पारस्करप्रभृतीनि च संज्ञायाम्

6-1-157 पारस्करप्रभृतीनि च सञ्ज्ञायाम् संहितायाम् सुट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पारस्करप्रभृतीनि च शब्दरूपाणि निपात्यन्ते संज्ञायां विषये। पारस्करो देशः कारस्करो वृक्षः। रथस्पा नदी। किष्कुः प्रमाणम्। किष्किन्धा गुहा। तद्बृहतोः। करपत्योश्चोरदेवतयोः सुट् तलोपश्च (ग॰ सू॰ १६३)। तस्करश्चोरः। बृहस्पतिर्देवता। चोरदेवतयोरिति किम् ? तत्करः। बृहत्पतिः। संज्ञाग्रहणादुपाधिपरिग्रहे सिद्धे गणे चोरदेवताग्रहणं प्रपञ्चार्थम्। प्रात्तुम्पतौ गवि कर्तरि (ग॰ सू॰ १६४)। तुम्पतौ धातौ प्रशब्दात् परस्सुट् भवति गवि कर्तरि। प्रस्तुम्पति गौः। गवीति किम् ? प्रतुम्पति वनस्पतिः। पारस्करप्रभृतिराकृतिगणः। अविहितलक्षणः सुट् पारस्करप्रभृतिषु द्रष्टव्यः। प्रायश्चित्तम्। प्रायश्चित्तिः। यदुक्त ं <<प्रायस्य चित्तिचित्तयोः सुडस्कारो वा>> (महाभाष्य ३.९६) इति, तत् संगृहीतं भवति॥

Siddhanta Kaumudi

Up

एतानि ससुट्कानि निपात्यन्ते नाम्नि । पारस्करः । किष्किन्धा ।<!तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च !> (वार्तिकम्) ॥ तात्पूर्वं चर्त्वेन दकारोऽपि बोध्यः । तद्बृहतोर्दकारतकारौ लुप्येते । करपत्योस्तु सुट् । चोरदेवतयोरिति समुदायोपाधिः । तस्करः । बृहस्पतिः । ।<!प्रायस्य चित्तिचित्तयोः !> (वार्तिकम्) ॥ प्रायश्चित्तिः । प्रायश्चित्तम् । वनस्पतिरित्यादि । आकृतिगणोऽयम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पारस्करप्रभृतीनि (च संज्ञायाम्)>> - पारस्करप्रभृतीनि च । परस्कर इति । पारं करोतीति विग्रहः । पूर्ववट्टः । किष्किन्धेति । किं=किमपि वानरसैन्यं धत्ते इति किष्किन्धा ।आतोऽनुपसर्गे कः॑ । टाप् । निपातनात् किमो द्वित्वम् । मलोपः सुट्, षत्वं च । रूढशब्दा एते कथञ्चिद्व्युत्पाद्यन्ते, एषामवयवार्तोन विचारणीयः । तद्वृहतोरिति । पारस्करादिगणसूत्रमेतत् । तच्छब्दे तकारस्याऽन्त्यस्याऽभावादाह — तात्पूर्वमिति । तलोपश्चेत्यत्र तकारात्पूर्वमित्यर्थः । तत् — चौर्यं-करोतीति विग्रहः ।कृञो हेतुताच्छील्ये॑ इति टः । बृहस्पतिरिति । बृहती=वाक्, तस्याः पतिरिति विग्रहः । [॒कुक्कुठआदीनामण्डादिष्वि॑ति] पुंवत्त्वम्, तलोपः । सुट् ।वाग्धि बृहती, तस्या एष पतिः॑ इति च्छन्दोगब्राआहृणम् । प्रायस्य चित्तिचित्तयोरिति । गणसूत्रमिदम् । प्रायस्य चित्तिः चित्तं वेति विग्रहः ।