वं भवति । तथा च कुवल्या विकारः कौव॑लम् इत्यत्रानुदात्तादिलक्षणोऽञ् सिद्धो भवति। तथा गर्भिणीशब्दश्चानुदात्तादिलक्षणस्याञो बाधनार्थं भिक्षादिषु पठ्यते। कुवलगर्भशब्दावाद्युदात्तौ॥
परिभाषेयं स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं तत्पदमनुदात्ताच्कं स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । अत्र सनाद्यन्ताः - <{SK2304}> इति धातुत्वे धातुस्वरेण यकाराकार उदात्तः शिष्टमनुदात्तम् ।<!सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम् !> (वार्तिकम्) ॥ तेनोक्तोदाहरणे गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते । अन्त्रेति किम् । यज्ञं यज्ञम्भिवृधे गृणीतः (य॒ज्ञं य॑ज्ञम॒भिवृ॒धे गृ॑णी॒तः) । अत्र सति शिष्टोऽपि श्ना इत्यस्य स्वरो न शिष्यते किं तु तस एव ॥
इदम् परिभाषासूत्रम् स्वरनिर्णयस्य प्रमुखम् विधिम् पाठयति । पदे यदि कश्चन स्वरः स्वरितः / उदात्तः वा विधीयते, तर्हि तं स्वरं वहाय पदे विद्यमानाः अन्ये स्वराः अनुदात्ताः भवन्ति, इति अस्य सूत्रस्य आशयः । उदाहरणात् पूर्वम् बिन्दुत्रयम् स्मर्तव्यम् - 1. शब्दे यदि द्वौ वा अधिकाः स्वराः उदात्ता / स्वरिताः विद्यन्ते, तर्हि तत्र कस्य स्वरस्य उदात्तत्वम् / स्वरितत्वम् बलवत्तममस्ति अस्मिन् विषये एकः सामान्यः नियमः उक्तः अस्ति - यः स्वरः प्रक्रियायाम् अन्ते उदात्तत्वं / स्वरितत्वं प्राप्नोति, तस्य उदात्तत्वं / स्वरितत्वं तादृशमेव संस्थाप्य अन्ये उदात्त/स्वरितस्वराः वर्तमान-परिभाषया अनुदात्ताः भवन्ति । अयमेव विधिः 'सतिशिष्टस्वरस्य नियमः' नाम्ना ज्ञायते (यस्य उदात्तत्वम् / स्वरितत्वमवशिष्यते, सः शिष्टस्वरः अस्तीति नाम । तस्य निर्धारणम् येन विधिना क्रियते, सः सतिशिष्टस्वरविधिः - इति आशयः)। 2. सतिशिष्टस्वरस्य विषये एकम् वार्त्तिकम् ज्ञातव्यम् - <!सति शिष्टस्वरबलीयस्त्वम् अन्यत्र विकरणेभ्य इति वाच्यम्!> । इत्युक्ते, विकरणप्रत्ययः यद्यपि प्रक्रियायाः अन्ते विधीयते, तथापि सः सतिशिष्टनियमेन बलवान् न भवति - इति ।अस्य वार्त्तिकस्य प्रयोगः अधः द्वितीये उदाहरणे कृतः अस्ति । 3. त्रिपाद्याम् <<उदात्तादनुदात्तस्य स्वरितः>> 8.4.66 इति किञ्चन सूत्रम् पाठ्यते । अनेन सूत्रेण उदात्तस्वरात् परः विद्यमानः अनुदात्तस्वरः स्वरितः जायते । अयं स्वरितस्वरः उदात्तस्वरस्य आश्रयेण जायते, अतः अतम् 'आश्रितः स्वरः' अस्ति इत्युच्यते । तथा च, इदम् सूत्रम् प्रक्रियायाः अन्ते प्रयुज्यते, अस्य कार्यम् च वर्तमानसूत्रार्थमसिद्धमस्ति, अतः अस्य सूत्रस्य प्रयोगात् अनन्तरम् पुनः वर्तमानपरिभाषा न प्रसज्यते । उदाहरणद्वयं पश्यामः - 1. 'गोपाय' इति भ्वादिगणस्य धातुः । गुप्-धातोः 'आय' इति सनादिप्रत्ययं कृत्वा अग्रे <<सनाद्यन्ताः धातवः>> 3.1.32 इत्यनेन अस्य धातुसंज्ञा भवति । अस्य धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपमस्ति 'गोपायति' इति । अस्य रूपस्य प्रक्रिया तथा तस्याम् स्वरसञ्चारः इत्थं भवति - गुप् [<<धातोः>> 6.1.162 इति उकारस्य उदात्तत्वम्] → गुप् + आय [<<गुपूधूपविच्छिपणिपनिभ्य आयः>> 3.1.28 इति 'आय' इति सनादिप्रत्ययः । <<आद्युदात्तश्च>> 3.1.3 इत्यनेन अस्य प्रत्ययस्य आदिस्वरः उदात्तः भवति । यकारोत्तरः अकारः तु औत्सर्गिकतया उदात्तः अस्ति ।] → गोप् + आय [<<पुगन्तलघूपधस्य च>> 7.3.86 इति उपधास्वरस्य गुणादेशः] → गोपाय [वर्णमेलनम् । अग्रे <<सनाद्यन्ताः धातवः>> 3.1.32 इत्यनेन 'गोपाय' इत्यस्य धातुसंज्ञा, अतः यकारोत्तरः अकारः <<धातोः>> 6.1.162 इति उदात्तः जायते ।] → गोपाय + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → गोपाय + ति॒प् [प्रथमपुरुषैकवचनस्य विवक्षायाम् <<तिप्तस्झि>> 3.4.78 इति तिप्-प्रत्ययः । <<अनुदात्तौ सुप्पितौ>> 3.1.4 इति तकारोत्तरः इकारः अनुदात्तः भवति ।] → गोपाय + श॒प् + ति॒प् [<<कर्तरि शप्>> 3.1.68 इति शप्-विकरणप्रत्ययः । <<अनुदात्तौ सुप्पितौ>> 3.1.4 इति शकारोत्तरः अकारः अनुदात्तः भवति ।] → गोपाय + अ॒ + ति॒ [इत्संज्ञालोपः] → गोपाय + ति॒ [ यकारोत्तर-अकारः तथा विकरणप्रत्ययस्य अकारः - द्वयोः <<अतो गुणे>> 6.1.97 इति एकः पररूपः एकादेशः अकारः ।<<एकादेश उदात्तेनोदात्तः>> 8.2.5 इति सः उदात्तः जायते। ] → गोपायति॒ [<<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा ।] → गो॒पा॒यति॒ ['गोपायति॒' अस्मिन् पदे त्रयः उदात्तस्वराः सन्ति, एकः च अनुदात्तः स्वरः अस्ति । अतः <<अनुदात्तं पदमेकवर्जम्>> 6.1.158 इत्यनेन एकं उदात्तस्वरं वर्जयित्वा अन्यौ द्वौ स्वरौ अनुदात्तौ जायेते । अत्र त्रिषु स्वरेषु यकारोत्तरः अकारः सतिशिष्टनियमेन बलवत्तममस्ति, अतः तं विहाय अन्यौ स्वरौ अनुदात्तौ भवतः ।] → गो॒पा॒यति॑ [ <<उदात्तादनुदात्तस्य स्वरितः>> 8.4.66 इति तकारोत्तरः इकारः आश्रित-स्वरितत्वं प्राप्नोति ।] एतादृशं गुप्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् 'गो॒पा॒यति॑' इति जायते । 2. 'ज्ञा' इति क्र्यादिगणस्य धातुः । अस्य धातोः परस्मैपदस्य लट्लकारस्य द्विवचनस्य रूपम् 'जानीतः' इति भवति । अस्य रूपस्य सिद्धिः तथा अस्यां स्वरसञ्चारः इत्थम् भवति - ज्ञा॑ [क्र्यादिगणस्य धातुः । धातौ विद्यमानः आकारः मूलरूपेण स्वरितः अस्ति, येन धातुः उभयपदं स्वीकरोति ।] → ज्ञा [धातौ विद्यमानः आकारः प्रक्रियायाः आरम्भे <<धातोः>> 6.1.162 इत्यनेन उदात्तः जायते ।] → ज्ञा + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्] → ज्ञा + तस् [प्रथमपुरुषद्विवचनस्य विवक्षायाम् <<तिप्तस्..>> 3.4.78 इति 'तस्' प्रत्ययः । तकारोत्तरः आकारः <<आद्युदात्तश्च>> 3.1.3 इति उदात्तः भवति ।] → ज्ञा + श्ना + तस् [<<क्र्यादिभ्यः श्ना>> 3.1.81 इति श्ना विकरणप्रत्ययः । अस्य आकारः <<आद्युदात्तश्च>> 3.1.3 इति उदात्तः भवति ।] → जा + ना + तस् [<<ज्ञाजनोर्जा>> 7.3.79 इति शित्-प्रत्यये परे 'ज्ञा' इत्यस्य 'जा' आदेशः भवति ।] → जा + नी + तस् [<<ई हल्यघोः>> 6.4.133 इति विकरणस्य आकारस्य ईकारः] → जानीतस् [<<सुप्तिङन्तं पदम्>> 1.4.14 इति पदसंज्ञा] → जा॒नी॒तस् [अत्र वस्तुतः श्ना-प्रत्ययस्य आकारः प्रक्रियायामन्ते उदात्तत्वं स्वीकरोति । अतः सतिशिष्टनियमेन तस्यैव उदात्तत्वं विधीयेत, अन्ये स्वराः अनुदात्ताः भवेयुः । परन्तु अयम् विकरणस्वरः अस्ति, अतः <!सति शिष्टस्वरबलीयस्त्वम् अन्यत्र विकरणेभ्य इति वाच्यम्!> अनेन वार्त्तिकेन अस्य उदात्तत्वं बलवान् न भवति, अतः तं बाधित्वा प्रक्रियायाम् तस्मात् पूर्वसोपाने उदात्तत्वं येन प्राप्तम्, सः 'तस्' प्रत्ययस्य स्वरः उदात्तत्वं हरते, अन्ये स्वराः च अनुदात्ताः भवन्ति ।] → जा॒नी॒तः [<<ससजुषो रुँः>> 8.2.66 इति रुँत्वम्, <<खरवसानयोर्विसर्जनीयः>> 8.3.14 इति विसर्गः] एतादृशं ज्ञा-धातोः लट्लकारस्य प्रथमपुरुषद्विवचनस्य रूपम् 'जा॒नी॒तः' इति भवति ।