6-1-159 कर्षात्वतः घञः अन्तः उदात्तः
कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तो भवति। क॒र्षः। पा॒कः। त्या॒गः। रा॒गः। दा॒यः। धा॒यः। ’ञ्नित्यादिर्नित्यम्’ ६.१.१९७ इत्यस्यापवादः। कर्ष इति विकृतनिर्देशः कृषतेर्निवृत्त्यर्थः। तौदादिकस्य घञन्तस्य कर्ष॑ इत्याद्युदात्त एव भवति॥
कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तः स्यात् । कर्षः । शपा निर्देशात्तुदादेराद्युदात्त एव । कर्षः । पाकः ॥
आदस्यास्तीत्यात्वान्,'तसौ मत्वर्थे' इति भसंज्ञा, कर्षश्चात्वांश्चेति समाहारद्वन्द्वः। विकृतनिर्देश इति। विकरणान्तस्येदमनुकरणम्, न तु घञन्तनिर्देश इति भावः। अथ किमर्थो मतुब्निर्देशः, यावता न क्वचिदप्याकारात्परो घञस्तीति सामर्थ्यातद्वतो ग्रहणं भविष्यति? उच्यते; घञाक्षिप्तो धातुरात इत्यनेन विशेष्येत, तत्र तदन्तविधौ ज्ञायमाने आनन्तर्यस्यासम्भवाद्विधानं विशेष्येत -आकारान्ताद्यो विहित इति, ततश्च दाय इत्यादावेव स्यात्, पाक इत्यादौ तु न स्यात्; मतुब्निर्द्देशातु सर्वत्र भवतीति। लाक्षणिकस्याप्यात्वतो ग्रहणमिष्यते; वृषादिषु कामपामपदानां पाठात्। ठलोऽन्त्यस्यऽ इत्येव सिद्धेऽन्तग्रहणमुतरार्थम् ॥