प्रायं पापं विजानीयाच्चित्तं तस्य विशोधन॑मिति स्मृतिः । वनस्पतिरिति । वनस्य पतिरिति विग्रहः । आकृतिगणो ।ञयमिति । तेन शतात्पराणि परश्शतानीत्यादि सिद्धम् । *इति बालमनोरमायां समासाश्रयविधयः ।*** अथ वासुदेवदीक्षितकृता बालमनोरमा स जयति दिव्यनटेशो नृत्यति योऽसौ चिदम्बरसभायाम् ।पाणिन्याद्या मुनयो यस्य च दयया मनोरथानभजन्॥ १॥अस्तु नमः पाणिनये भूयो मुनये तथास्तु वररुचये ।किंचास्तु पतञ्जलये भ्रात्रे विओआराय गुरवे च॥ २॥व्याख्याता बहुभिः प्रौढेरेषा सिद्धांन्तकौमुदी ।वासुदेवस्तु तद्व्याख्यां वष्टि बालमनोरमाम्॥ ३॥मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते वीरपुरुषाणि भवन्त्यायुष्मत्पुरुषाणि च, अध्येतारश्च वृद्धियुक्ता यथा स्युः॑ इति वृद्धिसूत्रस्थभाष्यादिस्मृतिसिद्धकर्तव्यताकं ग्रन्थादौ कृतं मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नन् प्राचीनग्रन्थैरगतार्थतांष विषयप्रयोजनसम्बन्धाधिकारिणश्च सूचयन् चिकीर्षितं प्रतिजानीते — मुनित्रयमिति श्लोकेन ।इयं वैयाकरणसिद्धान्तकौमुदी विरच्यते॑ इत्यन्वयः ।इय॑मिति ग्रन्थरूपा वाक्यावलिर्विवक्षिता । भाविन्या अपि तस्या बुद्ध्या विषयीकरणादियमिति प्रत्यक्षवन्निर्देशः । व्याकरणमधीयते विदन्ति वा वैयाकरणाः, तेषां सिद्धान्ताः-एते शब्दाः साधव इति निश्चितार्थाः, तेषां कौमुदी चन्द्रिका । अत्यन्तसादृश्यात्ताद्रूप्यव्यपदेशः । चन्द्रिका-हि तमो निरस्यति, भावान् सुखं प्रकाशयति, दिन करकिरणसंपर्कजनितं संतापमपगमयति । एवमियमपि ग्रन्थरूपवाक्यावलिरज्ञानात्मकं तमो निरस्यति, मुनित्रयग्रन्थभावाननायासं प्रकाशयति, अतिविस्तृतदुरूहभाष्यकैयटादिमहाग्रन्थपरिशीलनजनितं चित्तसंतापं च शमयतीति अत्यन्तसादृश्याद्युज्यते चन्द्रिकातादात्म्याध्यवसायः । विरच्यते=क्रियते । वर्तमानसामीप्याद्वर्तमानव्यपदेशः । किं कृत्वेत्यत आह — मुनित्रयं नमस्कृत्येति । त्रयोऽवयवा अस्य समुदायस्य त्रयं । त्र्यवयवकसमुदायः ।संख्याया अवयवे तयप् इति तयप्तद्धितः ।