7-3-79 ज्ञाजनोः जा शिति
index: 7.3.79 sutra: ज्ञाजनोर्जा
ज्ञ जन इत्येतयोः जादेशो भवति शिति परतः। जानाति। जायते। जनेर्दैवादिकस्य ग्रहणम्।
index: 7.3.79 sutra: ज्ञाजनोर्जा
अनयोर्जादेशः स्याच्छिति । जायते । जज्ञे । जज्ञाते । जज्ञिरे । जनिता । जनिष्यते । दीपजन - <{SK2328}> इति वा चिण् ।
index: 7.3.79 sutra: ज्ञाजनोर्जा
अनयोर्जादेशः स्याच्छिति। जायते। जज्ञे। जनिता। जनिष्यते॥
index: 7.3.79 sutra: ज्ञाजनोर्जा
ज्ञाजनोर्जा - ज्ञाजनोर्जा । शितीति ।ष्ठिवुक्लमुचमा॑मित्यतस्तदनुवृत्तेरिति भावः । जायते इति । ज्ञाधातोस्तुश्नविकरणत्वाज्जानातीत्युदाहरणम् । उभयत्रापि जादेशस्य ह्रस्वान्तत्वेअङ्गकार्ये कृते पुनर्नाङ्गकार्य॑मिति परिभाषया 'अतो दीर्घो यञी' त्यप्रप्तर्जार्देशस्य दीर्घान्तत्वमाश्रितम् । जज्ञे इति ।गमहने॑त्युपधालोपे नस्य श्चुत्वेन ञः । जायेत ।जनिषीष्ट । लुङि अजन् त इति स्थिते आह — दीपेति । वा चिणिति ।च्ले॑रिति शेषः । अजन् इ त इति स्थिते उपधावृद्धौ प्राप्तायाम् —
index: 7.3.79 sutra: ज्ञाजनोर्जा
दैवादिकस्य ग्रहणमिति । न जौहोत्यादिकस्य, शितोऽसम्भवात् । दीर्घोच्चरणस्य प्रयोजनमुतरसूत्रे वक्ष्यते ॥