द्वित्रिभ्यां तयस्यायज्वा॑ इति तयस्याऽयजादेशः । मुनीनां त्रयमिति षष्ठीसमासः । त्रयाणां मुनीनां समुदाय इति यावत् । यद्यपि मुनिशब्दस्य त्रिशब्दस्य चाऽभेदान्वये त्रिशब्दस्य मुनिशब्दसापेक्षत्वादसामर्थ्यात्तद्धितानुपपत्तिः, तथापि त्रयोऽवयवा अस्य समुदायस्य त्रयमिति प्रथमं व्युत्पाद्यम् । अत्र त्रिशब्दस्य मुनिशब्दमनपेक्ष्यैव समुदायेऽन्वयान्नास्त्यसामर्थ्यम् । ततो मुनीनां त्रयमिति मुनिशब्दः समुदायेऽन्वेति, तस्य प्रत्ययार्थतया प्रधानत्वात् । न तु मुनिशब्दस्य त्रयशब्दैकदेशभूतत्रिशब्देनाभेदान्वयः,पदार्थः पदार्थेनान्वेति न तु तदेकदेशेन॑ इति न्यायात् । ततश्च मुनिशब्दत्रिशब्दयोः परस्परवार्तानभिज्ञयोरेव शब्दमर्यादया समुदायेऽन्वये सति पश्चात्संख्यायाः परिच्छेदकत्वस्वभावतया त्रित्वस्य परिच्छेद्यपर्यालोचनायां संनिहितपदान्तरोपस्थितत्वान्भुनय एव परिच्छेंद्यतया संबध्यन्ते -त्रयाणां मुनीनां समुदाय इति । सोऽयं पार्ष्ठिकान्वयोऽरुणाधिकरणन्यायविदां सुगम इत्यलं विस्तरेण । मुनित्रयमिति कर्मणि द्वितीया । 'नमः स्वस्ति' इति चतुर्थी तु न,कारकविभक्तेर्बलीयस्त्वस्य वक्ष्यमाणत्वात् । नमस्कृत्य । अजलिशिरः-संयोगादिव्यापारेण तोषयित्वेत्यर्थः । नमस्करोतेरजलिशिरः संयोगादिरूपव्यापारमात्रार्थकत्वेऽकर्मकत्वापत्त्या द्वितीयानुपपत्तेः । ननु प्राचीनेषु प्रक्रियाकौमुद्यादिग्रन्थेषु वैयाकरणसिद्धान्तानां सङ्ग्रहात्तैरेव ग्रन्तैश्चरितार्थत्वात् । किमनेन ग्रन्थेनेत्यत आह — तदुक्तीः परिभाव्य चेति । तस्य मुनित्रयस्य उक्तयः तदुक्तयः=सूत्रवार्तिकभाष्यात्मकग्रन्थरूपवाक्याबलयः । ताः परिभाव्य च=सम्यगालोच्य चेत्यर्थः । भूधातोः स्वार्थिकणिजन्ताद्रूपम् । चुरादौ हि 'भुवोऽवकल्कने' इत्यत्र ण्यन्तभूधातोश्चन्तनार्थकत्वमपि वक्ष्यते मूलकृतैव । नचअनादरः परिभवः परीभावस्तिरक्रिया॑ इति कोशविरोधः शङ्क्यः, कोशस्य अण्यन्तभूधातुविषयत्वात् । 'परौ भुवोऽवज्ञाने' इति सूत्रेण तिरस्कारार्थे वर्तमानादण्यन्तात्परिपूर्वकभूधातोर्भावे घञि परिभावशब्दस्य व्युत्पत्त्यवगमात् । एवं च तदुक्तीरिति तच्छब्दस्य बुद्धिस्थपरामर्शित्वात्प्राचां प्रक्रियाकौमुदीप्रसीदादिकृतामुक्तीस्तिरस्कृत्येत्यर्थ इति व्याख्यानं क्लिष्टत्वादुपेक्षितम् । अनेन स्वग्रन्थस्य मुनित्रयग्रन्थानुयायित्वं, प्राचीनप्रक्रियाकौमुद्यादिग्रन्थानां तद्विरुद्धत्वं च सूचितम् । तच्च प्रौढमनोरमायां स्वयमेव मूलकृता प्रपञ्चितमेव । वैयाकरणसिद्धान्तकौमुदीत्यन्वर्थसंज्ञया वैयाकरणसिद्धान्ताःप्रतिपाद्यत्वेन विषयाः । अनायासेन तदवगमः प्रयोजनम् । तस्य ग्रन्थस्य च जन्यजनकभावः संबन्धः । वैयकरणसिद्धान्तजिज्ञासुरधिकारीति सूचितम् । अथ वैयाकरणसिद्धान्तानिरूपयिष्यन्, व्याकरणशास्त्रस्य मूलभूतानि चतुर्दश सूत्राणि पठति — ऐउणित्यादिना । नन्विमानि सूत्राणि मुनित्रयग्रन्थबर्हिभूतत्वादप्रमाणमित्यत आह — इति माहेआराणि सूत्राणीति । मबेआरादागतानि माहेआराणि । 'तत आगतः' इत्यण् । महेआरादधिगतानीति यावत् । तदुक्तं पाणिनिशिष्टप्रणीतशिक्षयाम् — ॒येनाक्षरसमास्नायमधिगम्य महेआरात् । कृत्स्नं व्याकरणं प्रोक्तं तस्यै पाणिनये नमः॥॑ इति । एतचतुर्दशसूत्रव्याख्यायां नन्दिकेआरकृतायां काशिकायामप्युक्तम् — ॒नृतावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम् । उद्धर्तुकामः सनकादिसिद्धानेतद्विमर्शे शिवसूत्रजालम्॥॑ इति ।अत्र ननादेत्यन्तर्भावितण्यर्थो नदधातुः । ढक्कां नादयामासेत्यर्थः । नवपञ्चवारं=चतुर्दशकृत्वः । एतत्=शिवढक्कोत्थितं वर्णजालं, शिवसूत्रजालतया विमर्शे=जानामीत्यर्थः । आर्षस्तङ् । एवं च महेआरेण प्रोक्तानि माहेआराणीति निरस्तम् । एतेन माहेआरत्वादेतेषां सूत्राणां नाऽप्रामाण्यमित्युक्तं भवति । नन्वेवमपि अनर्थकवर्णराश्यात्मकानामेषां सूत्राणां वैयाकरणसिद्धान्तप्रकाशने उपयोगाऽभावादिह तदुपन्यासो व्यर्थ इत्यत आह — अणाअदिसंज्ञार्थानीति । अण् आदिर्यासां ताः अणादयः, अणादयश्च ताः संज्ञाश्च अणादिसंज्ञाः, ताः अर्थः प्रयोजनं येषां तानि — अणादिसंज्ञार्थानि । अनर्थकवर्णराशित्वेऽपि एषां सूत्राणां व्याकरणशास्त्रगतव्यवहारोपय ग्यणादिसंज्ञासु उपयोगान्नाऽऽनर्थक्यमिति भावः । कथमेषां सूत्राणामणादिसंज्ञार्थत्वमित्यत आह — एषामन्त्या इत इति । एषामुदाहृतसूत्राणामन्त्याः अन्ते भवा णकारादिवर्णाः इत्संज्ञकाः प्रत्येतव्या इत्यर्थः । लण्सूत्रे अकारश्चेति ।इत॑इत्यनुषज्यते । तच्च एकवचनान्ततया विपरिणम्यते । लण्सूत्रे लकारात्परोऽकारश्च इत्संज्ञकः प्रत्येतव्य इत्यर्थः । अनन्त्यत्वात्पृथक्प्रतिज्ञा । ननु लण्सूत्र एव अकारस्य इत्संज्ञकत्वे हयवरेत्यादौ पुनःपुनरकारोच्चारणस्य किं प्रयोजनमित्यत आह — हकारादिष्वकार उच्चारणार्थ इति । हकारादीनां सुखोच्चारणार्थं पुनः पुनरकारपाठ इत्यर्थः । अन्यता ह्य्व्रित्येवं क्लिष्टोच्चारणापत्तेरिति भावः । अथवा अचं विना हलामुच्चारणाऽभावात् पुनः पुनरकारपाठो हकाराद्युच्चारणार्थ इत्येव व्याख्येयम् । अत एव 'उच्चैरुदात्तः' इति सूत्रे भाष्यम् — ॒नान्तरेणाऽचं व्यञ्जनस्योच्चारणं भवति॑ इति । अत्र च इदमेव अकारस्य पुनः पुनरुच्चारणं ज्ञापकम् । एवं च 'वर्णात्कारः' इति कारप्रत्यये सति ककार इत्यादि (रूपाणि) । वागित्याद्यवसानेषु, वृक्ष इत्यादौ संयुक्त वर्णेषु च पदान्ते 'चोः कुः' इत्यादिविधिबलात्,हलोऽनन्तराः संयोगः॑ इत्यादिशास्त्रबलाच्च नायं नियम इत्यलम् । ननु चतुर्दशसूत्र्यां णकाराद्यन्तवर्णानामित्संज्ञा प्रतिज्ञाता — ॒एषामन्त्या इत॑ इति । तदनुपपन्नम् । तेषां हि 'हलन्त्यम्' इति सूत्रेण इत्संज्ञा वक्तव्या । तच्च सूत्रं हल्पदार्थावगमोत्तरमेव प्रवृत्तिमर्हति । हल्संज्ञा च हलिति सूत्रे लकारस्य इत्संज्ञायां सत्याम् 'आदिरन्त्येन सहेता' इति सूत्रेण वाच्या । हलिति सूत्रे लकारस्य इत्संज्ञा च 'हलन्त्यम्' इति सूत्रप्रवृत्तिः, 'हलन्त्यम्' इति सूत्रे हल्सूत्रे लकारस्य इत्संज्ञायाम् 'आदिरन्त्येन सहेता' इति हल्संज्ञासिद्धिरित्येवं 'हलन्त्यम्' 'आदिरन्त्येन' इत्यनयोः परस्परसापेक्षत्वेन अन्योन्याश्रयत्वादबोधः । एवं च हल्संज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य केनचित्सूत्रेण इत्संज्ञामबोधयित्वा 'हलन्त्यम्' इति हलामित्संज्ञाबोधनं पाणिनेरयुक्तमित्याशङ्क्य हल्संज्ञामनुपजीव्यैव हल्सूत्रे लकारस्य इत्संज्ञां विधातुं 'हलन्त्यम्' इति सूत्रं द्विरावृत्य प्रथमसूत्रमुपक्षिपति — हलन्त्यम् ।

Padamanjari

Up

रूढिशब्दा एते यथाकथञ्चिद्व्युत्पाद्याः। पाहङ्करोतीति पारस्करः,'कृञो हेतु' इत्यादिना टः। रथं यातीति रथष्या। ठातोऽनुपसर्गे कःऽ। षत्वागप्यत्र निपात्यते। अन्ये तु सकारमेव पठन्ति। किं करोतीति करोतेर्डुः, किमोऽन्त्यलोपः, सुट्, किष्कुः। किमपि धते किष्किन्धा । पूर्ववत्कः, किमो द्विर्वचनं पूर्वस्य मलोपः, सुट, उभयत्राप्यत्र षत्वमपि निपात्यते। तत्करोतीति तस्करः। अत्र हि तच्छब्देन चोरकर्म प्रसिद्धं निन्द्यं परामृश्यते। प्रातुम्पताविति।'तुप तुम्प हिंसार्थौ' इत्येतस्मिन्धातौ परतः प्रशब्दात्परः सुड् भवति धात्वर्थस्य चेद् गौः कर्ता भवति, प्रस्तुम्पतीति यत्ने तिबन्ते सुट्। स्वशब्देन धातुग्रहणातदादावपि भवति प्रस्तुम्पतो गावौ, प्रस्तुम्पन्ति गाव इति। चितिचितयोरिति।'चिती संज्ञाने' , क्तिन्,'नपुंसके भावे क्तः' । प्रायो नाम तपः प्रोक्तं चितं निश्चय उच्यते। तपो निश्चयसंयोगात्प्रायश्चितमिति स्मृतम् ॥